Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

पुराण (Purāṇa) > शिवधर्म पुराण (Śivadharma Purāṇa)

शिवधर्म पुराण

वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्
गुरवे सर्वलोकानां भिषजे भवरोगिणाम्
निधये सर्वविद्यानां दक्षिणामूर्तये नमः
सर्वाकारमशेषस्य जगतः सर्वदा शिवम्
गोब्राह्मणनृपाणां च शिवं भवतु सर्वदा १
शिवमादौ शिवं मध्ये शिवमन्ते च सर्वदा
सर्वेषां शिवभक्तानामनुगानां च नः शिवम् २
श्रीसाम्बसदाशिवपरब्रह्मणे नमः
मेरुपृष्ठे सुखासीनं ऋषिसङ्घैस्समावृतम्
लोकानुग्राहकं शान्तं सर्वज्ञं नान्दिकेश्वरम् ३
तेषां मध्ये समुत्थाय ऋषिर्ब्रह्मसुतोत्तमः
सनत्कुमारः सुतपाः पृच्छति स्म यथाविधि ४
सनत्कुमार उवाच
भगवन्सर्वधर्मज्ञ शिवधर्मपरायणम्
श्रोतु कामाः परं धर्ममिमे सर्वे समागताः ५
अग्निष्टोमादयो यज्ञाः बहुवित्तत्क्रियान्विताः
न शक्यं तैर्यतःकर्तुमल्पवित्तैर्द्विजादिभिः ६
नात्यन्तफलभूयिष्ठां क्लेशायाससमन्विताः
सुखोपाधर्मतो ब्रूहि धर्मकामार्थसाधकम् ७
हिताय सर्वमर्त्यानां शिवधर्मं सनातनम्
येन सिद्धासुरादैत्या गन्धर्वोरगराक्षसाः ८
ऋषयः किंनरा यक्षास्तथा किंपुरुषादयः
गणाश्च विविधाश्चान्ये शिवधर्मपरायणाः ९
संपूज्याः ससुराः सर्वे तद्भक्ताः शिवधार्मिकाः
संप्राप्य च सुरत्वं ते भुक्तिमुक्तिमवाप्नुयुः
नन्दिकेश्वर उवाच
श्रूयतामभिधास्यामि सुखोपायं महत्फलम् १०
परमं सर्वधर्माणां शिवधर्मं शिवात्मकम्
शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य च ११
गणानां देवमुख्यानामस्माकं च विशेषतः
अज्ञानार्णवमग्नानां सर्वेषां प्राणिनामयम् १२
शिवधर्मो डुपः श्रीमान् उत्तारार्थमुदाहृतम्
यैरयंशान्तयेतस्यैश्शिवभक्तैः शिवादिभिः १३
संसेव्यते परो धर्मः ते रुद्रा नात्र संशयः
ग्रामे वा यदि वारण्ये जले वापि स्थलेऽपि वा १४
यत्रैव विद्यते लिंगं सर्वतीर्थानि तत्र वै
ये स्मरन्ति विरूपाक्षं विज्ञेयास्ते गणेश्वरः १५
संकीर्तयन्ति ये रुद्रं स तु तप्या शृते नराः
सर्वपापैः प्रमुच्यन्ते सप्तजन्मकृतैरपि १६
येऽर्चयन्ति सदारुद्रं न ते प्रकृतिमानुषाः
रुद्रलोकात्परिभ्रष्टास्ते रुद्रा नात्र न संशयः १७
जातेनात्मरुद्रहा येन नार्चितो भगवांच्छिवः
सचिरं संचरत्यस्मिन् संसारे दुःखसागरे १८
तस्य चित्तं महच्चित्रं स मोहस्सान्धमूकता
यः क्षणं वा मुहूर्तं वा शिवमेकं न चिन्तयेत् १९
दुर्लभं प्राप्य मानुष्यं येऽर्चयन्ति सदाशिवम्
तेषां हि सफलं जन्म कृतार्थास्ते नरोत्तमाः २०
भवभक्तिपरा ये तु भवप्रणतचेतसः
भवसंस्मरणोद्युक्ताः ते न दुःखस्य भाजनम् २१
भवनानि मनोज्ञानि बिभ्रमाभरणस्त्रियः
धनं चादृष्टपर्यन्तं शिवपूजाविधेः फलम् २२
ये वांछन्ति महाभोगान् राज्यं च त्रिदशालये
तेऽर्चयन्ति सदाकालं हरस्य चरणाम्बुजम् २३
सौभाग्यं शान्तिमद्रूपं सत्यं त्यागः प्रभावता
शौर्यं च जगति ख्यातिः शिवमर्चयतो भवेत् २४
नारुद्रः संस्मरेद्रुद्रं नारुद्रो रुद्रमर्चयेत्
नारुद्रः कीर्तयेद्रुद्रं नारुद्रो रुद्रमाप्नुयात् २५
शिवधर्मस्य सारोऽयं शिवे भक्तिः सुनिश्चला
सा चाष्टांगी शिवेनोक्ता कार्या नित्यं प्रयत्नतः २६
श्रीभगवानुवाच
मद्भक्तजन वात्सल्यं पूजायामनुमोदनम्
स्वयमभ्यर्चनं भक्त्या ममार्थे चांगचेष्टितम् २७
मत्कथाश्रवणे भक्तिः स्वरनेत्राङ्गविक्रिया
ममानुस्मरणं नित्यं यश्च मां चोपजीवति २८
भक्तिरष्टविधा ह्येषा यस्मिन्म्लेच्छेऽपि वर्तते
स विप्रेन्द्रो मुनिःश्रीमान्स यतिः स च पण्डितः २९
न मे प्रियश्चतुर्वेदी मद्भक्तः श्वपचोऽपि यः
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथाह्यहम् ३०
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ३१
नार्चयेद्यः सदात्मस्थं यो मां समयमास्थितः
समां पर्वतदुर्गेषु मार्गमाणो विपद्यते ३२
यो मां सर्वत्रगं पश्येत् सर्वं च मयि संस्थितम्
तस्याहं नित्यमात्मस्थः स च नित्यं मयि स्थितः ३३
श्रीनन्दिकेश्वरः
सुदुर्लभा शिवे भक्तिः दुर्लभं च शिवार्चनम्
सुदुर्लभं शिवे दानं शिवहोमं च दुर्लभम् ३४
सुदुर्लभं शिवज्ञानं तदभ्यासोऽपि दुर्लभः
सुदुर्लभमिदं ज्ञात्वा शिवे भक्तिं समाश्रयेत् ३५
लाभस्तेषां मनुष्याणां ये शिवं शरणागताः
तेषां दिवा च रात्रौ च नित्यं शिवगता स्मृतिः ३६
नमस्कारादिसंयुक्तं शिवायेत्यर्चये त्रयम्
जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम् ३७
इत्येष वः समासेन शिवधर्मोऽखिलः क्रमात्
निर्दिष्टः प्रथमाध्याये शेषो ह्यस्यैव विस्तरः ३८
य इदं पठते नित्यं शृणुयाद्वा समाहितः
विमुक्तः सर्वपापेभ्यः शिवलोके महीयते ३९
डाकिन्यो विविधाकारा राक्षसाः प्रेतनायकाः
न तस्य पीडां कुर्वन्ति न तथान्येऽपि हिंसकाः ४०
शत्रवो नाशमायान्ति संग्रामे जयमाप्नुयात्
स न रोगेण बाध्येत न स्पृशन्त्यापदोऽपि तम् ४१
धनमायुर्यशोविद्याप्रभावैश्चातुलो भवेत्
शुभेनोपचयं याति नित्यं पूर्णमनोरथः ४२
इति शिवधर्मशास्त्रे प्रथमोऽध्यायः

अथ द्वितीयोऽध्यायः २
लिङ्गार्चन विधिं पुण्यं श्रोतुमिच्छामि तत्त्वतः
त्वत्प्रासादादशेषेण भगवन्नन्दिकेश्वरः १
यत्पुण्यं स्थापिते लिङ्गे कृते ये च शिवालये
सम्मार्जने च यत्पुण्यं यत्पुण्यमुपलेपने २
नीराजनौषधीबीजास्नान मङ्गल वादने
पुण्यं यच्चार्घ्यदानेन तोय स्नाने च यत्फलम् ३
पञ्चगव्यपयःस्नाने दधिस्नाने च यद्भवेत्
घृताभ्यङ्गे च यत्प्रोक्तं घृतस्नाने य यद्भवेत् ४
मधुस्नानेन यत्प्रोक्तं पुण्यमिक्षुरसेन च
उद्वर्तनान्तरास्नानं कुशपुष्पोदकेन च ५
सुवर्णरत्नतोयैस्तु गन्धचन्दनवारिभिः
कर्पूरागरुतोयैश्च स्वच्छतोयेन यत्फलम् ६
विलेपनैश्च गन्धाद्यैः विलिप्तेन च यत्फलम्
तालवृन्त प्रदानेन प्रदाने चामरस्य च ७
मुक्तापुष्पार्चने यच्च मालाभिर्लिङ्गपूरणे
पुष्पमण्डपिकायां च पुष्पमालावलम्बने ८
पूजनोक्तविशेषैश्च वेद्यामालावलम्बने
पुष्पजातिविशेषेषु धूपदीपे च यत्फलम् ९
वस्त्रालङ्कार दानेन दीपदर्पणदर्शने
भक्ष्यभोज्यान्नपानादि फलकन्दनिवेदने १०
प्रदक्षिण नमस्कार प्रणामस्तोत्रजं फलम्
छत्रध्वजपताकानां घण्टावादित्र शङ्खयोः ११
वितानवस्त्रपूजायां बलिहोमक्रियासु च
गवगन्धभृत्यनागानां भूमिदाने च यत्फलम् १२
ग्रामखेटपुराणां च देशदाने च यत्फलम्
स्त्रीणां सङ्गीतदानेन नाट्येनैव विशेषतः १३
स्वयं माल्योपहारेण पुंसां पुण्यं च यद्भवेत्
तत्पालनापहारे च पुण्यापुण्यं च यद्भवेत् १४
शिवयोगीभोजनादि पात्रोपकरणानि च
दत्वा किं लभते पुण्यं कृत्वा वा तत्प्रतिश्रयम् १५
नमस्कारे तथा तेषां प्रत्युत्थानाभिवादने
खट्वा प्रावरणादीनि दत्वा यत्फलभाग्भवेत् १६
यदप्यन्यद्भवेत्सूक्ष्मं अज्ञानान्न प्रचोदितम्
तत्सर्वं कथयाऽस्माकं भक्तानामनुकम्पया १७
इति शिवधर्मपुराणे द्वितीयोऽध्यायः

अथ तृतीयोऽध्यायः ३
त्वमतीव शिवभक्तः पद्मयोनि सुतोत्तम
तेन ते निखिलं वक्ष्ये शृणुष्वैकाग्रमानसः १
पूर्वमेकार्णवे घोरे नष्टे स्थावरजङ्गमे
विवादस्तु महानासीद ब्रह्मविष्ण्वोः परस्परम् २
अहं कर्ताह्ययं कर्ता नमतोऽन्यो जगत्प्रभुः
एवमाहहरिं ब्रह्मा ब्रह्माणं च हरिस्तथा ३
तयोर्दर्पापहारार्थं प्रबोधार्थं च देवयोः
मध्ये सम्भवल्लिङ्गं ऐश्वरं तैजसं परम् ४
ज्वालामालावृतं दिव्यमप्रमेयमनूपमम्
योजनायुत विस्तीर्णं स्थितं तद्विमलेम्भसि ५
ज्वालाभिर्मोहितो तस्य लिङ्गस्य सुरसत्तमौ
ततो विस्मयमापन्नौ पश्यन्तावमराधिपौ ६
शतादूर्ध्वमधस्तस्य सम्प्रधार्य परस्परम्
अधो द्रष्टुं गतो विष्णुरूर्ध्वं चैव पितामहः ७
अदृष्टान्तमधश्चोर्ध्वं तौ समेत्य परस्परम्
कृताज्ञलिपुटौ भूत्वा लिङ्गं तुष्टुवतुस्तदा ८
अनादि देव देवेश! विश्वेश्वर! महेश्वर
सर्वज्ञ! ज्ञानविज्ञान प्रदायक! नमोऽस्तुते ९
अनन्तकान्ति (सम्पन्न) अनन्तासन संस्थित!
अनन्तशक्तिसंभोग! परमेश नमोऽस्तुते १०
परावरपरातीत! उत्पत्तिस्थितिकारण!
सर्वार्थ साधनोपाय! विश्वेश्वर नमोऽस्तुते ११
बहुरूप! महारूप! सर्वरूप! नमोऽस्तुते
पशुपाशार्णवातीत! वरप्रद नमोऽस्तुते १२
स्वभाव निर्मलाभोग! सर्वव्यापिन् सदाशिव
योगयोगिन्महायोगिन् योगेश्वर! नमोऽस्तुते १३
निरञ्जन! निराधार! स्वाधार! निरूपप्लवः!
प्रसन्न परमेशान! योगेश्वर! नमोऽस्तुते १४
जिह्वा चपलभावेन वेदितव्योऽसि यन्मया
तत्क्षन्तव्यमनौपम्य! कस्ते स्तौति गुणार्णवम् १५
लिङ्गोत्पत्तिस्तवं पुण्यं यः शृणोति नरस्सदा
नोत्पद्यते स संसार स्थानं प्राप्नोति शाश्वतम् १६
तस्मात्सर्व प्रयत्नेन शृणुयाद्वाचयेत्तथा
पाप कञ्चुकमुसृज्य प्राप्नोति परमं पदम् १७
लिङ्गमध्ये परं लिङ्गं स्थितं प्रादेश संमितम्
समाधिस्तोत्र सम्पन्नौ दृष्टयन्तौ शिवात्मकौ १८
नैव तत्काञ्चनं रौप्यं ताम्रं स्फाटिक मौक्तिकम्
लक्षमात्रस्थितं शान्तं केवलं तच्छिवात्मकम् १९
तयोऽस्तुष्टौ महादेवो प्रददौ वरमुत्तमम्
कारणत्वमनुक्त्वा च तत्रैवान्तरधीयत २०
ततः प्रभृति ब्रह्माद्याः प्रतिष्ठाप्य सुरासुराः
तल्लिङ्गानुकृतिं लिङ्गं ईडिरे मुनयस्तदा २१
परं ग्रन्थ शरीरे च लिङ्ग क्षेत्रमनादिमत्
यदा ममैश्वरं तेजः तलिङ्गं पञ्चसञ्ज्ञितम् २२
कल्पान्ते यस्य लिङ्गस्य लीयन्ते सर्वदेवताः
दक्षिणे लीयते ब्रह्मा वामतश्च जनार्दनः २३
हृदये चैव गायत्री सर्वदेवोत्तमोत्तमः
लीयन्ते मूर्ध्नि वै वेदाः सर्षिसङ्गपदक्रमाः २४
जठरे लीयते सद्यः जगत्स्थावरजङ्गमम्
पुनरुत्पद्यते तस्माद् ब्रह्माण्डं सचराचरम् २५
आकाशं लिङ्गमित्याहुः पृथिवी तस्य पीठिका
आलयः सर्वभूतानां लयनालिङ्गमुच्यते २६
तस्मालिङ्गं प्रतिष्ठाप्य सर्वदेवभवोद्भवम्
स्थापितं तेन सर्वं स्यात् पूजितं च न संशयः २७
कृताञ्जलिपुटो विष्णुः ब्रह्मा च ब्रह्म तत्परः
पूर्वं लिङ्गं समभ्यर्च्य पश्चात्कार्याणि च क्रतुः २८
ब्रह्मा ब्रह्माक्षरैर्दिव्यैः लिङ्गं पूजयते सदा
गन्धपुष्पादिभिर्नित्यं विष्णुः पूजयते शिवम् २९
ब्रह्मा पूजयते नित्यं लिङ्गं शैलमयं शुभम्
तस्य सम्पूजनात्तेन प्राप्तं ब्रह्मत्वमुत्तमम् ३०
इन्द्रिनीलमयं लिङ्गं विष्णुः पूजयते सदा
विष्णुत्वं प्राप्तवांस्तेन सोऽद्भुतैकं सनातनः ३१
शक्रोऽपि देवराजेन्द्रो लिङ्गं मणिमयं शुभम्
कृत्वा पूजयते नित्यं तेन शक्रत्वमाप्तवान् ३२
लिङ्गं हेममयं कान्तं धनदोऽर्चयते सदा
तेनासौ धनदो देवो धनदत्वमवाप्तवान् ३३
विश्वेदेवा महात्मानौ रौप्यं लिङ्गं मनोहरम्
यजन्ते विधिवत्तेन विश्वे देवत्वमाप्नुयुः ३४
वायुः पूजयते भक्त्या लिङ्गं पित्तलजं शुभम्
वायुत्वं तेन सम्प्राप्तं अनौपम्यगुणावहम् ३५
वसवः क्षणिकं लिङ्गं पूजयन्ति विधानतः
प्राप्तास्तेन महात्मानो वसुत्वं सुमहोदयम् ३६
अश्विनौ पार्थिवं लिङ्गं पूजयन्ती विधानतः
तेनतावश्विनौ देवौ दिव्यदेहगतावुभौ ३७
स्फाटिकं निर्मलं लिङ्गं वरुणोऽर्चयते सदा
वरुणत्वं हि सम्प्राप्तं तेन ऋध्या समन्वितम् ३८
लिङ्गमन्नमयं पुण्यं अग्निर्यजति भावितः
अग्नित्वं प्राप्तवास्तेन तेजोरूप समन्वितम् ३९
ताम्रलिङ्गं सदाकालं भक्त्या देवो दिवाकरः
त्रिकालं यजते तेन प्राप्तं सूर्यत्वमुत्तमम् ४०
मुक्ताफलमयं लिङ्गं सोमः पूजयते सदा
तेन सोमोऽपि सम्प्राप्तः सोमत्वं सततोज्वलम् ४१
प्रवालकमयं लिङ्गं यजन्ते पन्नगोत्तमाः
तेन नागाः सुभोगाढ्याः प्राप्तास्ते परमं पदम् ४२
कृष्णायसमयं लिङ्गं पूजयन्तिऽसुरोत्तमाः
राक्षसाश्च महात्मानः तेन तेऽमित विक्रमाः ४३
त्रपुसीसमयं लिङ्गं पिशाचाः पूजयन्तितम्
तेन ऋद्धिबलोपेताः प्राप्नुवन्ति परं पदम् ४४
श्रैलोहिकं सदालिङ्गं यजन्ते गुह्यकादयः
तेन भोगबलोपेताः प्रयान्ति परमन्दिरम् ४५
बहुलौहमयं लिङ्गं यजन्ते मातरः सदा
मातृत्वं प्राप्य तास्सर्वाः प्रयान्ति परमं पदम् ४६
एवं देवाः सगन्धर्वाः सयक्षोरगराक्षसाः
पूजयन्ति सदाकालं ईशानं सुरनायकम् ४७
सर्वोलिङ्गमयो लोकः सर्वं लिङ्गे प्रतिष्ठितम्
तस्मात्सदार्चयेल्लिङ्गं यदीच्छेत्सिद्धिमात्मनः ४८
लिङ्गे देवो महादेवः साक्षाद्देवव्यवस्थितः
अनुग्रहाय लोकानां तस्माल्लिङ्गं प्रपूजयेत् ४९
यो न पूजयते मोहात् लिङ्गं त्रिभुवनेश्वरम्
नासौ स्वर्गस्य मोक्षस्य न च राज्यस्य भाजनम् ५०
यः पूजयति भक्त्या लिङ्गं त्रिभुवनेश्वरम्
स्वर्गमोक्षे च राज्यानां क्षिप्रं भवति भाजनम् ५१
तस्मादेकमना भूत्वा यावज्जीवं प्रतिज्ञया
अर्चयीत महादेवं आपन्नोपि सदा बुधः ५२
वरं प्राण परित्याग शिरसोवापि भेदनम्
नत्वा चाभ्यर्च्य भुञ्जीयाद्भगवन्तं त्रिलोचनम् ५३
एवं निर्वहते यस्तु यावज्जीवं प्रतिज्ञया
मनुष्यचर्मणा बद्धः स रुद्रो नात्र संशयः ५४
नास्ति लिङ्गार्चनादन्यत्पुण्यमभ्यधिकं कलौ
एवं विज्ञाप्य यत्नेन पूजनीयः सदाशिवः ५५
यो लिङ्गं द्वेष्टि सम्मोहात्सर्वलोक नमस्कृतम्
नरो नरकगामी स्यात् तस्य सम्भाषणादपि ५६
माहेश्वर परं सर्वं त्रैलोक्यं सचराचरम्
ते कृताघ्ना भवन्तीह ये न भक्ता महेश्वरे ५७
यस्मात्सर्वेषु भूतेषु गतिर्देवो महेश्वरः
तस्मात्सर्व प्रयत्नेन शिवमेव समाश्रयेत् ५८
सागराणां क्षयं व्यन्ति क्षीयते हिमवानपि
रुद्रलोके क्षयो नास्ति शङ्करे शरणं गते ५९
एष्टव्या बहवः पुत्राः शिवधर्मानुसारिणः
समुद्धरन्ति ते गोत्रं रज्जुः कूपाद्घटं यथा ६०
समुद्धृत्य तथा ह्यन्ते कुलानामेकविंशतिम्
शिवत्वं यान्ति ते क्षिप्रं धर्माधर्मविवर्जिताः ६१
लिङ्गद्वयं समाख्यातं चरं चाचरमेव च
चरं व्यक्तिति विख्यातं अचरं पार्थिवादिकम् ६२
चरे सदावसत्येव प्रतिच्छन्नो महेश्वरः
अचरे मन्त्र संस्काराद् वसत्येव सदाशिवः ६३
स्थावरं जङ्गमं चैव द्विविधं लिङ्गमिष्यते
स्थावरं स्थापितं लिङ्गं जङ्गमं दीक्षितं विदुः ६४
जङ्गमस्यावमानेन स्थावरं निष्फलं भवेत्
तस्मालिङ्गद्वयं प्राज्ञो नावमन्येत सर्वदा ६५
लिङ्गमित्थं प्रतिष्ठाप्य सर्वयत्नैर्विधानतः
स यत्फलमवाप्नोति तदेकाग्रमनाः शृणु ६६
सर्व यज्ञ तपो दान तीर्थ वेदेषु यत्फलम्
तत्फलं कोटिगुणितं स्थाप्य लिङ्गं लभेन्नरः ६७
यो लिङ्गं स्थापयेदेकं विधिपूर्वं सलक्षणम्
सर्वागमोदितं पुण्यं कोटि-कोटि गुणं लभेत् ६८
मातृतः पितृतश्चैव यतश्चाद्बहते स्त्रियम्
कुलैकविंशमुत्तार्य रुद्रलोके महीयते ६९
भूतलात्सकलान्भोगान् प्रलये समुपस्थिते
ज्ञानयोगं समासाद्य स तत्रैव विमुच्यते ७०
अथ वैद्राज्यमाकाङ्क्षेत् जायते स भवान्तरे
सप्तद्वीप समुद्रायाः क्षितेरधिपतिर्भवेत् ७१
य कृत्वा पार्थिवं लिङ्गं अर्चयित्वा सवेदिकम्
इहैव धर्मावाञ्च्छ्रिमान् सोऽन्ते रुद्रश्च जायते ७२
त्रिसन्ध्यं योऽर्चयेद्बिम्बं कृत्वा लिङ्गं तु पार्थिवम्
शतैकादधिका यावत्तस्य पुण्यफलं शृणु ७३
अनेनैव स देहेन रुद्रः सञ्चरते स्थितौ
पापहा सर्वमर्त्यानां दर्शनात्स्पर्शनादपि ७४
उद्धृत्य दिवि संस्थाप्य् कुलानामेकविंशति
सहायैः सहितो नित्यं मोदते दिवि रुद्रवत् ७५
शालिपिष्टमयं लिङ्गं सर्वगन्धोपशोभितम्
कुसुमैस्सर्वगन्धैश्च फलैश्च विविधैस्तथा ७६
भक्ष्यभोज्यैरनेकैश्च घृतदीपैश्च संयुतम्
तस्य दक्षिणपार्श्वे तु विन्यसेदगरुं बुधः ७७
दद्यात्पश्चिमभागे तु शोभनान्तु मनःशिलाम्
उत्तरे चन्दनं दद्यात् हरितालं तु पूर्वतः ७८
एवं वित्तानुसारेण यः कृत्वा विधिपूर्वकम्
कृष्णपक्षे चतुर्दश्यां शिवाय विनिवेदयेत् ७९
यत्किञ्चित्सकृप्येवं लिङ्गं कुर्याद्विचक्षणः
यत्फलं लभते सोऽपि तन्मे निगदतः शृणु ८०
सर्वपाप विनिर्मुक्तः सर्वोपद्रववर्जितः
निष्कलः सर्वगोभूत्वा प्रविशेच्छिवमव्ययम् ८१
अप्यामलकमात्रं वा लिङ्गं कृत्वाऽभिपूज्य च
यन्मयं तन्मयं कृत्वा शिवलोके महीयते ८२
पुण्यक्षयात्क्षितिं प्राप्यं राजा भवति धार्मिकः
वेद वेदाङ्ग तत्त्वज्ञो ब्राह्मणो वापि जायते ८३
मृद्भस्मगोमयात्पिण्डैः तथा वालुकयापि वा
कृत्वा लिङ्गं सकृत्पूज्य वसेत् कल्पायुतं दिवि ८४
कृशापूतरुकृत्ये वा अप्यङ्गुल्यादिभिर्लिखेत्
क्रीडायां वालयुतं कल्पं भवेत्सोऽपि गणेश्वरः ८५
आत्मनो विभजेत्तेन तदप्यत्र च निश्चितम्
सपुत्र बान्धवैस्सार्धं पुनात्यासप्तमं कुलम् ८६
पांसुना क्रियमाणोऽपि लिङ्गं कुर्यात्तु यो नरः
प्रेत्यान्ते लभते राज्यं सुसम्पन्नमखण्डकम् ८७
हीनवंशे च ये जाताः पापिष्ठा ये च मानवाः
भवभाव प्रपन्नास्ते मुच्यन्ते नात्र संशयः ८८
अलिङ्गी लिङ्गीरूपेण यो लिङ्गमुपजीवति
स पच्यते महाघोरे नरके कालमक्षयम् ८९
सूक्ष्मेणापि प्रयोगेन अमेयः पुण्यसञ्चयः
शिवमर्चयतो यस्मात् तस्मान्नित्यं समर्चयेत् ९०
लिङ्गमेवं प्रतिष्ठाप्य सर्वयत्नैर्विधानतः
आराध्य गन्धपुष्पाद्यैः इदं स्तोत्रमुदीरयेत् ९१
अनादि देव देवेश! विश्वेश्वर! महेश्वरः!
सर्वज्ञ ज्ञान विज्ञान प्रदानैक! नमोऽस्तुते ९२
अनन्तकान्तिसम्पन्न ! अनन्तासन संस्थित!
अन्तशक्तिसम्भोग परमेश! नमोऽस्तुते ९३
परावर! परातीत! उत्पत्ति-स्थितिकारण!
सर्वार्थ साधनोपाय! विश्वेश्वर! नमोऽस्तुते ९४
बहुरूप! महारूप! सर्वरूपोत्तमोत्तम!
पशुपाशार्णवातीत! वरप्रद! नमोऽस्तुते ९५
स्वभाव निर्मलाभोग सर्वव्यापिन् सदाशिव!
योगियोगिमहायोगे योगेश्वर! नमोऽस्तुते ९६
निरञ्जन! निराधार! स्वाधार! निरुपप्लव!
प्रसन्नपरमेशान! योगीश्वर! नमोऽस्तुते ९७
जिह्वा चापलभावेन वेदितोऽसि हि यन्मया
तत्क्षुन्तव्यमनौपम्य कस्ते स्तोतुं गुणार्णवम् ९८
लिङ्गोत्पत्तिस्तवं पुण्यं यः शृणोति नरः सदा
नोत्पद्यते च संसारे स्थानं प्राप्नोति शाश्वतम् ९९
तस्मात्सर्व प्रयत्नेन शृणुयाद्वाचयेत्तथा
पापकञ्चुकमुत्सृज्य प्राप्नोति परमं पदम् १००
इति शिवधर्मपुराणं लिङ्गोद्भवं नाम तृतीयोऽध्यायः ३

अथ चतुर्थोऽध्यायः ४
शिवभक्ता महोत्साहाः शिवार्चनपरायणाः
संयता धर्मसम्पन्नाः सर्वार्थां आप्नुयन्ति ते १
सर्वद्वन्द्वसहाधीरा नित्यमुद्युक्तचेतसः
परोपकारनिरता गुरुशुश्रूषणे रताः २
मार्दवार्जव सम्पन्नाः अनुकूलाः प्रियं वदाः
अमानिनो बुद्धिमन्तः त्यक्तस्पर्धा गतस्पृहा ३
शान्ता स्मितमुखा भद्रा नित्यं स्वागतवादिनः
अल्पवाचाः सुवक्तारो गुरुभक्ति विशारदाः ४
शौचाचार समायुक्ता दयादाक्षिण्य गोचराः
दम्भ मार्त्स्य निर्मुक्ताः यथा तथ्याभिभाषिणः ५
संविभागपराः प्राज्ञाः अशठाश्चाप्य कुत्सिताः
विषयेष्वपि निर्लेपाः पद्मपत्रमिवाम्भसा ६
न दीना नापि मलिना न च रोष वशंवदाः
भवन्ति भावितात्मानः सुस्निधाः साधुसेविताः ७
न पाणि पाद वाक्चक्षु श्रोत्र शिश्न वशं गताः
चापलानि न कुर्वन्ति सर्वण्यासङ्ग वर्जिताः ८
रुद्रात्मानो रुद्रपरा रुद्रांशा रुद्रभाविताः
एवं विध समाचारा भवन्ति भुवि मानवाः ९
एकान्त भक्तिमास्याय गुणेष्वेतेषु वर्तते
पूजनीयः शिवो नित्यं परापर विभूतये १०
किञ्चिद्वेदमयं पात्रं किञ्चित्पात्रं तपोमयम्
आगमिष्यति यत्पात्रं तत्पात्रं तारयिष्यति ११
सर्वेषामेव पात्राणां अतिपात्रं महेश्वरः
पतनात्त्रायते यस्माद् अतीव नरकार्णवे १२
तस्य पात्रस्य माहात्म्याद् दानमण्वपि चाक्षयम्
तस्मादस्मै सदादेयं अप्रमेय फलार्थिभिः १३
शिवेदत्तं हुतं तप्तं पूजाफल निवेदनम्
एकं वानन्त फलदं तद्भवेन्नात्र संशयः १४
भक्त्या वित्तानुसारेण कुर्यात्प्रासाद सञ्चयम्
अल्पे महति वा तुल्यं फलमाढ्य दरिद्रयोः १५
वित्तशाठ्येन यः कुर्याद्धर्ममाढ्योऽपि यो नरः
न स तत्फलमाप्नोति प्रलोभाक्रान्त मानसः १६
तस्मात्त्रिभाग वित्तस्य जीवनाय प्रकल्पयेत्
भागद्वयं च धर्मार्थं अनित्यं जीवितं यतः १७
भक्त्या प्रचोदितः कुर्यादल्पवित्तोऽपि मानवः
महाविभवसारोऽपि न कुर्याद्भक्तिवर्जितः १८
सर्वस्वमपि यो दद्याच्छिवे भक्तिविवर्जितः
न तेन धर्मभाक्सस्याद्भक्तिरेवात्र कारणम् १९
न तत्तपोभिरत्युग्रैः न च सर्वमहामखैः
गच्छेच्छिवपुरं दिव्यं मुक्त्वा भक्तिं शिवात्मिकाम् २०
मृद्दारुर्विष्टकशैलं वा यः कुर्याद्वै शिवालयम्
त्रिस्सप्तकुलमुद्धृत्य शिवलोके महीयते २१
मृण्मयात्कोटिगुणितं पुण्यं स्याद्दारुभिः कृते
कोटि कोटि गुणं पुण्यं मृत्काष्ठादिष्टकामये २२
इष्टकाद्द्विगुणं पुण्यं शैलके स्याच्छिवालये
मृच्छैलयोः समं ज्ञेयं पुण्यमाढ्य दरिद्रयोः २३
यत्र क्वापि गतः पुण्यं कृतं शैलेष्टकादिभिः
नवं पुराण रहितं तथा कुर्याच्छिवालयम् २४
अष्टेष्टका समायुक्तं प्रकुर्याच्छिवालयम्
विधूयपाप सङ्घातं सोऽपि गच्छेच्छिवालयम् २५
क्रीडमानोऽपि यः कुर्याद्बालभावे शिवालयम्
रुद्रलोके लभेत्सोऽपि विमानं सार्वकामिकम् २६
पुष्पमालापरिक्षिप्तं दिव्यगन्धानु सेवितः
डोलाविक्षेप संयुक्तं घण्टाचामरभूषितम् २७
मुक्तादाम वितानेन शोभितं सूर्य सप्रभम्
अप्सरोगण संयुक्तं सर्वकाम सुखप्रभम् २८
तत्रोषित्वा महाभोगे कोटि कोट्ययुतं सुखी
क्रमादागत्य लोकेऽस्मिन् राजा भवति धार्मिकः २९
दूरतः शिखर दृष्ट्वा नमस्कुर्याच्छिवालयम्
सप्तजन्मकृतं पापं क्षिप्रमेव विनश्यति ३०
पश्यन्परिहरञ्जन्तृ मार्जन्यात्यति सूक्ष्मया
शनैः सम्मार्जनं कुर्यात् चान्द्रायणफलं लभेत् ३१
नाहारवशजीर्णाया वन्ध्यायाः क्षीणवत्सया
रोगार्ता नवसूता या भोग्यो गोमयमाहरेत् ३२
स्वसंस्थ गोमयं ग्राह्यं स्थाने वा पतितं शुभे
उपर्यधश्च संत्यज्य प्रत्यग्रं जन्तु वर्जितम् ३३
वस्त्रपूतेन तोयेन यः कुर्यादुपलेपनम्
पश्यन्परिञ्जन्तृ चन्द्रायणफलं लभेत् ३४
यः कुर्यात्सर्वकार्याणि वस्त्रपूतेन वारिणा
स मुनिः स महासाधुः स योगी स शिवं व्रजेत् ३५
क्षरन्ति सर्वदानानि यज्ञहोमबलिक्रियाः
न तु क्षरेन्महादानं अभयं सर्वदेहिनाम् ३६
नैरन्तर्येण यः कुर्यात् पक्ष सम्मार्जनां जनम्
युगकोटिशतं दिव्यं शिवलोके महीयते ३७
तदन्ते स चतुर्वेदं स्वरूपः प्रियदर्शनः
आढ्यः सर्वगुणोपेतो राजा भवति धार्मिकः ३८
सम्पर्केणापि यः कुर्यात् नरः कर्म शिवालये
सोऽपि देहत्रयाञ्ज्ञानं प्राप्य शान्तिमवाप्नुयात् ३९
रुद्रदेव निकार्येषु कश्चिञ्ज्ञानमवाप्नुयात्
कश्चिदेव तु मेदिन्यां लब्ध्वा ज्ञानं विमुञ्चते ४०
तावद्भयन्ति संसारे दुःखशोक परिप्लुताः
न भवन्ति शिवे भक्ता यावत्सर्वेऽपि देहिनः ४१
समासक्तं यथा चित्तं भवेद् विषय गोचरा
यदि नाम शिवेऽप्येवं को न मुच्यते बन्धनात् ४२
यः कुर्यात्कुट्टिमं भूमिं दर्पणोदर सन्निभम्
नानावर्णविचित्रं च विचित्र कुसुमोज्वलम् ४३
क्वचित्कलशविन्यस्तां पङ्कजाद्युपशोभिताम्
मनोरमां च कुसुमां शिवायतन संसदि ४४
यावद्धस्ता भवेद्भूमिः समन्तादुपशोभिता
तावद्युगसहस्राणि रुद्रलोके महीयते ४५
कारयेच्चित्र शास्त्रञ्ज्ञेः यत्नाच्चित्रं शिवालये
रुद्रावतार क्रीडाद्यैः प्रयोगै रागमोदितेः ४६
यावन्ति रुद्ररुपाणि स्वरूपाण्यपि लेखयेत्
तावद्युग सहस्राणि रुद्रलोके महीयते ४७
सुधाविलिप्तं यः कुर्यात् सर्वयत्नैः शिवालयम्
तावत्पुण्यं भवेत्सोऽपि यावदायतने कृते ४८
प्रत्यब्धं यः प्रकुर्वीत शम्भोरायतनं बुधः
तावद्युग सहस्राणि रुद्रलोके महीयते ४९
धवल सूत सुधया यथाशोभं च वर्णकैः
यावन्त्यब्दानि कुरुते धवलं तच्छिवालयम् ५०
खण्डं स्फुटितं संस्कारं यः कुर्वीत शिवालये
आरामावथे वापि लभते मौलिकं फलम् ५१
नास्ति रुद्रसमो देवो नास्ति रुद्रसमो गुरुः
नास्ति रुद्रसमं ज्ञानं नास्ति रुद्रसमः तपः ५२
एवं शिवाश्रमारामं कृत्वा संस्कारपूर्वकम्
कृत्वाल्पमपि वा भक्त्या इदं स्तोत्रमुदीरयन् ५३
निर्द्धूतमलदेहाय स्वभावामलमूर्तये
सितभस्माङ्गरागाय देवेशाय नमोऽस्तुते ५४
नीलकण्ठाय शर्वाय अजायामित मूर्तये
बहुरूपाय कान्ताय शाश्वताय नमोऽस्तुते ५५
पराय परमेशाय सर्वज्ञाय नमोऽस्तुते
अतीत गुणसङ्घाय विश्वेशाय नमोऽस्तुते ५६
महाभोगीन्द्रभूषाय पिङ्गलोचनरोचये
विचित्र चरिताढ्याय अनन्ताय नमोऽस्तुते ५७
सर्वप्रणत देहाय स्वयमपणतात्मने
पूज्यानामपि पूज्याय नमस्त्र्यक्षाय शूलिने ५८
ब्रह्मेन्द्रविष्णुवन्द्याय उत्पत्तिस्थिति हेतवे
भुक्तिमुक्तिप्रदानाय संस्तुताय नमोऽस्तुते ५९
वामाय वामरूपाय वामचाराय गामिने
वामकान्तार्धिदेहाय ईशानाय नमोऽस्तुते ६०
य इमं कीर्तयेत्पुण्यं प्रासादाध्यायमुत्तमम्
सर्वपापविनिर्मुक्तः शिवसायुज्यमाप्नुयात् ६१
इति शिवधर्मपुराणे प्रासादाध्यायो नाम चतुर्थोऽध्यायः ४

श्री नन्दिकेश्वर उवाच
लिङ्गमूर्तेर्महेशस्य शिवस्य परमेष्ठिनः
स्नानकाले प्रकुर्वीत जयशब्दादि मङ्गलम् १
त्रिशूलवज्रशङ्खाब्जश्रीवत्सस्वस्तिकादिभिः
हेमरूप्यादि पात्रेषु कल्पितैर्गोमयादिभिः २
नानावर्णश्च कुसुमैरक्षितैस्तिलतण्डुलैः
सिद्धार्थदधिसम्मिश्रैः यथाशोभं च पूरितैः ३
उच्चैर्यष्टिप्रदीपाद्यैः चूताश्वत्थादिपल्लवैः
ओषधीभिश्च मेध्याभिः सर्वबीजैर्यवाङ्कुरैः ४
अष्टम्यादिषु सर्वेषु दिवेषूत्सवेषु च
पर्वकालेषु सर्वेषु पुण्यपौर्णादि पर्वणि ५
शङ्खभेर्यादि निर्घोषैः महद्भिर्गेय संयुतैः
कुर्यान्नीराजनं लिङ्गे शिवमुद्दिश्य मङ्गलैः ६
यावत्पर्वाणि विधिवत्कुर्यान्नीराजनं शिवे
तावद्वर्षसहस्राणि रुद्रलोके महीयते ७
स्नानकाले त्रिसन्ध्यं च यः कुर्याद्गेयवादनम्
नृत्तं वा मुखवाद्यं वा तस्य पुण्यफलं शृणु ८
यावन्त्यहानि कुरुते गेयनृत्तादि वादनम्
तावद्वर्षसहस्राणि शिवलोके महीयते ९
कपिला पञ्चगव्येन कुशवारियुतेन च
स्नापयेन्मन्त्रपूतेन ब्रह्मस्नानं हि तत्स्मृतम् १०
एकाहमपि यो लिङ्गे ब्रह्मस्नानं समाचरेत्
स विधूयाशु पापानि रुद्रलोके महीयते ११
कपिला पञ्चगव्येन दधिक्षीरघृतेन च
स्नानं शतगुणं ज्ञेयं इतरस्मान्न संशयः १२
देवाकार्यं समुद्दिश्य देहशुध्यर्थमेव च
कपिलामाहरेद्विद्वान् मुनिदेवादि वन्दिताम् १३
कपिलां यः पिबेच्छूद्रः शिवकार्यार्थ निर्मिताम्
स पच्यते महाघोरे सुचिरं नरकार्णवे १४
वर्षकोटिसहस्रेषु यत्पापं समुपार्जितम्
घृताभ्यङ्गेन लिङ्गस्य दहेत्सर्वं न संशयः १५
कल्पकोटिसहस्रेषु यत्पापं समुपरार्जितम्
घृताभ्यङ्गेन लिङ्गस्य दहत्यग्निरिवेन्धनम् १६
कृष्णाष्टम्यां घृतस्नानं कृत्वा लिङ्गे सकृन्नरः
कुलैकविंशमुद्धृत्य शिवलोके महीयते १७
अयुतं योगवान्दद्यात् दोग्ध्रीणां वेदपारगे
वस्त्रादि हेमयुक्तानां घृतस्नानेन तत्फलम् १८
सदाढकेन पयसा योउ लिङ्ग स्नापयेन्नरः
राजतेन विमानेन सोमलोके महीयते १९
स्नाप्य दध्ना सकृल्लिङ्गं विष्णुलोके महीयते
मधुना स्नापयित्वा तु वह्निलोकं स गच्छति २०
स्नापयेत्तिलतैलेन हस्तयन्त्रोद्भवेन च
श्वेतपीतकपिष्टैर्वा वायुलोके महीयते २१
स्नानमिक्षुरसेनापि यो लिङ्गं सकृदाचरेत्
लभेद्वैद्याधरं लोकं सर्वकाम समन्वितम् २२
फलोदकेन यो लिङ्गं भक्त्या संस्नापयेन्नरः
उत्सृज्य पालकलिलं पितृलोके महीयते २३
सितेन भस्मना स्नाप्य सकृल्लिङ्गं प्रमोदते
चन्द्रांशु निर्मलः श्रीमान् शिववत्सोममण्डले २४
वस्त्रपूतेन तोयेन यो लिङ्गं स्नापयेन्नरः
सर्वकाम सुतृप्तात्मा वारुणं लोकमाप्नुयात् २५
कुशोदकेन यो लिङ्गं भक्त्या स्नापयते सकृत्
काञ्चनेन विमानेन ब्रह्मलोक महीयते २६
गन्धचन्दन तोयेन स्नापयेत्सकृदीश्वरम्
गन्धर्वलोकमाप्नोति गन्धर्वैश्च स पूज्यते २७
पुष्पोदकेन सावित्र्यं कौबेरं हेमवारिणा
रत्नोदकेन माहेन्द्रं लोकं प्राप्य स मोदते २८
पाटलोत्पल पद्मानि करवीराणि सर्वदा
स्नान तोयेषु योज्यानि स्थिराणि सुरभीणि च २९
एषामेकतमं स्नानं यः कुर्याद्भक्तितः शिवे
विधूय पापकलिलं शिवलोके महीयते ३०
कर्पूरागरुतोयेन यो लिङ्गं स्नापयेत्सकृतम्
सर्वपाप विनिर्मुक्तः शिवलोके महीयते ३१
मन्त्राष्टशतजप्तेन विमलेनाम्भसा शिवम्
स्नापयित्वा सकृद्भक्त्या शिवलोके महीयते ३२
पितृमुद्दिश्य यो लिङ्गं स्नापयेच्छीत वारिणा
तृप्ताः स्वर्गं प्रयास्यन्ति पितरो नरकादपि ३३
लिङ्गं शीताम्बुना स्नाप्य धारोष्णपयस ततः
स्नाप्य पश्चाद्धृतेनापि कृतमेकं विशिष्यते ३४
एतत्स्नानत्रयं कृत्वा पूजयित्वा च भक्तितः
अश्वमेध सहस्रस्य फलं प्राप्नोति मानवः ३५
मृत्कुम्भात्ताम्रकुम्भेन स्नानं शतगुणोत्तरम्
रौप्यं लक्षोत्तरं पुण्यं हैमैः कोट्यधिकं भवेत् ३६
लिङ्गस्य दर्शनं पुण्यं दर्शनात्स्पर्शनं शुभम्
स्पर्शनादर्चनं श्रेष्ठं घृतस्नान मतः परम् ३७
इहामुत्रकृतं पापं घृतस्नानेन देहिनाम्
क्षमते शङ्करो यस्मात् तस्मात्स्नानं समाचरेत् ३८
दशापराधं तोयेन क्षीरेण तु शतं तथा
सहस्रं क्षमते दध्ना घृतेनाप्युतं शिवः ३९
नैरन्तर्येण यो मासं घृतस्नानं समाचरेत्
एकविंशत्कुलोपेतः क्रीडते दिवि रुद्रवत् ४०
जलस्नानं पलशतं अभ्यङ्गः पञ्चविंशतिः
पलानां द्वेसहस्रे तु महास्नानं तु भक्तितः ४१
घृताभ्यङ्गे घृतस्नाने यत्नालिङ्गं विरूक्षयेत्
यवगोधूमजैश्चूर्णैः तोषयेद्गन्धयोजितैः ४२
सुखाष्णेनाम्भसा चापि स्नापयेत्तदनन्तरम्
घर्षयेद्बिल्वपत्रैश्च तव पीठं च शोधयेत् ४३
दशकोटिसहस्राणि यद्दत्वा लभते फलम्
तत्फलं लभते मर्त्यो लिङ्गस्योद्वर्तने कृते ४४
अर्घ्यं पुष्पजलोपेतं यः शिवाय निवेदयेत्
स पूज्यः सर्वलोकेषु शिववन्मोदते चिरम् ४५
गन्धोदकेन सम्मिश्रं उदकार्घ्यं दशोत्तरम्
पञ्चगव्यसमायुक्तं अर्घ्यं शतगुणं भवेत् ४६
अर्घ्यमष्टाङ्गमापूर्य लिङ्गमूर्ध्नि निवेदयेत्
दशवर्षसहस्राणि रुद्रलोके महीयते ४७
आपः क्षीरं कुशाग्राणि दध्याज्यं च सतण्डुलम्
तिलसिद्धार्थकैश्चैवं अर्घ्योऽष्टाङ्गः प्रकीर्तितः ४८
दारुवेण्वर्घ्य पात्रेण यद्दत्वा लभते फलम्
तस्माच्छतगुणं पुण्यं मृत्पात्रेण प्रकीर्तितम् ४९
ताम्रपात्रेऽर्घ्यदानेन पुण्यं शतगुणोत्तरम्
पलाशपद्मपात्राणां ताम्रपात्रे समं भवेत् ५०
रौप्यपात्रेण विज्ञेयं अर्घ्यं लक्षगुणोत्तरम्
सुवर्णपात्र विन्यस्तं अर्घ्यं कोटिगुणोत्तरम् ५१
रौप्यपात्रप्रदानेन यत्फलं वेदपारगे
तस्माच्छतगुणं पुण्यं शिवमृत्पात्र दानतः ५२
हेमपात्राणि यद्दत्वा पुण्यं स्याद्वेदपारगे
ताम्रपात्रप्रदानेन तस्माच्छतगुणं शिवे ५३
फलं कोटिं सुवर्णस्य यो दद्याद्वेदपारगे
शिवाय रौप्यपात्रेण तस्य पुण्यं ततोऽधिकम् ५४
हेमपात्रं तु यो भक्त्या शिवाय विनिवेदयेत्
न तस्य शक्यते वक्तुं पुण्यानन्त्यं विशेषतः ५५
तुल्यमेव फलं प्रोक्तं शिवे चाढ्य दरिद्रयोः
तयोरप्यधिकं तस्य यः शिवे भावनाधिकः ५६
विभवे सति यो मोहान् न कुर्याद्विधिविस्तरम्
नैव तत्फलमाप्नोति प्रलोभाक्रान्तमानसः ५७
तावत्पत्रैः फलैः पुष्पैः तोयाद्यैश्चैव यत्कृतम्
तदनन्तफलं ज्ञेयं भक्तिरेवात्र कारणम् ५८
लिङ्गस्यालेपनं कुर्याद् दिव्यगन्धैः सुगन्धिभिः
वर्षकोटिशतं दिव्यं रुद्रलोके महीयते ५९
सुगन्धानुलेपनात्पुण्यं द्विगुणं चन्दनस्य तु
चन्दनादगरु ज्ञेयं पुण्यमष्टगुणाधिकम् ६०
कृष्णागरोर्विशेषेण द्विगुणं फलमिष्यते
तस्माच्छतगुणं पुण्यं कुङ्कुमस्य विधीयते ६१
चन्दनागरुकर्पूरैः कृष्णपिष्टैः सङ्कुकुमैः
लिङ्गपर्याप्त मालिप्य कल्पकोटिं वसेद्दिवि ६२
संवीज्य तालवृन्तेन लिङ्गं गन्धैः प्रलेपितम्
वर्षकोटिसहस्राणि वायुलोके महीयते ६३
भक्त्या निवेद्य रुद्राय तालवृन्तं सुशोभितम्
दशवर्षसहस्राणि रुद्रलोके महीयते ६४
मयूरव्यजनं दत्वा शिवायातीव शोभनम्
वर्षकोटिशतं पुण्यं रुद्रलोके महीयते ६५
शिवाय चामर दत्वा मणिदण्डविभूषितम्
हेमरौप्यादिदण्डं वा तस्य पुण्यफलं शृणु ६६
चामरासक्तहस्ताग्र दिव्यस्त्रीपरिवारितः
हेमरौप्यविमानस्थः चिरं शिवपुरे वसेत् ६७
इत्यर्चना प्रकाराद्यैः अनुपुण्यसञ्चयः
पुष्पैः कतिविधैः पूजा कर्तव्या कथयस्व मे ६८
पुष्पैरारण्य सम्भूतैः पत्रैर्वा गिरिसम्भवैः
अपर्युषित निच्छद्रैः प्रोक्षितैर्जन्तु वर्जितैः ६९
आत्मारामोद्भवैर्वाऽपि पुष्पैः सम्पूजयेच्छिवम्
पुष्पजातिविशेषेण भवेत्पुण्यं ततोऽधिकम् ७०
तपःशील गुणोपेते पात्रे वेदपारगे
दत्वा सुवर्णमयुतं तत्फलं कुसुमे शुभे ७१
अर्कस्य पुष्पे चैकस्मिन् शिवाय विनिवेदिते
दशदत्वा सुवर्णानि यत्फलं तदवाप्नुयात् ७२
श्वेतार्कस्य विशेषेण द्विगुणं फलमिष्यते
एवं पुष्पविशेषेण फलं तस्य ततोऽधिकम् ७३
पुष्पजाति विशेषेण यथा स्यात्तन्निबोधत
अर्कपुष्प सहस्रेभ्यः करवीरं विशिष्यते ७४
करवीर सहस्रेभ्यो बिल्वपत्रं विशिष्यते
बिल्वपत्र सहस्रेभ्यो बकपुष्पं विशिष्यते ७५
बकपुष्प सहस्राणां एकं धूर्धूरकं परम्
धूर्धूरक सहस्रेभ्यो बृहत्पुष्पं विशिष्यते ७६
अपामार्ग सहस्रेभ्यो कुशपुष्पं विशिष्यते
कुशपुष्प सहस्रेभ्यः शमीपुष्पं विशिष्यते ७७
नीलोत्पल सहस्रेण यो मालां सम्प्रयच्छति
शिवाय विधिवद्भक्त्या तस्य पुण्यफलं शृणु ७८
कल्पकोटि सहस्राणि कल्पकोटिशतानि च
वसेच्छिवपुरे श्रीमान् शिवतुल्य पराक्रमः ७९
शेषाणां पुष्पजातीनां यत्फलं परिकीर्तितम्
तत्फलस्यानुसारेण शिवलोके महीयते ८०
शमीपुष्पं बृहत्याश्च कुसुमं तुल्यमेव च
करवीर समाज्ञेया जाती विजयपाटलाः ८१
श्वेतमन्दारकुसुमं सितपद्मसमं भवेत्
नागचम्पकपुन्नागा धूर्धूरक समाः स्मृताः ८२
केतकी माधवी चैव कुन्दयूथीमदन्तिका
शिरीषसज्जबन्धूक कुसुमानि विवर्जयेत् ८३
आल्मली कुसुमं पत्र करञ्जे तु तरुद्भवम्
वैभीतकानि पत्राणि तत्पुष्पाणि च वर्जयेत् ८४
निर्गन्धान्युग्रगन्धानि यानि तानि विवर्जयेत्
गन्धवन्त्यपवित्राणि यानि तानि विवर्जयेत् ८५
गन्धहीनमपि ग्राह्यं पवित्रं यत्कुशादिकम्
सात्विकं तच्च कुसुमं अपवित्रं तु तामसम् ८६
कनकनि कदम्बानि रात्रौ देयानि शङ्करे
दिवा शेषाणि पुष्पाणि दिवा रात्रौ च मल्लिकाः ८७
प्रहरं तिष्ठते जातिः करवीरमहर्निशम्
कोटकेशोपविद्धानि शीतर्णपर्युषितानि च ८८
स्वयं पतितपुष्पाणि त्यजेदुपहतानि च
मुकुलैर्नार्चयेद्देवं अर्चिते सति कुड्मले ८९
अपक्वं यातयामं च शिवाय न निवेदयेत्
लवणानामसङ्ख्यानां राशिस्तेन धृतेन यत् ९०
फलं क्वथित विद्धं च यत्नात्पक्वमपि त्यजेत्
अलाभेन तु पुष्पाणां पत्राण्यपि निवेदयेत् ९१
पत्राणामप्य लाभे तु फलान्यपि निवेदयेत्
फलानामप्यलाभे तु तृणगुल्मौषधैरपि ९२
ओषधानामलाभे तु मानसं परमं शुभम्
प्रत्येकमुक्तपुष्पेषु दशसाहस्रिकं फलम् ९३
स्रग्विबन्धेषु तेष्वेव द्विगुणं फलमिष्यते
सुगन्धैर्मुक्त पुष्पैर्थः सम्यग्लिङ्गं प्रपूजयेत् ९४
मालाभिर्वासु घटितैः अनन्तं फलमाप्नुयात्
बिल्वपत्रैरखण्डैश्च सकृल्लिङ्गं प्रपूजयेत् ९५
सर्वपाप विनिर्मुक्तः शिवलोके महीयते
धूर्धरकैश्च यो लिङ्गं सकृत्पूजयते नरः ९६
स गोलक्ष प्रदानस्य शिवं प्राप्य फलं लभेत्
बृहतीकुसुमैर्भक्त्या यो लिङ्गं सकृदर्चयेत् ९७
गवामयुत दानस्य फलं प्राप्य शिवं व्रजेत्
अपामार्गस्य पत्रैश्च यो लिङ्गं सकृदर्चयेत् ९८
स गवां कोटिदानस्य फलं प्राप्य शिवं व्रजेत्
मल्लिकोत्पलनिर्गुण्डी जाति पुन्नाग चम्पकाः ९९
अशोकश्वेतमन्दार कर्णिकारबकानि च
करवीरार्कमन्दारशमीतगरकेसरम् १००
कुशापामार्गकुमुद कदम्बद्रोणकानि च
नन्द्यावर्तकशम्याक तिलकं नवमालिका १०१
करञ्जनागदन्तीश्च वैभीतकपत्रजादिभिः
सौगन्धिक सनागैश्च सिन्धुश्रीफलकार्जुनैः १०२
एकपत्रारविन्दाग्रा विष्णुक्रान्तिदलोत्पलैः
दुर्वारैः पारिभद्रैश्च ब्रह्मवृक्ष प्रसूनकैः १०३
आमिलात कुसूमैश्च चूतजम्बक पल्लवैः
दूर्वाग्रैः श्वेतदूर्वैश्च तालपुष्पैर्विशेषतः १०४
तुलसीकुरवांकोल नागैर्बकुल सौरभैः
पुष्पैरेतैर्यथालाभं यो नरः पूजयेच्छिवम् १०५
स च यत्फलमाप्नोति तदेकाग्रमनाः शृणुः
कोटिसूर्यप्रतीकाशैः विमानैः सार्वकामिकैः १०६
पुष्पमालापरिक्षिप्तैः गीतवादित्रनादितैः
तन्त्रीमधुरवाद्यैश्च स्वच्छन्दगमनालसैः १०७
रुद्रकन्यासमाकीर्णैः देवदानव किन्नरैः
दोधूयमानश्चमरैः स्तूयमानः सुरासुरैः १०८
गच्छेच्छिवपुरं दिव्यं यत्र वा रुचितं भवेत्
यैस्तैर्वापीहकुसुमैः जलजैः स्थलजैः शिवम् १०९
सम्पूज्य प्रोक्षितैर्भक्त्या शिवलोके महीयते
शिवस्योपरि यः कुर्यात् सुघनं पुष्पमण्डपम् ११०
शोभितं पुष्पमालाद्यैः आपीठान्तं प्रलम्बिभिः
अत्याश्चर्यैर्महायानैः दिव्यपुष्पोपशोभितैः १११
सर्वैः परिवृतः श्रीमान् गच्छेच्छिवपुरं सुखी
स पुष्पक विमानानां सहस्रैः परिवारितः ११२
दिव्यस्त्री सुखसम्भोग क्रीडारति समन्वितः
अक्षयं मोदते कालं अतिरस्कृतशासनः ११३
शिवादि सर्वलोकेषु यत्रेष्टं तत्र याति सः
पूजासु भक्तिविश्वास रचितादिषु सर्वदा ११४
फलमेवं समासेन ज्ञेयं वित्तानुसारतः
मालाभिवेष्टयेद्वेदीं लिङ्गं सम्पूजयेन्नरः ११५
शिवो देव्या च पुत्रेण मोदते पूजयानया
लिङ्गवेदी भवेद्देवी लिङ्गं साक्षान्महेश्वरः ११६
तयोः सम्पूजनाद्भक्त्या देवी देवश्च पूजितौः
स्वयमुत्पाद्य पुष्पाणि यः शिवं पूजयेत्सदा ११७
तानि साक्षात्प्रगृह्णाति तद्भक्त्या सततं शिवः
यः कुर्याच्च शिवारामं आम्र बिल्वादि शोभितम् ११८
जाती विजयराजार्क करवीराब्जकुब्जकैः
पुन्नागनागबकुलैः अशोकोत्पल चम्पकैः ११९
कदलीहेमयूथाद्यैः तस्य पुण्यफलं शृणु
यावत्पत्रकुसुमं बीजमूल फलानि च १२०
तावद्वर्ष सहस्राणि रुद्रलोके महीयते
लाक्षां प्रामाण्य निर्मुक्त सूपं दद्यात्सकृच्छिवे १२१
चतुर्वेदिगृहे जन्म प्राप्नोति सततं सुखी
कृष्णागरु सकर्पूरं धूपं दद्यान्महेश्वरे १२२
नैरन्तर्यैण मासार्धं तस्य पुण्यफलं शृणु
कल्पकोटिसहस्राणि कल्पकोटिशतानि च १२३
भुक्त्वा शिवपुरे भोगांस्तस्याप्यन्ते महीपतिः
गुग्गुलुं घृतसंयुक्तं साक्षाद्गृह्णाति शङ्करः १२४
मासार्धं मात्रधूपदानेन शिवलोके महीयते
शिव कृष्णचतुर्दश्यां यः साज्यं गुग्गुलुं दहेत् १२५
अपराधसहस्रं तद् इहामुत्र कृतं क्षमेत्
देवदारु नमेरुं च सर्शश्रीवासकुन्दुरुम् १२६
श्रीफलं चाऽऽज्यसम्मिश्रं दत्वाऽऽप्नोति परां श्रियम्
एभ्यः सुगन्धिकर्पूरं षट्सहस्रगुणोत्तरम् १२७
अगरुं दशसाहस्रं द्विगुणं चासितागरुम्
गुग्गुलं दशसाहस्रं सघृतं द्विगुणं भवेत् १२८
प्रियश्च गुग्गुलुर्नित्यं आज्ययुक्तो विशेषतः
द्वे साहस्रे फलानां तु महिषाक्षस्य गुग्गुलोः १२९
दग्ध्वाज्येन तु सम्मिश्रं शिवतुल्यः प्रजायते
अगरुं घृत संयुक्तं अनन्ताश्च फलानि च १३०
अग्निष्टोमस्य यज्ञस्य फलमाप्नोति मानवः
शोधयेत्पापसंयुक्तं पुरुषं नात्र संशयः १३१
कृष्णागरूद्भवो धूपः तुषास्तुरिव काञ्चनम्
योऽन्तः शिवगृहं भक्त्या सुगन्धेन प्रलेपयेत् १३२
कवाटद्वारकुड्यान्तं तिर्यगूर्ध्वं सवेदिकम्
श्वासयेत्पुष्पमालाभिः धूपैश्चापि सुगन्धिभिः १३३
यः कुर्यात्सकृदप्येवं पु्ण्यं तस्यावधारय
सर्वकामैश्च सम्पूर्णो महायानैः सहस्रशः १३४
आपुरायं दिशः सर्वाः आमोदैश्च सुगन्धिभिः
कल्पकोटिशतं दिव्यं रुद्रलोके महीयते १३५
तस्यान्ते धर्मशेषेण त्रैलोक्याधिपतिर्भवेत्
ऋतावृत्तौ च यः कुर्याद्दिव्यगन्धैः शिवालयम् १३६
स समस्त कुलोपेतः शिवलोके महीयते
त्रिवृच्छत्सुपीतं वा पट्टसूत्रादि निर्मितम् १३७
दत्वोपवीतं रुद्राय भवेद्वेदान्तगोचरः
वासांसि सुविचित्राणि सारवन्ति मृदूनि च १३८
धूपितानि शिव दद्याद् विकेशानि नवानि च
यावत्तद्वस्त्रतन्तूनां परिमाणं समन्ततः १३९
तावद्युगसहस्राणि रुद्रलोके महीयते
तुटिमात्रं तु यो दद्याद् हेम लिङ्गस्य मूर्धनि १४०
इन्द्रस्यार्धासमे तावद् यावदिन्द्राश्चतुर्दशः
एवं वित्तानुसारेण फलं ज्ञेयं समासतः १४१
सर्वेषां मणिपट्टानां मुकुटादेर्विशेषतः
योर्कपत्रपुटं पूर्णं मधुपर्कं सुमन्त्रितम् १४२
निवेदयेत शर्वाय सोऽश्वमेधफलं लभेत्
शालिनां तण्डुलं प्रस्थं कुर्यादन्नं सुसंस्कृतम् १४३
शिवाय तच्चरुं दद्यात् चतुर्दश्यां विशेषतः
हारिद्रं कृसरं शुक्लं पायसं वा चरुंस्तथा १४४
गुडखण्डाज्य सम्मिश्रं नैवेद्यं परिकल्पयेत्
यावन्तस्तण्डुलास्तमिन्नैवेद्ये परिसंख्यया १४५
तावद्वर्षसहस्राणि रुद्रलोके महीयते
गुडखण्डघृतानां च भक्ष्याणां च निवेदने १४६
घृतेन पाचितानां तु पुण्यं शतगुणं भवेत्
मज्जिका पानकानां तु भक्ष्यार्थं फलमिष्यते १४७
तदर्धं सलिलस्यापि वासितस्य निवेदने
मातुलुङ्गफलादीनि पक्वानि च निवेदयेत् १४८
शिवाय तत्फलं तस्य भक्ष्याणां यन्निवेदने
पञ्च सौगन्धिकोपेतं ताम्बूलं च निवेदयेत् १४९
शिवाय गुरवे चैव तस्य पुण्यफलं शृणु
सुगन्धदेहस्तेजस्वी सर्वावयव सुन्दरः १५०
वर्षकोटिशतं दिव्यं शिवलोके महीयते
घृतदीपप्रदानेन शिवाय शतयोजनम् १५१
लङ्घयित्वा ततो याति विमानैः सूर्य सप्रभैः
गच्छेच्छिवपुरं दिव्यं यावदाभूतविप्लवम् १५२
तस्यान्ते स महीपालो ब्राह्मणो वाऽभिजायते
यः कुर्यात्कार्तिकमासे शोभनां दीपमालिकाम् १५३
घृतेनैव चतुर्दश्यां पौर्णमास्यां तथापि वा
सूर्यकोटि प्रतीकाशैः तेजोभिर्भासयेद्दिशः १५४
तेजोराशिर्विमानस्थः कुलमुद्धृत्य सर्वशः
यावत्प्रदीप संख्यानं घृतेनापूर्य बोधितम् १५५
तावद्युगसहस्राणि रुद्रलोके महीयते
दीपवृक्षं समुद्धृत्य लोहमुच्चं शिवालये १५६
पूर्वस्माद्द्विगुणं पुण्यं लभते नात्र संशयः
कापिलेन घृतेनैव सूक्ष्मतन्तु कृतेन च १५७
सकृद्दीपं शिवे दद्यात् तस्य पुण्यफलं शृणु
सूर्यकोटि प्रतीकाशैः विमानैः सार्वकामिकैः १५८
गच्छेत्सोऽपि शिवं लोकं यावदाभूत सम्प्लवम्
तस्यां परिवारितोरग दिव्य देह समन्वितः १५९
ज्ञानयोगं समासाद्यं तत्रैव स विमुच्यते
शिरसा धारयेद्दीपं सर्वरात्रं शिवाग्रतः १६०
ललाटे वाऽथ हस्ताभ्यां उद्युक्तश्च तथोरसि
सूर्यायुत प्रतीकाशैः विमानैः सार्वकामिकैः १६१
कल्पायुतशतं दिव्यं रुद्रलोके महीयते
शिवस्य पुरतो दद्याद्दर्पणं चारु निर्मलम् १६२
पर्यन्तं शोभितं कृत्वा श्वेतमाल्यैः सचन्दनैः
चन्द्रांशुनिर्मलः श्रीमान् सुभगः कामरूपधृक् १६३
कल्पायुतसहस्राणि रुद्रलोके महीयते
कृत्वा प्रदक्षिणं भक्त्या शिवस्याऽऽयतनं नरः १६४
अश्वमेधसहस्रस्य लभते फलमुत्तमम्
नमस्कारः स्मृतो यज्ञः सर्वयज्ञोत्तमः शिवे १६५
नमस्कृता महादेवं अश्वमेधफलं लभेत्
प्रणम्य दण्डवद्भूमौ नमस्कारेण योर्चयेत् १६६
स यां गतिमवाप्नोति न तां यज्ञशतैरपि
सर्वयजोपवासेषु सर्वतीर्थेषु यत्फलम् १६७
स्तुतिजप्योपहारेण शिवे तत्फलमाप्नुयात्
श्वेतं महाध्वजं दद्यात्कृत्वा वै पञ्चरङ्गिकम् १६८
किङ्किणीरवकोपेतं मयूरच्छत्रभूषितम्
स सितेन विमानेन सर्वेषां चोपरिस्थितः १६९
मन्वन्तरसहस्रं तु मोदते दिवि रुद्रवत्
ध्वजमालाकुलं कुर्यात् प्राकारालय मध्यतः १७०
महाध्वजाष्टकं वापि दिग्विदिक्षु निवेदयेत्
स विमानसहस्रेण दिव्याश्वपरिशोभिना १७१
कल्पायुतसहस्राग्रं मोदते दिवि रुद्रवत्
शरच्चन्द्रांशु विमलं मुक्तामालोपशोभितम् १७२
मणिदण्डमवच्छत्रं दद्यात्काञ्चन निर्मितम्
सच्छत्रैश्च विचित्रैश्च धार्यमाणैश्च शोभितम् १७३
विमानैः सर्वसम्भोगैः चिरं शिवपुरं व्रजेत्
ये निश्चिता नराः सम्यक् पूजयन्ति महेश्वरम् १७४
तेषां ददाति विश्वेशो देवो मुक्तिं सुदुर्लभाम्
यदि चेद्राज्यमाकाङ्क्षेद् देही काल विपर्ययात् १७५
भुङ्क्ते समुद्रपर्यन्तां एकच्छत्रां वसुन्धराम्
यः शृङ्खलासमायुक्तां महाघण्टां महास्वनाम् १७६
कांस्यलोहमयीं वापि बन्धयेद्यो शिवालये
घण्टाकर्णगणः श्रीमान् शिवस्यातीव वल्लभः १७७
शिवतुल्यबलो भूत्वा शिवलोके महीयते
भेरी-मृदङ्ग-मुरव-तिमिलो-पटहादिकम् १७८
वंश-कांस्यादिवादित्रं यः शिवाय निवेदयेत्
स विमानैर्महाभोगैः वंश-वीणाकृतस्वनैः १७९
युगायुतशतं दिव्यं शिवलोके महीयते
स्त्रीणां सङ्गीतदानेन सनाट्येन विशेषतः १८०
यथेष्टमैश्वरे लोके मोदते कालमक्षयम्
महास्वनं तु योदद्याच्छङ्खयुग्मं शिवाय तु १८१
युगकोटिशतं दिव्यं रुद्रलोके महीयते
वितानं सितपद्माभं मध्ये कमलभूषितम् १८२
विचित्रमेकवर्णं वा नानावर्णोपशोभितम्
किङ्किणीरवकोपेतं कन्दुकैश्चोपशोभितम् १८३
लम्बकैर्मुक्तादामैश्च घण्टाचामर भूषितम्
शिवस्योपरि यो दद्यात् पुरतो वाऽपि कल्पयेत् १८४
रुद्रवत्सर्वलोकेषु युगकोटिं च मोदते
शिवस्योपरि यो दद्यात् सर्वरत्नोपशोभितम् १८५
मण्डनं मौक्तिकं श्रीमान् तस्य पुण्यफलं शृणु
कोटिकोटि विमानैश्च सर्वकाम समन्वितः १८६
आभूत सम्प्लवं यावत्तावच्छिवपुरे वसेत्
शिवस्याऽऽयतने कुर्याद् वस्त्रपूजां सुशोभनम् १८७
दुकूलपट्टदेवाङ्गैः वस्त्रैरन्यैश्च शोभनेः
वस्त्रादिपट्टतन्तुनां भवेत् संख्या तु यावति १८८
तावद्युग सहस्राणि रुद्रलोके महीयते
शिवभक्त्या जगत्सर्वं वृष्टिसारेण सार्यते १८९
यत्सन्धार्य जगत्पुण्यं अग्निकार्येण तद्भवेत्
जगतो धारणं कुर्याद् अग्निकार्ये विशेषतः १९०
यः कुर्यादिष्टकागारं रुद्राग्रेरति शोभनम्
सकृत्तत्राग्नि कार्येण रुद्र सायुज्यमाप्नुयात् १९१
शिवाग्नि कार्यं यः कृत्वा कुर्यात्त्र्यायुषमात्मनः
दशभिर्मुच्यते पापैः सितेन शिवभावना १९२
कृत्वा शिवालये य प्रान्ते दशमण्डलकानि तु
सर्वपाकाग्न संयुक्तः तेषु नित्यं बलिं हरेत् १९३
अर्घ्यं पुष्पजलोपेतं ताम्रपात्रे प्रकल्पयेत्
रुद्रमातृगणादीनां देवतानां च सर्वतः १९४
यः कुर्यात्सकृदप्येवं दशदिक्षु बलिक्रियाम्
दशवर्षसहस्राणि रुद्रलोके महीयते १९५
रौद्रं संध्याबलिं कृत्वा नित्यं पर्वसु वा निशि
कल्पायुतशतं साग्रं शिवलोके महीयते १९६
दधिभक्तमयं लिङ्गं हेमपात्रादि संस्थितम्
पुष्पधूपार्चितं कृत्वा विमानोपरि शोभितम् १९७
शिरसा धारयन्पात्रं शनैर्गच्छेत्प्रदक्षिणम्
शिवायतन पर्यन्तं शङ्खभेर्यादि निस्वनैः १९८
दर्पणैर्ध्वजमालाभिः गेयनृत्तादिभिः सह
चित्रचामरधूपाद्यैः यष्टिदीपादिभिस्तथा १९९
तच्छेषं दधिभक्तेन लिङ्गस्य पुरतः स्थितम्
पुष्पाक्षतविमिश्रेण पीठे तदुपसंहरेत् २००
एतेन मातरो रुद्रो शिवो वा षण्मुखादयः
शान्तिं जुषन्ति सुप्रीता रौद्रेण बलिना सदा २०१
शिवमाख्यापनयनं पूजान्ते भूप्रमार्जनम्
एकैकमेव तुल्यं स्यात् चान्द्रायण फलेन तु २०२
शिवमण्डलकं कृत्वा हस्तमात्रं शिवाग्रतः
यः कुर्यादक्षतैः पुष्पैः पत्रैर्वाप्यथ केवलैः २०३
सुरूपः सुभगः श्रीमान् तेजस्वी वेदवित्सुखी
चतुर्वेदीगृहे जन्म सकृत्कृत्वा लभेन्नरः २०४
एवं स्वस्तिकपद्माद्यैः भूमि शोभा शिवालये
कृत्वा वर्णकपिष्टाद्यैः तस्माच्छतगुणं भवेत् २०५
शिवयज्ञोपकरणं दत्वाल्पं यदि वा बहु
स च वित्तानुसारेण शिवलोके महीयते २०६
शिवमुद्दिश्य यद्दत्तं सर्वकारणकारणम्
तदनन्तफलं दातुर्भवतीति किमद्भुतम् २०७
यद्यदिष्टं विशिष्टं च न्यायेन समुपार्जितम्
तच्छिवाय निवेद्यं स्यात् भक्त्यानन्त फलार्थिभिः २०८
कर्मशाठ्येन यः कुर्यात् मूल्येनाऽपि शिवालये
सोऽपि शाठ्याद्दिवं याति पापवर्जित कर्मणा २०९
कृत्वाऽऽरामन्नपानादि शिवायतन कर्मसु
उपयुक्तानि भूतानि खननोत्पातनेषु च २१०
अकामतोऽपि सर्वाणि चराणि स्थावरानि च
दिवं प्रयान्त्यसन्देहं भावात्परमेष्ठिनः २११
लिङ्गहस्तशतं साग्रं शिवक्षेत्रं समन्ततः
देहिनां तत्र मरणं शिवसायुज्यकारणम् २१२
मनुजैः स्थापिते लिङ्गे क्षेत्रमानमिदं स्मृतम्
स्वयम्भूते सहस्रं स्याद् आर्षे चैव तदर्धकम् २१३
पतित नरोऽपि यतस्मिन् निवसेत शिवालये
स याति परमं स्थानं यस्माच्छिवपुरं महत् २१४
तस्मादावसथं कुर्याच्छिवक्षेत्र समीपतः
शिवलिङ्गसमीपस्थं यत्तोयं पुरतः स्थितम् २१५
शिवगङ्गेति तज्ज्ञेयं तत्र स्नात्वा शिवं व्रजेत्
यः कुर्याद्दीर्घिकां वाऽपि कूपं वाऽपि शिवालये २१६
त्रिःसप्तकुलमुद्धृत्य शिवलोके महीयते
सर्वमन्यत्परित्यज्य शिवैकाहित मानसः २१७
शिवपूजाविधिं कुर्याद्यदिच्छेच्छुभमात्मनः
त्वरितं जीवितं याति त्वरितं याति यौवनम् २१८
त्वरितं व्याधिरभ्येति तस्मात्पूज्यः सदाशिवः
यावन्नायाति मरणं यावन्नाक्रमतो जरा २१९
यावन्नेन्द्रिय वैकल्यं तावत्पूजय शङ्करम्
न शिवार्चनतो ह्यस्ति धर्मोऽन्यो भुवनत्रये २२०
इति विज्ञाय यत्नेन पूजनीयः सदाशिवः
ये भक्ता देवदेवस्य शिवस्य परमेष्ठिनः २२१
इहलोके सुखं प्राप्य विन्दन्ति परमं पदम्
सम्पूज्य पशुभर्तारं विशुद्धेनान्तरात्मना २२२
कृताञ्जलिपुटो भूत्वा इदं स्तोत्रमुदीरयेत्
शिवं शिवकरं शान्तं शिवात्मानं शिवोत्तमः २२३
शिवमार्ग प्रणेतारं प्रणमामि सदाशिवम्
शाश्वतं शोभनं शुद्धं स्मरद्दोष प्रमोक्षकम् २२४
विश्वं विश्वेश्वरं देवं शङ्करं प्रणमाम्यहम्
सर्वपापहरं नाथं सर्वरोगहरं शुभम् २२५
सर्वबाधाहरं नित्यं नामम्यार्तिहरं परम्
आस्थानस्थान संस्थान संस्थितस्थितिभासकम् २२६
शिरस्थानस्थ योगस्थं स्थाणुमीशं नमाम्यहम्
ईशानं पुरुषं घोरं वामं सद्यं महेश्वरम् २२७
ईशानं सर्वभूतानां ईश्वरं प्रणमाम्यहम्
ईशानं वरदं देवं ईशामनन्त नायकम् २२८
इति पूजाविधिं पुण्यं यः शृणोति सकृन्नरः
स मुक्तः सर्वपापेभ्यः शिवलोके महीयते २२९
इति शिवधर्मपुराणे शिवार्चनद्रव्यपुण्यं नामः पञ्चमोऽध्यायः ५

अथ षष्ठो ध्यायः
श्री नन्दिकेश्वर उवाच
अतः परमिदं गुह्यं शिवोद्गीर्णं महोदयम्
महाविघ्नप्रशमनं महाशान्तिकरं शुभम् १
अकालमृत्युमथनं सर्वव्याधिनिवारणम्
परचक्रप्रमथनं सदाविजयवर्धनम् २
स्तम्भनं परसैन्यस्य रिपुसादकरं सदा
सर्वदेवग्रहानीकं सर्वाभीष्टाविभासकम् ३
सर्वशान्त्यधिकाराख्यं धर्मं वक्ष्यामि शाश्वतम्
महेश्वरध्यानम्
शशाङ्कार्धधरस्त्र्यक्षो नागयज्ञोपवीतवान् ४
चतुर्मुखश्चतुर्बाहुः सितभस्मावगुण्ठितः
वरो वरेण्यो वरदो देवदेवो महेश्वरः ५
त्रैलोक्यनमितः श्रीमान् शान्तिमाशु करोतु मे
शिवार्धाङ्गिनीध्यानम्
सर्वावयवमुख्येन गात्रेण तनुमध्यमा ६
पीतश्यामातिसौम्येन शिवरूपेण सेवितः
ललाटतिलकोपेता चन्द्रलेखार्धधारिणी ७
दिव्याम्बरधरा देवी सर्वाभरणभूषिता
वरस्त्री सर्वनारीणां शोभागुणमहास्पदम् ८
भावनामात्रसन्तुष्टा उमादेवी वरप्रदा
साक्षादागम्यरूपेण शान्तेनामिततेजसा ९
शान्तिं करोतु मे प्रीता भक्तानां भक्तवत्सला
षण्मुखध्यानम्
पद्मरागद्युतिः सौम्यो रक्तमाल्यानुलेपनः १०
अबालो बालरूपेण षण्मुखः शिखिवाहनः
पूर्णेन्दुवदनः सौम्यः त्रिशिखाशक्तिसंयुतः ११
कृत्तिकोमाग्निरुद्राङ्ग गङ्गोद्भूतः सुरार्चितः
कार्तिकेयो महातेजा वरदानैकतत्परः १२
शान्तिं करोतु मे नित्यं बलं सौख्यं च सर्वदा
नन्दीशध्यानम्
श्वेतवस्त्रपरीधानः त्र्यक्षः कनकसप्रभः १३
शूलपाणिर्महाप्राज्ञः नन्दीशः शिवभावितः
शिवध्यानैकपरमः शिवभक्तिपरायणः १४
शान्तिं करोतु मे शान्तो धर्मे च मतिमुत्तमाम्
नागयज्ञोपवीती च नागाभरणभूषितः १५
सर्वार्थसम्पदाधारो गणाध्यक्षो वरप्रदः
रुद्रस्य तनयो देवो नायकोऽथ विनायकः १६
करोतु मे महाशान्तिं कर्मसिद्धिं च सर्वदा
इन्द्रनीलनिभस्त्र्यक्षो दीप्तशूलायुधोद्यतः १७
रक्ताम्बरधरः श्रीमान् कृष्णाङ्गो नागभूषणः
पापापनोदमतुलं अलक्ष्मीमलनाशनः १८
करोतु मे महाकालः प्रीतिं प्रीतेन चेतसा
गणमाताम्बिकाध्यानम्
पीतवस्त्रपरीधाना कन्यारूपा स्वलङ्कृता १९
गणमाताम्बिका त्र्यक्षा पुण्यागौरी सुरेश्वरी
सर्वसिद्धिप्रदादेवी प्रसादपरमा शिवा २०
शान्तिं करोतु मे प्रीता सिद्धिमाशु प्रयच्छतु
स्निग्धश्यामेन वर्णेन महामहिषमर्दनी २१
धनुश्चक्रप्रहरणा शङ्खयष्ट्यसिधारिणी
आतर्जनोद्यतकरा सर्वोपद्रवनाशिनी २२
अतिसूक्ष्मोऽतिविक्रान्तः त्र्यक्षो भृङ्गिरिटिर्महान्
रुद्रात्मजो रुद्रभक्तो रुद्रैकगतमानसः २३
सोऽपि शान्तात्मभावेन शान्तिमाशु प्रयच्छतु
चण्डेश्वरध्यानम्
प्रचण्डगणसैन्यस्थो महाटङ्काक्षधारकः २४
अक्षमालार्पितकरः त्र्यक्षश्चण्डेश्वरः प्रभुः
चण्डपापापहरणो ब्रह्महत्यादि शोधनः २५
करोतु मे महायोगी नित्यं कल्याणवर्धनम्
नीलकण्ठध्यानम्
शङ्खकुन्देन्दुतुल्याभः कण्ठे मरकतप्रभः २६
अक्षमालाशिरोग्रस्तु स्वयं ज्ञाने व्यवस्थितः
चतुर्मुखश्चतुष्पादः त्रिनेत्रः सर्वदोज्वलः २७
क्षितेःपतिर्वरयो देवः सर्वधर्मोत्तमोत्तमः
ईशं वहति पृष्ठेन तस्माद्धर्मो जगत्प्रभुः २८
वृषो वृषपतिः श्रीमान् करोतु मम शान्तिकम्
पितामहध्यानम्
पद्मासनः पद्मनिभः चतुर्वेदनपङ्कजः २९
कमण्डलुधरः श्रीमान् देवगन्धर्वपूजितः
शिवध्यानैकनिरतः शिवसद्भावभावितः ३०
ब्रह्मशब्देन दिव्येन ब्रह्मा शान्तिकरोतु मे
विष्णुध्यानम्
तार्क्ष्यासनश्चतुर्बाहुः शङ्खचक्रगदाधरः ३१
श्यामपीताम्बरधरो वनमालाविभूषितः
यज्ञदेवोत्तमो देवो माधवो मधुसूदनः ३२
शिवप्रणामपरमः शिवध्यानैकतत्परः
शिवार्चनपरो नित्यं विष्णुशान्तिं करोतु मे ३३
लक्ष्मीदेवीध्यानम्
पद्मरागप्रभा देवी चतुर्वदनपङ्कजा
अक्षमालार्पितकरा कमण्डलुधरा शुभा ३४
ब्रह्माणी सौम्यवदना शिवपूजापरायणा
शान्तिं करोतु मे प्रीता ब्रह्मशब्देन सर्वदा ३५
शिवादेवीध्यानम्
हिमशैलतनया देवी महावृषभवाहना
त्रिशूलहस्ता वरदा सर्वाभरणभूषिता ३६
रुद्रभक्त्या महावीर्या रुद्रार्चनपरा शिवा
चतुर्भुजा चतुर्वक्त्रा त्रिनेत्रा पापहारिणी ३७
आर्तिं हरतु मे प्रीता ब्रह्मशब्देन सर्वदा
कौमारीध्यानम्
त्रिशूलहस्ता वरदा देवी ईश्वरी नित्यमुज्वला ३८
मयूरवाहना देवी सिन्दूरारुणविग्रहा
शक्तिहस्ता महारूपा सर्वाभरणभूषिता ३९
रुद्रभक्ता महापुण्या रुद्रार्चनरता सदा
कौमारी वरदा देवी शान्तिमाशु करोतु मे ४०
वैष्णवीध्यानम्
शङ्खचक्रगदाहस्ता श्यामा पीताम्बरप्रिया
चतुर्भुजा तार्क्ष्यवाहा वैष्णवी सुरपूजिता ४१
शिवार्चनरताभक्ता रुद्रैकगतमानसा
शान्तिं करोतु मे प्रीता सर्वासुरविमर्दिनी ४२
वाराहीध्यानम्
वराहघोषाविकटा वराहवरवाहिनी
श्यामावदाता विपुला शङ्खचक्रगदाधरा ४३
तर्जयन्ती सदाविघ्नान् अर्चयन्ती सदाशिवम्
वाराही वरदा देवी क्षेमारोग्यं करोतु मे ४४
ऐन्द्रीध्यानम्
ऐरावतगजारूढा वज्रहस्ता महाबला
नेत्राणां तु सहस्रेण भूषिता कनकप्रभा ४५
सिद्धगन्धर्वनमिता सर्वाभरणभूषिता
ऐन्द्रीदेवी सदाकालं शान्तिमाशु करोतु मे ४६
चामुण्डाध्यानम्
ऊर्ध्वकेशोत्कटा क्षामा निर्मांसस्नायुबन्धना
करालवदना घोरा खड्गघण्टायुद्धोद्यता ४७
कपालमालिनी देवी क्रूरा खट्वाङ्गधारिणी
आरक्तपिङ्गनयना गजचर्मावगुण्ठिता ४८
नानानागपरीताङ्गी प्रेतस्थाननिवासिनी
शिवरूपेण घोरेण शिवारावभयङ्करी ४९
चामुण्डा चण्डरूपेण चित्रयन्त्रा सनोतु मे
भूतप्रेतपिशाचेभ्यो मम रक्षां करोत्विह ५०
आयुः श्रियं बलं सौख्यं प्रीता भूत्वा ददातु मे
आकाशस्थ च लोकमातरादीणां
आकाशे मातरो दिव्याः तथान्या लोकमातरः ५१
भूतानां मातरः सर्वाः तथान्याः पितृमातरः
सर्वामातृगणा देव्यः स्वायुधव्यग्रपाणयः ५२
जगद्व्याप्यावतिष्ठन्त्यो बलिकामा महोदयाः
रुद्रभक्ता महावीर्या रुद्रार्चनपरायणाः ५३
शान्तिं कुर्वन्तु मे नित्यं मातरः सुरपूजिताः
ये रुद्रा रुद्रकर्माणो रौद्रस्थाननिवासिनः ५४
सौम्याश्चैव तु ये केचित् सौम्यस्थाननिवासिनः
मातरो रुद्ररूपाश्च गणानामधिपाश्च ये ५५
विघ्नभूतास्तथा ये च दिग्विदिक्षु समाश्रिताः
सर्वे सुप्रीतमनसः प्रतिगृह्णन्त्विमां बलिम् ५६
सिद्धिं कुर्वन्तु मे नित्यं भयेभ्यः पान्तु मां सदा
ऐन्द्र्यां दिशि गणा ये तु वज्रहस्ता महाबलाः ५७
सुश्वेताक्षाः श्वेतनिभाः तथा वै श्वेतलोहिताः
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ५८
रुद्रार्चनरता नित्यं शान्तिं कुर्वन्तु मे सदा
आग्नेय्यां ये गणाः सर्वे स्रुवहस्ता निषङ्गिणः ५९
सुरक्ताक्षा रक्तनिभाः तथा वै रक्तलोमभिः
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ६०
रुद्रैकाहितचेतस्काः शान्तिं कुर्वन्तु मे सदा
याम्यां दिशिगणा ये तु सततं दण्डपाणयः ६१
सुकृष्णाक्षाः कृष्णनिभाः तथा वै कृष्णलोहिताः
दिव्यान्तरिक्षभौभाश्च पातालतलवासिनः ६२
रुद्रैकाहितचेतस्काः शान्तिं कुर्वन्तु मे सदा
नैरृत्यां तु गणा ये तु राक्षसाः खड्गपाणयः ६३
सुनीलाक्षा नीलनिभाः तथा वै नीललोहिताः
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ६४
रुद्रध्यानैकपरमाः शान्तिं कुर्वन्तु मे सदा
वारुण्यां ये गणाः सर्वे सततं पाशपाणयः ६५
सुमुक्ताक्षा मुक्तनिभाः तथा वै मुक्तलोहिताः
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ६६
शिवभक्ता महात्मानः शान्तिं कुर्वन्तु ये सदा
वायव्यां ये गणाः सर्वे सततं ध्वजपाणयः ६७
सुधूम्राक्षा धूम्रनिभाः तथा वै धूम्रलोहिताः
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ६८
शिवपूजा समायुक्ताः क्षेमं कुर्वन्तु सर्वदा
कौबेर्यां ये गणाः सर्वे सततं निधिपाणयः ६९
सुपीताक्षाः पीतनिभाः तथा वै पीतलोहिताः
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ७०
शिवभक्तिपराः सर्वे शान्तिं कुर्वन्तु मे सदा
ऐशान्यां वै गणा ये तु सततं शूलपाणयः ७१
सुश्वेताक्षाः श्वेतनिभाः तथा वै श्वेतलोहिताः
दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः ७२
परमेशार्चनरताः शान्तिं कुर्वन्तु मे सदा
अधोभागे वै गणा ये तु सततं चक्रपाणयः ७३
सुनीलाक्षा नीलनिभा तथा वै नीललोहिताः
दिव्यान्तरिक्षभौभाश्च पातालतलवासिनः ७४
शिवपूजा समायुक्ताः अशुभं नाशयन्तु मे
ऊर्ध्वभागे गणा ये तु सततं पाशपाणयः ७५
सुसूक्ष्माक्षाः सूक्ष्मनिभाः तथा वै सूक्ष्मलोहिताः
दिव्यान्तरिक्षभौभाश्च पातालतलवासिनः ७६
शिवपूजा समायुक्ताः त्वशुभं नाशयन्तु मे
एते गणा महात्मानो महाबलपराक्रमाः ७७
शिवं सम्पूज्य यत्नेन बलिमेषां विनिक्षिपेत्
ततः सुप्रीतमनसा शान्तिं कुर्वन्तु मे सदा ७८
अमरावती पुरीनाम पूर्वभागे व्यवस्थिता
विद्याधरगणाकीर्णा सिद्धगन्धर्वसेविता ७९
रत्नप्राकारनिचिताः महारत्नोपशोभिताः
तत्र देवपतिः श्रीमान् वज्रपाणिर्महाबलः ८०
नेत्राणान्तु सहस्रेण शोभनेन विराजते
ऐरावतगजारूढो हेमवस्त्रो महाद्युतिः ८१
देवेन्द्रः सततं हृष्टः परमेशार्चने रतः
शिवध्यानैकसम्पन्नः शिवभक्तिसमन्वितः ८२
शिवभक्तैः सुराद्यैश्च देवैरपि सहानुगैः
शिवप्रणामपरमः करोतु मम शान्तिकम् ८३
आग्नेय्यां दिग्विभागे तु पुरी तेजोवती शुभा
नानारत्नसमाकीर्णा रत्नज्वाला समुज्ज्वला ८४
तत्र ज्वालापरीताङ्गा दीप्ताङ्गारसमद्युतिः
भूतिकृद्देहिनां देवो ज्वलनः पापनाशनः ८५
शिवपूजाजपोद्युक्तो शिवस्मरणभावितः
शान्तिं करोतु मे देवः तथा पापपरिक्षयम् ८६
वैवस्वती पुरी नाम दक्षिणे तु व्यवस्थिता
लोहप्राकारसंयुक्ता प्रासादैर्गोपुरैः शुभैः ८७
यमरूपशतानीका पितृयक्षोरगालया
तत्रेन्द्रनीलसङ्काशो रक्तान्तायतलोचनः ८८
महामहिषमारूढः कृष्णस्रग्वस्त्रभूषणः
कालान्तकमहाकालः चण्डकोदण्डसंयुतः ८९
श्रीमान्यमो महातेजाः शिवधर्मपरायणः
शिवपूजाजपोद्युक्तः क्षेमारोग्यं करोतु मे ९०
नैरृते तु दिशाभागे पुरी शुद्धवती शुभा
नानागणसमाकीर्णा नानाकिन्नरसङ्कुला ९१
कृष्णवर्णभासिते तत्र राक्षसेन्द्रावस्थितम्
नरारूढं महाकायं रक्षोभिर्बहुभिर्वृतम्
खड्गहस्तं महानीलं कज्जलाचलसन्निभम्
नरयुक्तविमानस्थं पीताभरणभूषितम्
असुरेन्द्रः सततं हृष्टः परमेशार्चने रतः
शान्ति करोतु मे प्रीतः शान्तः शान्तेन चेतसा
वारुण्यां दिशाभागे नीरवती पुरी शुभा
तत्राप्सरोगणैः सिद्धैः सेव्यमानोऽमराधिपैः ।
तत्र मौक्तिकसङ्काशः परिपिङ्गललोचनः
शुक्लवस्त्रपरीधानः पाशहस्तो महाद्युतिः ९२
वरुणः परमाभक्त्या शिवैकाहितमानसः
रोगशोकार्तिसन्तापं विनाशय तु मे सदा ९३
वायव्ये दिग्विभागे तु पुरी गन्धवती शुभा
ऋषिसिद्धगणाकीर्णा हेमप्राकारतोरणा ९४
तत्र धूम्रेण देहेन कृष्णपिङ्गललोचनः
पटवासान्तरालीनो ध्वजयष्ट्यायुद्धोद्यतः ९५
पवनः परमो देवः परमेश्वरभावितः
क्षेमारोग्यबलं शान्तिं करोतु विजयं मम ९६
महोदया नाम पुरी उत्तरेण महोज्ज्वला
अनेकयक्षसङ्कीर्णा नानारत्नोपशोभिता ९७
हेमप्राकारसंयुक्ता रत्नप्रासादसंयुता
तत्र देवो गदाहस्तः चित्रस्रग्वस्त्रभूषणः ९८
ह्रस्वबाहुर्महातेजाः परिपिङ्गललोचनः
कुबेरो वरदः श्रीमान् हरपादार्चने रतः ९९
शान्तिं करोतु मे प्रीतः शान्तः शान्तेन चेतसा
यशोवती पुरी नाम ऐशान्यां दिशि संस्थिता १००
नानागणसमाकीर्णा नानाकृतसुरालया
तेजःप्राकारपर्यन्ता दुर्न्निरूपगुणोज्ज्वला १०१
तत्र मौक्तिकसङ्काशः शशाङ्ककृतशेखरः
त्रिनेत्रः शान्तरूपात्मा अक्षमालाकरोद्यतः १०२
ईशानः परमो देवः सर्वदेवोत्तमोत्तमः
सोऽपि सर्वात्मभावेन शान्तिमाशु करोतु मे १०३
भूलोकेऽथ भुवर्लोके स्वर्लोकेऽपि च संस्थितः
देवो दिव्यप्रभायुक्तः शान्तिं कुर्वन्तु मे सदा १०४
महोलोके च ये देवाः शुद्धस्फटिक सन्निभाः
रुद्रभक्ता महात्मानः शिवं कुर्वन्तु मे सदा १०५
जनोलोके च ये देवाः शुद्धस्फटिक सन्निभाः
रुद्रभक्ता महात्मानः शिवं कुर्वन्तु मे सदा १०६
तपोलोके च ये देवा धौत चामीकरप्रभाः
ईशानं प्रणता नित्यं शान्तिं कुर्वन्तु मे सदा १०७
महर्लोके च ये देवा विमानोज्ज्वलसंस्थिताः
शिवैकाहितचेतस्काः पापं प्रशमयन्तु मे १०८
महर्लोके जनालोके तपोलोके च संस्थिताः
ते देवा निरान्तकाः शान्तिं कुर्वन्तु मे सदा १०९
सत्यलोके च ये देवा भवन्त्युज्ज्वलविग्रहाः
शिवभक्ताः सुमनसः शान्तिं कुर्वन्तु मे सदा ११०
गिरिकन्दरदुर्गेषु वनेषु निवसन्ति ये
रुद्रार्चनरता देवाः शान्तिं कुर्वन्तु मे सदा १११
शरच्चन्द्रांशुगौरेण देहेनामलतेजसा
सरस्वती शिवे भक्ता शान्तिमाशु करोतु मे ११२
चारुचामीकरच्छाया सरोजकरपल्लवा
श्रीदेवी च शिवे भक्ता श्रीमद्भूतिं ददातु मे ११३
हारेण सुविचित्रेण भास्वत्कनकमेखला
अपराजिता शिवे भक्ता करोतु विजयं मम ११४
सिन्दूरारुणरक्ताङ्गः कर्णान्तायतलोचनः
सहस्रकिरणः श्रीमान् सप्तसप्तिकवाहनः ११५
गभस्तिमाली भगवान् शिवार्चनरतः सदा
करोतु मे महाशान्तिं ग्रहपीडां व्यपोहतु ११६
पद्मरागनिभेनापि देहेनापिङ्गलोचनः
अङ्गारकः शिवे भक्तो रुद्रार्चनपरायणः ११७
रुद्रसद्भावसम्पन्नो रुद्रध्यानैकमानसः
ग्रहपीडाभयं सर्वं विनाशयतु मे सदा ११८
कुङ्कुमच्छविभा श्रीमद्देहेन परिमण्डितः
बुधोऽपि शिवभक्तात्मा ग्रहपीडां व्यपोहतु ११९
तप्तचामीकरच्छायः सर्वज्ञानकृतालयः
बृहस्पतिः सदाकालं ईशानार्चनतत्परः १२०
सोऽपि शान्तात्मभावेन परमेण सुभावितः
ग्रहपीडां विनिर्जित्य करोतु विजयं मम १२१
हिमकुन्देन्दुतुल्याभः सुरदैत्यैः सुपूजितः
शुक्रः शिवार्चनरतो ग्रहपीडां व्यपोहतु १२२
भिन्नाञ्जनं समच्छायः संरक्तनयनद्युतिः
शनैश्चरः शिवेभक्तो ग्रहपीडां व्यपोहतु १२३
नीलाञ्जनसमः श्रीमान् सैंहिकेयो महाबलः
शिवपूजारतो राहुः ग्रहपीडां व्यपोहतु १२४
धूम्रदेहयुतः क्रूरः सर्वोत्पातसमन्वितः
शिवार्चनरतः केतुः ग्रहपीडां व्यपोहतु १२५
एते ग्रहा महात्मानः शिवार्चनरताः सदा
शान्तिं कुर्वन्तु मे हृष्टाः सदाकालं हितैषिणः १२६
मुखे यस्याः स्थितो मृत्युः विष्टिर्नाम महाबला
सुमुखा विघ्नकारी च पुच्छे च विजयं करी १२७
रुद्रप्रणामपरमा शान्तिमाशु करोतु मे
तृतीया सप्तमी चैव दशमी च चतुर्दशी १२८
चतुर्थी त्वष्टमी चैव एकादशी च पौर्णिमा
एता विघ्नकरा भद्राः शुक्लकृष्ण समुद्भवाः १२९
भवन्तु मे श्रियै नित्यं कुर्वन्तु विजयं सदा
अमावस्या महापुण्या पितृदेवसमन्विता १३०
प्रिया ह्यैषा तु परमा शिवस्य परमात्मनः
शिवतेजःसमायुक्ता करोतु मम शान्तिकम् १३१
प्रतिपद्वह्निसंयुक्ता द्वितीयार्काधिदेवता
तृतीया च महापुण्या धनदेन समन्विता १३२
चतुर्थी च महापुण्या गजवक्त्राधिदैवतम्
पञ्चमी श्रीयुता नित्यं षष्ठि स्कन्दाधिदैवतम् १३३
सप्तमी रवि संयुक्ता ह्यष्टमी रुद्रदेवता
नवमी तिथिरत्युग्रा दुर्गादेव्यधिदेवता १३४
दशमी यमसंयुक्ता इन्द्रेणैकादशी मता
द्वादशी विष्णुसंयुक्ता मदनेन त्रयोदशी १३५
चतुर्दशी मनःस्थेन पौर्णमासी हिमांशुना
एतास्तु तिथयः सर्वाः ईशानार्चनतत्पराः १३६
शान्तिं कुर्वन्तु मे नित्यं सदाकालं हितैषिणः
विष्कम्भः प्रीतिरायुष्मान् सौभाग्यः शोभनस्तथा १३७
अतिगण्डः सुकर्म्मा च धृतिः शूलस्तथैव च
गण्डो वृद्धिर्ध्रुवश्चैव व्याघातो हर्षणस्तथा १३७-२
वज्रसिद्धिव्यतीपाता वरीयान्परिधः शिवः
सिद्धः साध्यः शुभो शुभ्रो ब्राह्मो माहेन्द्रवैधृती १३८
चन्द्रस्य भानोरुत्पन्ना ह्येते योगा महाबलाः
शिवभक्तियुताः सर्वे शिवभक्तिविधायिनः १३९
शान्तिं कुर्वन्तु मे नित्यं शिवध्यानपरायणाः
कृत्तिका परमादेवी रोहिणीरुचिरानना १४०
मृगशीर्षा शिवेभक्ता आर्द्रा च परमोज्ज्वला
पुनर्वसुस्तथा पुष्या आश्लेषा च महोज्ज्वला १४१
नक्षत्रामन्तरो ह्येताः प्रभामालावभासिताः
महादेवार्चनरता महादेवात्मभावनाः १४२
पूर्वभागे स्थिता ह्येताः शान्तिं कुर्वन्तु मे सदा
मघा सर्वगुणोपेता पूर्वा चैव तु फाल्गुनी १४३
उत्तराफाल्गुनी श्रेष्ठा हस्तचित्रा तथोत्तरा
स्वाती विशाखा वरदा दक्षिणस्थानसंस्थिताः १४४
अर्चयन्तः सदाकालं देवं त्रिनयनं परम्
ममापि शान्तिकं ह्येताः कुर्वन्तु शिवचोदिताः १४५
अनुराधा तथा ज्येष्ठा मूलावृश्चि बलान्विता
पूर्वाषाढा महावीर्या आषाढा चोत्तरा शुभा १४६
अभिजिन्नाम नक्षत्रं श्रवणः परमोज्ज्वलः
एताः पश्चिमतो दीप्ता राजन्ते चारुमूर्त्तयः १४७
ईशानं पूजयन्त्येतत् सर्वकालं सुभाविताः
शान्तिं कुर्वन्तु मे नित्यं विभूतं च महाहिताः १४८
श्रविष्ठाशतभिषक् चैव पूर्वभाद्रपदस्तथा
उत्तराभद्ररेवत्याह्यश्वति सुमहर्द्धिका १४९
भरणी च महावीर्या नित्यमुत्तरसंस्थिताः
शिवार्चनरता नित्यं शिवध्यानैकमानसाः १५०
शान्तिं कुर्वन्तु मे नित्यं सर्वकालं शुभोदयाः
मेषो मृगाधिपस्थं यो धनुर्दीप्तिमतां वरः १५१
पूर्वं तु भासयन्त्येते शिवपूजापरायणः
शान्तिं कुर्वन्तु मे नित्यं हरपादाब्जपूजकाः १५२
वृषश्च वरदः कन्या मकरश्च महर्धिकाः
ऋषभश्च महावीर्याः शिवभावसुभाविताः १५३
एते दक्षिणदेशे तु पूजयन्ति सदाशिवम्
भक्त्या परमया नित्यं शान्तिं कुर्वन्तु मे सदा १५४
मिथुनश्च तुलाकुम्भौ पश्चिमे तु व्यवस्थिताः
शिवपादार्चने युक्ताः शान्तिं कुर्वन्तु मे सदा १५५
कर्कटो वृश्चिको मीना येऽन्त उत्तरतः स्थिताः
यजन्त्येते सदाकालं रुद्रं त्रिभुवनाधिकम् १५६
शान्तिं कुर्वन्तु मे नित्यं रुद्राज्ञानुविधायिनः
ऋषयः सप्तसङ्ख्याता ध्रुवान्ताः परमोज्ज्वलाः १५७
शिवप्रसादसम्पन्नाः शान्तिं कुर्वन्तु मे सदा
काश्यपो गालवो गार्ग्यो विश्वामित्र महामुनिः १५८
मनुर्दक्षो वसिष्ठोऽथ पुलस्त्यः पुलहः क्रतुः
नारदो भृगुरात्रेयो भारद्वाजोऽङ्गिरा मुनिः १५९
वाल्मीकिः कौशिकः कण्वः जाबाल्योऽथ पुनर्वसुः
शालङ्कायन इत्याद्या ऋषयोऽथ महाबलाः १६०
शिवाध्यानार्चने युक्ताः शान्तिं कुर्वन्तु मे सदा
सिद्धाः समृद्धतपसो गन्धर्वाप्सरोगणाः १६२
विद्याधरा महात्मानो गरुडश्च महर्द्धिकः
महेश्वरपरा नित्यं महेश्वरपदार्चकाः १६३
सिद्धिमाशु प्रयच्छन्तु शिवधर्मपरायणाः
नमुचिर्नाम दैत्येन्द्रः शङ्कुकर्णो महाबलः १६४
तारकोऽग्निमुखो दैत्यः कालनेमिर्बलिस्तथा
एते दैत्या महात्मानः शिवसद्भावभाविताः १६५
पुष्टिं बलं तथा वीर्यं प्रयच्छन्तु सुखोदयम्
महानादोऽथ विततः दैत्यः परमवीर्यवान् १६६
हाटकेश्वरदेवस्य नित्यं पूजापरायणः
बलं वीर्यं च मे क्षिप्रं प्रयच्छतु महर्धिकः १६७
महाजम्भो हयग्रीवः प्रह्लादो दैत्यराट् प्रभुः
वैरोचनो हिरण्याक्षः सुपर्वा च सुलोमजः १६८
मुचुकुन्दः सुकुन्दश्च दैत्यो रैवतकस्तथा
भावेन परमेणाशु यजन्तः सर्वदा शिवम् १६९
सततं च शिवात्मानं पुष्टिं कुर्वन्तु मे सदा
आरक्तेन शरीरेण रक्तान्तायतलोचनः १७०
महाभोगाकृताटोपः शङ्खाब्जकृतलाञ्छनः
अनन्तो नाम नागेन्द्रः शिवपूजारतः सदा १७१
महापापविषं हत्वा क्षेमारोग्यं करोतु मे
सुश्वेतेन तु देहेन सुश्वेतोत्पलशेखरः १७२
चारुभोगकृताटोपो हारचारुविभूषणः
वासुकिर्नाम नागेन्द्रः शिवपूजापरो महान् १७३
सर्वपापविषं हत्वा क्षेमारोग्यं करोतु मे
अतिपीतेन देहेन प्रस्फुरद्भोगसम्पदा १७४
तेजसा चातिसप्तेन कृतस्वस्तिकलाञ्छनः
नागराट् तक्षकः श्रीमान् नागकोटिसमन्वितः १७५
करोतु मे महाशान्तिं सर्वदोषविषापहः
अतिकृष्णेन देहेन स्फुरद्विकटमस्तकः १७६
कण्ठे रेखात्रयोपेतो घोरदंष्ट्रायुधोद्यतः
कालकूटो महानागो विषदर्पसमन्वितः १७७
विषशस्त्राग्निसन्तापं हत्वा शान्तिं करोतु मे
पद्मवर्णेन देहेन चारुपद्मायतेक्षणः १७८
पञ्चबिन्दुकृताभासो ग्रीवायाः शुभलक्षणः
ख्यातः पद्ममहानागो हरपादार्चने रतः १७९
करोतु मे महाशान्तिं महापापविषक्षयम्
पुण्डरीकनिभेनाऽपि देहेनामिततेजसा १८०
शङ्खशूलाब्जरुचिरैः भूषितो मूर्ध्नि बिन्दुभिः
महापद्मो महानागो नित्यं पशुपतौ रतः १८१
विनिहत्य विषं घोरं शान्तिमाशु करोतु मे
श्यामेन देहभारेण श्रीमत्कमललोचनः १८२
विषदर्पबलोन्मत्तो ग्रीवायामेकरेखया
शङ्खपालः श्रिया दीप्तः शिवपादाब्जपूजकः १८३
महाघोरविषं हत्वा करोतु मम शान्तिकम्
अतिगौरेण देहेन चन्द्रार्धकृतमस्तकः १८४
दीप्तभोगकृताटोपः शुभलक्षणलक्षितः
गुलिको नागराजेन्द्रो नित्यं हरपरायणः १८५
अपहत्य विषं घोरं करोतु मम शान्तिकम्
अन्तरिक्षे च ये नागा ये नागाः स्वर्गे संस्थिताः १८६
गिरिकन्दरदुर्गेषु ये नागा भूमिसंस्थिताः
पाताले ये स्थिता नागाः सर्वेऽप्यत्र समाहिताः १८७
रुद्रपादार्चने युक्ताः शान्तिं कुर्वन्तु मे सदा
नागिन्यो नागकन्याश्च तथा नागकुमारिकाः १८८
शिवभक्ताः सुमनसः शान्तिं कुर्वन्तु मे सदा
य इदं नागसंस्थानं कीर्तयेच्छृणुयादपि १८९
न तस्य नागाहिंसन्ति विषं नाक्रमते सदा
चिन्तितं सिध्यते नित्यं तथा पापपरिक्षयः १९०
सिद्धिमाशु प्रयच्छन्ति सर्वविघ्नविवर्जिताः
गङ्गा पुण्या महादेवी यमुना नर्मदा तथा १९१
गोमती चापि कावेरी कौशिका च सरस्वती
ताम्रपर्णी च सरयूः वरुणादेविका तथा १९२
सर्वभूतपतिं देवं परमेशं महेश्वरम्
पूजयन्त्यो महानद्यः शिवसद्भावभाविताः १९३
शान्तिं कुर्वन्तु मे नित्यं तथा पापपरिक्षयम्
सिद्धिमाशु प्रयच्छन्तु सर्वविघ्नविनाशनम् १९४
चन्द्रभागा महापुण्या नदी गोदावरी शुभा
सरयूर्गण्डकी श्रेष्ठा कौशिकी च सरस्वती १९५
एता नद्यो महापुण्याः शिवपादार्चने रताः
शान्तिं कुर्वन्तु मे नित्यं शिवध्यानैकमानसाः १९६
नैरञ्जना नाम नदी शोणश्चापि महानदः
मन्दाकिनी च परमा तथा सन्निहिता शुभा १९७
एताश्चान्यश्च बह्योपभूमिदिव्यन्तरिक्षगाः
रुद्रार्चनपरा नद्यः कुर्वन्तु मम शान्तिकम् १९८
गुह्यानि यानि तीर्थानि आसमुद्रात्सरांसि च
कुर्वन्तु शान्तिकं तानि श्रीकण्ठाधिष्ठितानि तु १९९
महान्वैश्रवणो देवः यक्षराजो महर्धिकः
यक्षकोटिपरीवारो यक्षासङ्ख्येन संयुतः २००
महाविभवसम्पन्नो हरपादार्चने रतः
शान्तिं करोतु मे प्रीतः पद्मपत्रायतेक्षणः २०१
माणिभद्रो महायक्षो मणिरत्नविभूषितः
मनोहरेण हारेण कण्ठलग्नेन राजते २०२
शिवध्यानरतो नित्यं शिवपादाब्जपूजकः
शान्तिं करोतु मे नित्यं सर्वदोषनिवारणम् २०३
यक्षिणी यक्षकन्याभिः परिवारितविग्रहः
रुद्रार्चनपरोभक्तः करोतु मम शान्तिकम् २०४
सुवीरो नाम यक्षेन्द्रो मणिकुण्डलभूषणः
ललाटे हेमपट्टेन शोभनेव विराजितः २०५
बहुयक्षसमाकीर्णो यक्षैर्नमितविग्रहः
शिवः परापरो नित्यं करोतु मम शान्तिकम् २०६
वञ्चिको नाम यक्षेन्द्रः कर्णिकाकटकोज्वलः
मुकुटेन विचित्रेण केयूराभ्यां विराजितः २०७
यक्षासङ्ख्येन संयुक्तो यक्षकोटिसमन्वितः
हरार्चनरतो नित्यं करोतु मम शान्तिकम् २०८
श्रीमान्विभण्डको यक्षो नानारत्नविभूषितः
चारुणा कुण्डलेन्द्रेण कर्णे नित्यं विराजितः २०९
यक्षो यक्षपतिर्देवो यक्षसेनापतिर्बुधः
हरपादार्चनरतः करोतु मम शान्तिकम् २१०
धृतराष्ट्रो महातेजाः यक्षो यक्षाधिपः प्रभुः
दिव्यपट्टांशुकच्छन्नो मणिकाञ्चनभूषितः २११
शिवभक्तः शिवध्याता शिवपूजापरायणः
शिवप्रसादसम्पन्नः करोतु मम शान्तिकम् २१२
पूर्णभद्रो महायक्षः सर्वालङ्कारभूषितः
रत्नदीप्तेन पट्टेन हैमेनातीवराजिते २१३
यक्षकोटिसहस्रेण परिवारितविग्रहः
संयतो रुद्रप्रणतो रुद्रभक्तः पुनः पुनः २१४
रुद्रार्चनसमुद्युक्तः करोतु मम शान्तिकम्
विरूपाक्षश्च यक्षेन्द्रः श्वेतवासा महाद्युतिः २१५
चारुकाञ्चनमालाभिः किङ्किणीरवकान्विते
विभूषितस्सदाकालं वरदानैकतत्परः २१६
रुद्रपूजापरो नित्यं करोतु मम शान्तिकम्
अन्तरिक्षगता यक्षा ये यक्षाः स्वर्गसंस्थिताः २१७
गिरिकन्दरदुर्गेषु यक्षाः पातालवासिनः
नानारूपयुता यक्षाः शिवभक्ता दृढव्रताः २१८
योगैश्वर्ययुताः सर्वे शिवपूजा समुत्सुकाः
शान्तिं कुर्वन्तु मे नित्यं शान्ताः शान्तेन चेतसा २१९
यक्षिण्यो विविधाकाराः तथा यक्षकुमारिकाः
यक्षकन्या महाभागाः शिवार्चनपरायणाः २२०
शान्तिं स्वस्त्ययनं क्षेमं बलं कल्याणमुत्तमम्
सिद्धिमाशु प्रयच्छन्तु नित्यमेव समाहिताः २२१
पर्वताः सर्वतः सर्वे पर्वत्यश्च महर्धिकाः
शिवभक्ता सदाकालं क्षेमं कुर्वन्तु मे सदा २२२
समुद्राः सर्वतः सर्वे ये चान्ये सागरा भुवि
रुद्रार्चनपरानित्यं कुर्वन्तु मम शान्तिकम् २२३
राक्षसाः सर्वतः सर्वे राक्षसा घोररूपिणः
राक्षसा ये महावीर्या राक्षसाश्च महाबलाः २२४
स्वर्गं जलस्था नागयक्षा ये तु येऽन्तरिक्षे तु राक्षसाः
पाताले राक्षसा ये तु नित्यं रुद्रार्चने रताः २२५
शान्तिं कुर्वन्तु मे नित्यं सततं शिवभाविताः
भैरवं यस्य रूपं तु प्रेतभस्मावगुण्ठितम् २२६
तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा
नित्यमुज्ज्वलवेषेण योगिन्योऽथ महाबलाः २२७
अनेकरूपधारिण्य डाकिन्यश्च महर्धिकाः
रुद्रप्रणामपरमा रुद्रपूजारताः सदा २२८
रुद्रैकाहितचेतस्काः शान्तिं कुर्वन्तु मे सदा
अन्तरिक्षगतायाश्च डाकिन्यः स्वर्गसंस्थिताः २२९
पाताले भूतले याश्च गिरिदुर्गेषु याः स्थिताः
तृतीयं लोचनं यस्य त्रिशूलं भस्मभासुरम् २३०
तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा
ये पिशाचा महावीर्याः ये पिशाचा महर्धिकाः २३१
ये पिशाचा महात्मानः पिशाचाः कामरूपिणः
अन्तरिक्षे पिशाचा ये स्वर्गे ये च पिशाचकाः २३२
भूतले ये पिशाचाश्च पातालतलवासिनः
नानारूपधराः सर्वे सर्वे च गुणवत्तराः २३३
चन्द्रार्धं मस्तके यस्य भस्म यस्य विभूषणम्
तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा २३४
सर्वे भूता महारूपाः सर्वे भूता महोज्वलाः
अन्तरिक्षे च ये भूता ये भूता दिवि संस्थिताः २३५
पाताले भूतले ये तु भूता भूतिविधायिनः
खट्वाङ्गं यस्य विमलं त्रिशूलं करपल्लवे २३६
तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा
प्रेताः प्रेतगणाः सर्वे ये प्रेताः सर्वतोमुखाः २३७
अतिदीप्ताश्च ये प्रेता ये प्रेता रुधिराशनाः
अन्तरिक्षे तु ये प्रेता ये प्रेताः स्वर्गवासिनः २३८
पातले भूतले प्रेता ये प्रेताः कामरूपिणः
श्मशाननिलयो यस्य वृषभो यस्य वाहनम् २३९
तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा
अपस्मारा ग्रहाः सर्वे सर्वे चापि ज्वरग्रहाः २४०
गर्भबालग्रहा ये तु नानारोगग्रहाश्च ये
अन्तरिक्षे ग्रहा ये तु ये च स्वर्गे ग्रहोत्तमाः २४१
भूपाताले ग्रहा ये च ये ग्रहाः सर्वतोदिशि
कण्ठे यस्य महानीलभूषणं यस्य पन्नगाः २४२
तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा
इति देवादयः सर्वे शिवध्यानविधायिनः २४३
कुर्वन्तु शान्तिं जगतः शिवभक्तेषु सर्वदा
इत्युक्त्वा देवदेवस्य सन्निधौ च कृताञ्जलिः २४४
शिवध्यानपरो भूत्वा भक्त्या स्तोत्रमुदैरयत्
जयात्मयोगसंस्थाय जय संशुद्धचेतसे २४५
जय दानैकशूराय जयेशाय नमोऽस्तु ते
जयोत्तमाय देवाय जय कल्याणदायिने २४६
जय प्रकटदेवाय जय जप्याय ते नमः
जय लक्ष्मीविधानाय जय कान्तिविधायिने २४७
जय वाक्यविशुद्धाय अजिताय नमो नमः
जय त्रिशूलहस्ताय जय खट्वाङ्गधारिणे २४८
जय निर्मितलोकाय जय रूपाय ते नमः
जय कान्तार्धदेहाय जय चन्द्रार्धधारिणे २४९
जय देवादिदेवाय महादेवाय ते नमः
जय त्रिभुवनेशाय जय विख्यातकीर्तये २५०
जयाधाराय देवाय जय कर्त्रे नमोस्तु ते
जय निर्मल देहाय जय सर्वार्थकारिणे २५१
जय मन्मथनाशाय ईशानाय नमो नमः
ब्रह्मविष्ण्विन्द्ररूपाय जय शान्ताय ते नमः २५२
जय जातविशुद्धाय सर्वव्यापिन्नमोऽस्तु ते
इत्येतच्छान्तिकाऽध्यायं यः पठेच्छृणुयादपि २५३
विधूयसर्वपापानि शिवलोके महीयते
कन्यार्थी लभते कन्यां जयकामो जयं लभेत् २५४
अर्थकामो लभेदर्थं पुत्रकामो बहून्सुतान्
विद्यार्थी लभते विद्यां योगार्थी योगमाप्नुयात् २५५
गर्भिणी लभते पुत्रं कन्या विन्दति सत्पतिम्
यान्यान्कामयते कामान्मानवः श्रवणादिह २५६
तान्सर्वान्शीघ्रमाप्नोति देवानां च प्रियो भवेत्
श्रुत्वाऽध्यायमिदं पुण्यं सङ्ग्रामं प्रविशेन्नृपः २५७
विनिर्जित्याशु तान्शत्रून् कल्याणैः परिपूर्यते
अक्षयं मोदतेऽकालं अतिरस्कृतशासनः २५८
व्याधिभिर्नाभिभूयेत पुत्रपौत्रैः प्रतिष्ठितः
पठ्यमानमिदं पुण्यं यमुद्दिश्य पठेन्नरः २५९
तस्य रोगा न बाधन्ते वातपित्तादि सम्भवाः
नाकाले मरणं तस्य न सर्पैश्चापि दंश्यते २६०
न विषं क्रमते देहे न जलान्धत्वमूकतः
नहि सर्पभयं तस्य न चोत्पातभयं तथा २६१
नाभिचारकृतैर्दोषैः लिप्यते स कदाचन
यत्पुण्यं सर्वतीर्थानां गङ्गादीनां विशेषतः २६२
तत्पुण्यं कोटिगुणितं प्राप्नोति श्रवणादिह
दशानां राजसूयानां अग्निष्टोमशतस्य च २६३
श्रवणात्फलमाप्नोति कोटिकोटिगुणोत्तरम्
अवध्यः सर्वदेवानां अन्येषां च विशेषतः २६४
जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः
गोघ्नश्चैव कृतघ्नश्च ब्रह्महा गुरुतल्पगः २६५
शरणागतघाती च मित्रविश्रम्भघातकः
दुष्टः पापसमाचारः पितृहा मातृहा तथा २६६
श्रवणादस्य भावेन मुच्यते सर्वपातकैः
शान्त्यध्यायमिदं पुण्यं न देयं यस्य कस्यचित् २६७
शिवभक्ते सदा देयं शिवेन कथितं पुरा
नित्यं खचितचित्तः स्याच्छक्तिव्याघातवर्जितः २६८
सर्वकाम समृद्धस्तु यः पठेत दिने दिने
इति शिवधर्मपुराणे शान्त्यध्यायः षष्ठः

अथ सप्तमोऽध्यायः
ये स्मरन्ति सदाकालं ईशानं पूजयन्ति च
रुद्रलोकात्परिभ्रष्टा विज्ञेयास्ते गणेश्वराः १
अग्निहोत्राश्च वेदाश्च यज्ञाश्च बहुदक्षिणाः
शिवलिङ्गार्चनस्यैते कोट्यंशेनाऽपि नो समाः २
सदा यजति यज्ञेन सदा दानं प्रयच्छति
सदा स वायुभक्ष्यः स्याद्यस्सदार्चयते शिवम् ३
यः शिवं पूजयेन्नित्यं प्रणयेद्वापि भक्तितः
तस्य योगं च मोक्षं च शिवः प्रीतः प्रयच्छति ४
यः कुर्यादर्चनं मासं एकाहारो जितेन्द्रियः
स च यत्फलमाप्नोति न तत्सर्वैर्महामखैः ५
पौर्णमास्यामवास्यां चतुर्दश्यष्टमीषु च
स्नापयित्वाम्भसा लिङ्गं सर्वयज्ञफलं लभेत् ६
कृष्णपक्षे त्रयोदश्यां उपोष्य परमेश्वरे
प्रातर्मध्याह्नपूजां च चतुर्दश्यां समारभेत् ७
पञ्चगव्यं सकृत्पीत्वा हविर्भुञ्जीत वाग्यतः
दशानामश्वमेधानां फलं प्राप्नोति मानवः ८
उपोष्य कृष्णाष्टम्यां च योऽर्चयित्वा तु शङ्करम्
प्राप्नोति परं स्थानं यत्र देवो महेश्वरः ९
ब्रह्मचारी शुचिर्भूत्वा त्रिसंध्यं योऽर्चयेच्छिवम्
त्रिसप्तकुलमुद्धृत्य शिवलोके महीयते १०
दानोपवासनियमैः पूजाजागरभोजनैः
महास्नानादिविधिना शिवं पर्वसु पूजयेत् ११
यावच्च सर्वकालेषु यावदर्चयते शिवम्
तावत्कालार्चनात्पुण्यं यत्तत्पर्वार्चनं लभेत् १२
तस्मात्पर्वसु यत्नेन यथा विभव विस्तरैः
पूजनीयः शिवो नित्यं महापुण्यजिघृक्षया १३
नैरन्तर्येण षण्मासं विधिनां पूज्य शङ्करम्
पुण्यं तदैव सकलं लभते विषुवार्चनात् १४
एवमेव फलं ज्ञेयं ग्रहणायनयोरपि
सङ्क्रान्तौ च दिनच्छिद्रे षडशीतिमुखे च १५
मासैश्चतुर्भिर्यत्पुण्यं विधिना पूज्य शङ्करम्
तत्कार्तिक्यां भवेत्पुण्यं पौर्णमास्यां शिवार्चनात् १६
पुण्यं तदेव फल्गुन्यां आषाढ्यां च तथैव च
चातुर्मास्यार्चनादेतन् महापुण्य फलप्रदम् १७
माघमासे समुद्युक्तः त्रिसन्ध्यं योऽर्चयेच्छिवम्
लभेत् षाण्मासिकं पुण्यं मासेनैव न संशयः १८
यथा माघे तथाषाढे मासे चैव तु कार्तिके
त्रिषु पुण्यं समुज्ज्ञेयं मासेष्वेतेषु यत्कृतम् १९
चातुर्मास्यकृतं पुण्यं पुण्यमासार्चनाल्लभेत्
चैत्रफल्गुनयोः पुण्यं द्विमासजनितं भवेत् २०
चतुर्दश्याममावास्यां पौर्णमास्यां च पाक्षिकम्
पुण्यमष्टगुणं ज्ञेयं अष्टम्यां योऽर्चयेच्छिवम् २१
यः प्रदद्याद्गवां लक्षं दोग्ध्रीणां वेदपारगे
एकाहमर्चयेल्लिङ्गं तस्य पुण्यं ततोऽधिकम् २२
मासे मासे तु योश्नीयात् यावज्जीवं सकृन्नरः
यश्चार्चयेत्सकृल्लिङ्गं सममेतन्न संशयः २३
एतेन क्रमयोगेन फलवृद्धिर्दिने दिने
ज्ञेया संवत्सरस्यापि यावद्वा कालमर्चयेत् २४
यः पुनः सङ्गमुत्सृज्य शिवमब्दं प्रपूजयेत्
नैरन्तर्याच्छतगुणं तस्य पुण्यं विवर्धते २५
पञ्चाशद्गुणितं पुण्यं अब्दार्धं योऽर्चयेच्छिवम्
ऋतावृतौ तदर्धं स्यात् मासे मासे तदर्धकम् २६
मासार्धमपि यो लिङ्गं नैरन्तर्येण पूजयेत्
पुरुषोत्तमः स विज्ञेयः नैरन्तर्यं हि दुष्करम् २७
प्रातरुत्थाय यो लिङ्गं भक्त्या पूजयते सकृत्
कपिलानां शतं दत्वा यत्पुण्यं तदवाप्नुयात् २८
मध्यं दिनगते सूर्ये शिवं यः प्रतिपूजयेत्
सम्पूर्णां पृथिवीं दत्वा यत्फलं तदवाप्नुयात् २९
वारुणीमाश्रिते सूर्ये यः शिवं सम्यगर्चयेत्
गवां शतसहस्रस्य तत्तस्य फलमाप्नुयात् ३०
यो लिङ्गमर्धरात्रे तु शुचिर्भूत्वा प्रपूजयेत्
सम्यगिष्टं शतं तेन जज्ञानां धर्मतो भवेत् ३१
एवं सर्वासु वेलासु अवेलास्वपि शङ्करम्
सम्पूजयेन्नरो भक्त्या सर्वान्कामानवाप्नुयात् ३२
शिवलिङ्गं महापुण्यं सर्वदेव नमस्कृतम्
यः स्पृशेदपि पाणिभ्यां न स पापैः प्रलिप्यते ३३
मेरुमन्दरमात्रोऽपि राशिः पापस्य कर्मणः
ईश्वरं वैद्यमासाद्य नश्यते दुष्टरोगवत् ३४
न ते भूयः प्रयास्यन्ति योनिमार्गं सुसङ्कटम्
काञ्चनं मेरुमात्रं च सर्वान्दत्वा वसुन्धराम् ३५
क्रमान्मोक्षं गमिष्यन्ति ये नरा लिङ्गमाश्रिताः
शिवार्चनरतो नित्यं महापातक सम्भवैः ३६
दोषैः कृतैर्नलिप्येत पद्मपत्रमिवाम्भसा
छित्वा हित्वा च भूतानि हत्वा सर्वमिदं जगत् ३७
यजेदेकं विरूपाक्षं न स पापैः प्रलिप्यते
सर्वावस्था गतो वापि युक्तो वा सर्वपातकैः ३८
शिवमिष्ट्वा नरः सोऽपि प्रयाति परमं पदम्
सरित्समुद्रतीरेषु वनेषूपवनेषु च ३९
गिरिशृङ्गेषु तुङ्गेषु गह्वरोपवनेषु च
पुष्करिण्यां तटाकेषु तीर्थायत संश्रये ४०
यत्र वा रमते बुद्धिः तत्रैव शिवमर्चयेत्
सर्वयज्ञेषु यत्पुण्यं तल्लभेन्नात्र संशयः ४१
यः पुनः स्थान सङ्कल्प्यं उत्सृज्य शिवमर्चयेत्
सोश्वमेधफलं सर्वं लभते नात्र संशयः ४२
यस्तु सर्वत्र सम्पूज्य सविशेषं सविस्तरम्
अश्वमेधायुतं पुण्यं लभते नात्र संशयः ४३
यस्तमर्चयते भक्त्या तस्य पुण्यं ततोऽधिकम्
अयं विनैव मन्त्रेण पुण्यराशिः प्रकीर्तितः ४४
स्यादयं मन्त्रसंयुक्तं पुण्यं शतगुणाधिकम्
तस्मान्मन्त्रेण शर्वाय ज्ञानगन्धप्रदाधिकम् ४५
क्षितिं गाश्चैव रत्नानि हेमाढ्यं च निवेदयेत्
ज्ञेयो नमः शिवायेति मन्त्र सर्वार्थसाधकः ४६
सर्वमात्राधिकश्चायं ओङ्काराद्यः षडक्षरः
शिवेनान्तबर्हिर्व्याप्तं सर्वमेतच्चराचरम् ४७
जगदोमिति यद्ब्रूते तस्मादोमिति संस्मृतम्
अयमर्धेन तिसृभिः मात्राभिः परिगीयते ४८
ब्रह्माहरिश्च रुद्रश्च मात्रास्तिस्रः प्रकीर्तिताः
दक्षिणाङ्गे भवो ब्रह्मा हरिर्वामाङ्ग सम्भवः ४९
हृदयान्नीलरुद्रश्च ब्रह्मविष्णु प्रबोधकः
जगत्सृष्टिकरो ब्रह्मा विष्णुर्लोकविमोहकः ५०
अनुग्रहपरो नित्यं नीलरुद्रः शिवात्मकः
त्रिभिरेतैर्जगद्व्याप्तं कारणैरात्ममूर्तिभिः ५१
तिस्रो मात्राः शिवस्यैताः सर्वलोक प्रपूजिताः
एता एव त्रयोवेदाः त्रयो लोकास्त्रयोग्नयः ५२
त्रयो गुणास्त्रिवर्गाश्च यच्चान्यज्जगति स्थितम्
अर्धमात्रापरो रुद्रः शिवः परमकारणम् ५३
तस्मादेतत्समुत्पन्नं जगतः कारणत्रयम्
सर्वयज्ञात्परः शुद्धो नमस्कारो महामखः ५४
नमस्कारात्म यज्ञेन तस्मात्सम्पूजयेच्छिवम्
अज्ञानमशिवत्वं स्यात् सर्वदुःखालयं यतः ५५
सुभावात्तदवाप्तं हि यस्माद्रुद्रः परः शिवः
नमः शिवाय शान्ताय कारणत्रय हेतवे ५६
निवेदयेन्ममात्मानं उक्त्वैवं परमेश्वरे
उक्त्वो नमः शिवायेति मुच्यते सर्वबन्धनात् ५७
यस्मात्तस्मात्सदा मन्त्रं ओङ्काराद्यमनुस्मरेत्
सर्वदा सर्वकार्येषु क्षान्तिं निष्ठीवनादिषु ५८
यान्त्यां नमः शिवायेति गिरमुक्त्वा शिवं पदम्
यः स्वपन्प्रतिबद्धश्च प्राणान्ते तु समुत्स्मरेत् ५९
तद्य नमः शिवायेति स गच्छेत्परमां गतिम्
शाठ्येनापि नमस्कारः प्रयुक्तः शूलपाणये ६०
संसारस्थूलबन्धानां उद्वेष्टनकरो भवेत्
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ६१
यः स्मरेद्देवमीशानं स बाह्याभ्यन्तरः शुचिः
स्मरणादेव रुद्रस्य पापसङ्घात पञ्जरम् ६२
शतधा भेदमायाति गिरिर्वज्रहतो यथा
सर्वेषां शिवभक्तानां अशेषार्थ प्रसिद्धये ६३
मन्त्रमाहशिवः साक्षात् अशेषार्थ निबन्धनम्
सद्बीजं सर्वविद्यानां आद्यं ब्रह्म परात्परम् ६४
सर्वार्थ साधकं मन्त्रं शिवसूत्रं षडक्षरम्
भाष्यमस्यैव रुद्रस्य सर्वज्ञानानि शम्भुना ६५
पश्चात्परापराणीय भक्तार्थं गदितानि तु
तस्मादनेन मन्त्रेण प्रकुर्वीत शिवार्चनम् ६६
सन्ध्यानां च जपेदेनं सर्वपाप विशुद्धये
गृहाच्छतगुणं पुण्यं सन्ध्यायां च शिवालये ६७
शिवदक्षिणमूर्तौ तु तत्पुण्यमयुताधिकम्
तस्माच्छिवालये जप्यं आचरेच्छान्तमानसः ६८
शिवमन्त्रेण सततं सर्वकामप्रसिद्धये
जितेन्द्रियः शान्तमनाः शिवमन्त्रेण पूजयेत् ६९
न तस्य शक्यते वक्तुं पुण्यं वर्षशतैरपि
एतावच्छक्यते वक्तुं यस्मिन्देशे वसेदयम् ७०
सोऽपि देशो भवेत्पूतः किं पुनस्तस्य बान्धवाः
यस्यायमन्नमश्नाति एतस्य परिचारकाः ७१
तेऽपीह तत्समा ज्ञेयाः तैर्विना न शिवार्चनम्
तत्र देशे न दुर्भिक्षं न च मारी प्रवर्तते ७२
नाकाले म्रियते राजा पूज्यते यत्र शङ्करः
दीक्षित्तस्सूत्र मन्त्रज्ञो योर्चयेत सदाशिवम् ७३
स यत्फलमवाप्नोति तदेकाग्रमनाः शृणु
सर्ववेदेषु यत्प्रोक्तं सर्वयज्ञेषु यत्फलम् ७४
तत्फलं कोटिगुणितं स लभेन्नात्र संशयः
यः शिवं पूजयेन्नित्यं अन्त्यजोऽथ जितेन्द्रियम् ७५
भवभावसमायुक्तः सोऽपि गच्छेत्परां गतिम्
नोपनीतसहस्रेभ्यो ब्रह्मचारी विशिष्यते ७६
ब्रह्मचारि सहस्रेभ्यो गृहस्थो हि विशिष्यते
गृहसंस्थ सहस्रेभ्यो ह्यग्निहोत्री विशिष्यते ७७
अग्निहोत्रि सहस्रेभ्यः सत्रयाजी विशिष्यते
सत्रयाजिसहस्रेभ्यः सर्वविद्यार्थपारगः ७८
सर्वविद्यार्थवित्कोट्या शिवभक्तो विशिष्यते
तस्मादेवं शिवं भक्त्या पूजयेच्छान्तमानसः ७९
शिवभक्तो जितक्रोधः शिवज्ञानपरायणः
मैत्रीकारुणिकोपेतः प्राप्नोति परमं पदम् ८०
क्षणार्धेनापि यत्पुण्यं कुर्यान्मैत्री सुभावितः
न तद्वर्षशते नाऽपि तपो यज्ञशतैरपि ८१
सर्वप्राणिषु कारुण्यं दीनानाथेषु भावयेत्
सुख प्राणिषु मैत्री स्यान्मुदिताः पुण्यशीलिषु ८२
अपुण्यवत्सु चोपेक्षां सर्वेषां च वदेच्छिवम्
इत्येवं पञ्चधा चित्तं भावयित्वा यजेच्छिवम् ८३
सम्पूज्य पशुभर्तारं प्रहृष्टेनान्तरात्मना
ध्यानं कुर्याद्ययोद्दिष्टं सर्वपाप निकृन्तनम् ८४
इष्ट्वा तु परया भक्त्या भगवन्तं महेश्वरम्
कृताञ्जलिपुटो भूत्वा भगवन्तं महेश्वरम् ८५
कृताञ्जलिपुटो भूत्वा स्तोत्रमेतदुदीरयेत्
स्तुताय स्तुतिरूपाय स्तूयमानाय सर्वदा ८६
स्तुति हेतु निधानाय नमस्त्रिनयनाय ते
देवाय देवदेवाय सर्वदेवैकहेतवे ८७
देवानामपि देवाय नमो देवतमाय ते
नमस्ते ज्ञानरूपाय ज्ञानज्ञानैकहेतवे ८८
ज्ञानविज्ञानशुद्धा नित्यं ज्ञानतमाय ते
सूक्ष्माय सूक्ष्मरूपाय सूक्ष्मज्ञानैक हेतवे ८९
सूक्ष्माणामपि सूक्ष्माय नमः सूक्ष्मतमाय ते
दिव्याय दिव्यरूपाय परमार्थैक हेतवे ९०
परापर विमुक्ताय नमः परतमाय ते
पूज्याय पूज्यरूपाय सर्वपूज्यैकहेतवे ९१
पूज्यानामपि पूज्याय नमः पूज्यतमाय ते
नित्याय नित्यरूपाय सर्व नित्यैक हेतवे ९२
दीप्तानामपि दीप्ताय सर्व नित्यैक हेतवे
नित्यानापि नित्याय नमो नित्यतमाय ते ९३
दीप्ताय दीप्तरूपाय सर्वदीप्त्यैक हेतवे
दीप्तानामपि दीप्ताय नमो दीप्ततमाय ते ९४
साराय सारसाराय सर्वसारैक हेतवे
साराणामपि साराय नमः सारतमाय ते ९५
शक्ताय शक्तिरूपाय सर्वशक्त्यैक हेतवे
शक्तानामपि शक्ताय नमः शाक्ततमाय ते ९६
शुद्धाय शुद्धरूपाय सर्वशुध्यैक हेतवे
शुद्धानामपि शुद्धाय नमः शुद्धतमाय ते ९७
सर्वमन्त्रशरीराय सर्वमन्त्रैक हेतवे
मन्त्राणामपि मन्त्राय नमो मन्त्रतमाय ते ९८
व्योम प्रमाण रूपाय ईशानाय नमो नमः
व्योम प्रमाण रूपाय पुरुषाय नमो नमः ९९
व्योम प्रमाणाकारा अघोराय नमो नमः
व्योम प्रमाण रूपाय व्योमेशाय नमो नमः १००
व्योम प्रमाण सद्याय सद्येशाय नमो नमः
व्योम प्रमाण विद्याय विद्येशाय नमो नमः १०१
व्योम प्रमाण मोक्षाय मोक्षेशाय नमो नमः
व्योम प्रमाण विश्वाय विश्वेशाय नमो नमः १०२
व्योम प्रमाण देहाय बहुदेहाय ते नमः
देहासङ्ख्येय युक्ताय विश्वेशाय नमो नमः १०३
एककालद्विकालाय बहुकालाय ते नमः
कालासङ्ख्येन युक्ताय कालकालाय ते नमः १०४
एकजिह्वद्विजिह्वाय बहुजिह्वाय ते नमः
जिह्वाय जिह्वासंस्थाय त्रिनेत्राय नमो नमः १०५
एककर्णद्विकर्णाय बहुकर्णाय ते नमः
कर्णासङ्ख्येययुक्ताय शङ्कराय नमो नमः १०६
एकनासद्विनासाय बहुनासाय ते नमः
नासासङ्ख्येययुक्ताय रुद्ररूपाय नमो नमः १०७
एकदंष्ट्रद्विदंष्ट्राय बहुदंष्ट्राय ते नमः
दंष्ट्रासङ्ख्येययुक्ताय महेशाय नमो नमः १०८
एकनेत्रद्विनेत्राय बहुनेत्राय ते नमः
नेत्रासङ्ख्येययुक्ताय ईशानाय नमो नमः १०९
एकवक्त्रद्विवक्त्राय बहुवक्त्राय ते नमः
वक्त्रासङ्ख्येययुक्ताय परमेशाय ते नमः ११०
एकहस्तद्विहस्ताय बहुहस्ताय ते नमः
हस्तासङ्ख्येययुक्ताय शङ्कराय नमो नमः १११
एकशस्त्रद्विशस्त्राय बहुशस्त्राय ते नमः
शस्त्रासङ्ख्येययुक्ताय ईशानाय नमो नमः ११२
एकपादद्विपादाय बहुपादाय ते नमः
पादासङ्ख्येययुक्ताय महादेव नमोऽस्तु ते ११३
नमस्तेऽस्तु महायोगिन्! नमस्तेऽस्तु महाबल !
नमस्तेऽस्तु महेशान ! नमस्तेऽस्तु महोत्तम ! ११४
नमस्तेऽस्तु महारूप! नमस्तेऽस्तु सदाशिव!
नमस्तेऽस्तु सदाशुद्ध! आर्तिहर नमो नमः ११५
सर्वात्मने नमस्तुभ्यं नमस्तेऽस्तु सदाभव!
नमस्ते भगवन्छान्त! नमस्ते भगवन्ध्रुव! ११६
नमस्ते भगवन्दीप्त! नमस्ते भगवन्हर!
अजिताय नमस्तुभ्यं भस्माङ्गाय नमो नमः ११७
सर्वज्ञाय नमस्तुभ्यं शाश्वताय नमोऽस्तु ते
सम्पूज्याय नमस्तुभ्यं वरदाय नमोऽस्तु ते ११८
अनन्ताय नमस्तुभ्यं सर्वगाय नमोऽस्तु ते
य इमं प्रातरुत्थाय शुचिर्भूत्वा पठेन्नरः
विधूय सर्वपापानि रुद्रलोकं स गच्छति ११९
भोगार्थी लभते भोगान् राज्यार्थी राज्यमाप्नुयात्
कन्यार्थी लभते कन्यां योगार्थी योगमाप्नुयात् १२०
एवं स्तुतो महादेवो रुद्रजाप्येन चक्रिणा
बन्धनान्मुच्यते बद्धो यशोर्थी लभते यशः १२१
यान्यांश्चिन्तयते कामान् तान्स्तान्प्राप्नोति भावितः
शैवं पदमवाप्नोति शम्भुः स्वयं वचनब्रवीत् १२२
इति शिवधर्मपुराणे पूजाधर्म शिवमन्त्रं नाम सप्तमोऽध्यायः ७

अथ अष्टमोऽध्यायः
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च
लीयन्ते तानि लिङ्गे तु तस्माल्लिङ्गगुरतरतरम् १
श्रौतस्मार्तस्मृतिपारगः यज्ञैश्च दीक्षितः
यः पूजयेन्महालिङ्ग पुण्यं सर्वार्थसिद्धिदम् २
शतेन स्थापितं लिङ्गं सहस्रेण तु चालयेत्
सुस्थितं दुःस्थितं वाऽपि शिवलिङ्गं न चालयेत् ३
घृताभिषेकं यः कुर्याद् अहोरात्रं शिवस्य तु
पुष्यमासे समुद्युक्तो नियतं श्लक्ष्णधारया ४
गीतनृत्तोपहारेण शङ्खवादित्रनिःस्वनैः
कुर्याज्जागरणं तत्र प्रदीपाद्युपशोभिते ५
समस्तपापनिर्मुक्तः समस्तकुलसंयुतः
समस्तकाम सम्पूर्णः समस्तगुणसंयुतः ६
ज्वलद्भिः स महायानैः असङ्ख्येयैरनूपमैः
युक्तः शिवपुरे नित्यं मोदते शिववत्सुखी ७
ग्रहणे विषुवे चैव पुण्येषु दिवसेषु च
घृताभिषेकं यः कुर्यान् महापुण्यमवाप्नुयात् ८
घृताभिषेकं यः पश्येत् आसमाप्तेरुपोषितः
विधूय सर्वपापानि शिवलोके महीयते ९
एकः पूजयते भक्त्या भक्त्या चान्यः प्रशस्यति
तुल्यमेवफलं ताभ्यां भक्तिरेवाऽत्र कारणम् १०
यः कुर्यात्पर्वकालेषु महापूजा प्रवर्तनम्
शिवस्य रथयात्रां वा नगरान्तः परिभ्रमात् ११
महाचित्रैः ध्वजैश्चित्रैः किङ्किणीरवकान्वितैः
वितानध्वजमालाभिः घण्टाचामरदर्पणैः १२
शङ्खभेर्यादिनिर्घोषैः गीतनाटकादिसंयुतैः
लेख्यदारुमयैर्यन्त्रैः मातृयक्षगणादिभिः १३
उदकान्तोयययन्त्रैश्च वह्वाश्चर्यैरनेकशः
स्त्रीडोलाश्चक्रयन्त्रैश्च रथमन्दिरशोभितैः १४
दध्यन्नपानरवानाद्यैः महासत्र समायुतैः
महाजनसमाकीर्णं यथा विभव विस्तरम् १५
सर्वदानानि पुण्यानि सर्वयज्ञफलानि च
अत्युग्रतपसां पुण्यं सर्वतीर्थफलानि च १६
लब्धा नरवरः श्रीमान् शिवयात्रा प्रवर्तनैः
शिवलोके महाभोगैः शिववन्मोदते सदा १७
तस्यान्ते देवराजत्वं सुचिरं कालमाप्नुयात्
जम्बूद्वीपाधिपः श्रीमान् तस्यान्ते च भवेत्पुनः १८
आलिङ्गं वेदिपर्यन्तं वादित्राद्धृतकम्बलम्
घृतधाराफलं तस्य माघे पौर्णिम पर्वणि १९
जागरं गीतनृत्ताद्यैः सकृत्कृत्वा तु पर्वणि
मन्वन्तरशतं साग्रं शिवलोके महीयते २०
छत्राभिरामनाट्याद्यं शिवस्यायतनाग्रतः
सम्यक् प्रेक्षणकं दत्वा रुद्रलोके महीयते २१
स्वरूपः सुभगः श्रीमान् परिहृष्टोऽत्र जायते
सप्तद्वीपसमुद्रायाः क्षितेरधिपतिर्भवेत् २२
रूपं पिष्टमयं कृत्वा त्रिनेत्रं रत्नभूषितम्
शुक्लोपवीतसंयुक्तं एकपादं विशेषतः २३
दन्तेषु मौक्तिकं तस्य प्रवालं च तथोष्ठयोः
दद्याद्वज्रं च नेत्राभ्यां वैडूर्यं वाप्य सम्भवे २४
हेमरूप्यं च हस्ताभ्यां ताम्रं पादे च विन्यसेत्
अण्डजैः वोण्डजैर्वस्त्रैः विविधैः परिवेष्टयेत् २५
सुभगैर्दिव्यगन्धैश्च पुष्पैश्चापि विभूषयेत्
विविधर्भक्ष्यभोज्याद्यैः बलिं तत्र प्रकल्पयेत् २६
भोजयेच्छिवभक्तांश्च विप्राञ्च्छक्त्या प्रतर्पयेत्
प्रीयतां मे शिवो नित्यमुक्त्वा चोत्थापयेद्विजान् २७
तैरेव सार्धं विप्रेन्द्रैः तद्रूपं तु शिवालये
भत्या समर्पयेद्वेद्यां शिवलिङ्ग समीपतः २८
सर्वयज्ञफलं प्राप्य सर्वदान फलानि च
स्वरूप स्वरूप दानेन शिवलोके महीयते २९
भोजनं घृत सम्पूर्णं मधुनोपरिशोभितम्
दद्यात्कृष्णतिलानां च प्रस्थमेकं तु मागधम् ३०
द्विगुणं तण्डुलानां तु पृथक् प्रस्थं प्रकल्पयेत्
अण्डजैः वौण्डजैर्वस्त्रैः विचित्रैः परिवेष्टियेत् ३१
एवं संवेष्ट्य वस्त्राभ्यां बलिमेवं निवेदयेत्
अर्चयित्वा विधानेन पौर्णमास्यां विशेषतः ३२
युगकोटिसहस्राणि शिवलोके महीयते
पुण्यक्षयादिहागत्य समृद्धे जायते कुले ३३
मेधावी सुभगः श्रीमान् वेदवेदाङ्गपारगः
ताम्रपात्रं पयः पूर्णं कृत्वातत्स्थं च काञ्चनम् ३४
प्रच्छाद्योपरिपद्मेन गन्धपुष्पार्चितं महत्
आवेष्ट्यवस्त्रयुग्मेन नववस्त्रैश्च पूरितम् ३५
शिवभक्तद्विजं सम्यग् भोजयित्वा सदक्षिणम्
प्राच्यां समुद्गते सोमे प्रतीच्यां च रवौ गते ३६
पौर्णमास्यां तु वैशाख्यां नीत्वा पात्रं शिवाग्रतः
प्रीयतां मे महादेवः सोममूर्तिर्जगत्पतिः ३७
इत्युक्त्वा वचनं ध्यायन् देवदेवमुमापतिम्
तस्मै विप्राय तत्पात्रं अर्पयेद्भक्तितः शनैः ३८
एतत्सोमव्रतं नाम कृत्वा रुद्रान्तिकं व्रजेत्
रुद्रलोकात्परिभ्रष्टो भवेज्जातिस्मरो नरः ३९
पूर्वाभ्यासेन तेनैव पुनः शिवपदं व्रजेत्
पौर्णमास्यां तथा षष्ठ्यां शिवं सम्पूज्य यत्नतः ४०
उपवीतं शिवे दद्याच्छिवभक्तांश्च भोजयेत्
पुनरेवं तु कार्त्तिक्यां पूज्य शम्भु क्षमापयेत् ४१
यतीनां दक्षिणां दद्यात् सूत्रवस्त्रादिपूर्विकाम्
यः कुर्यात्सकृदप्येवं चातुर्मास्यां पवित्रकम् ४२
कल्पकोटिशतं दिव्यं रुद्रलोके महीयते
पुण्यक्षयात्परिभ्रष्टः चतुर्वेदी प्रजायते ४३
इच्छाया वा भवेद्राजा गुणरूपसमन्वितः
भूमिदानस्य यत्पुण्यं कन्यादानस्य यत्फलम् ४४
मुखवाद्येन यत्पुण्यं उभयं लभते नरः
तदेव पुण्यं गीतस्य नृत्तस्य च विशेषतः ४५
तदेव जयशब्दस्य हस्ततालध्वनौ तथा
यो गां पयस्विनीं दद्यात् तरुणीं वृषसंयुतम् ४६
शिवाय तेन दत्तं स्यात् जगत्सर्वं चराचरम्
वृषभं परिपूर्णाङ्गं उदारं च शशिप्रभम् ४७
गोपतिं धूर्वहं वाऽपि शिवाय विनिवेदयेत्
यावन्ति तस्य रोमाणि तत्प्रसूति कुलेषु च ४८
तावद्युग सहस्राणि रुद्रलोके महीयते
शिवाग्निकार्यमुद्दिश्य सुरूपां सुपयस्विनीम् ४९
कुलीनां कपिलां दत्वा दत्तं भवति गोशतम्
गिरिकान्तारदुर्गेषु मातेव परिरक्षति ५०
यत्नेन कपिलां तस्मात् शिवाय विनिवेदयेत्
शिवस्त्रानाग्निकार्यार्थां उत्पन्नां कपिलां यतः ५१
तस्मात्तत्रैव संयोज्या कपिला शुभमिच्छता
कापिलं यः पिबेच्छूद्रः शिवसंस्कारवर्जितः ५२
य याति नरकं घोरं यावदाभूत सम्प्लवम्
हुतशेषं पिबेद्विप्रः स्वर्गीस्यादन्यथा पशुः ५३
संस्कारेण वियुक्तं चेत् संस्कारो दुर्लभः शुभः
गामालभ्य नमस्कृत्वा कुर्याद्यस्तु प्रदीक्षणम् ५४
प्रदक्षिणीकृता तेन सप्तद्वीप वसुन्धरा
गवां हुङ्कारशब्देन दर्शनात्स्पर्शनादपि ५५
पापं प्रणश्यते यस्मात् तस्मात्पश्येत्स्पृशेदपि
कुतस्तेषां हि पापानि येषां गृहमलङ्कृतम् ५६
सततं बालवत्साभिर्गोभिः श्रीभिरिव स्वयम्
यानि तीर्थानि मे दद्यात् मासमात्रात्सरांसि च ५७
गवां शृङ्गोदक स्नानात् कलां नार्हन्ति षोडशीम्
गवामस्थीनि लङ्घेत मृतगावं न वर्जयेत् ५८
यावज्जिघ्रति तद्गन्धं तावत्पुण्यै प्रपूर्यते
गवां कण्डूयनाद्धूपाद् गोप्रदानसमं भवेत् ५९
तुल्यं गोशतदानस्य भयरोगादि पालनम्
तृणोदकादि संयुक्तां यः प्रदद्याद्गवां महीम् ६०
स गोमेधसमं पुण्यं लभते नात्र संशयः
बहुनात्र किमुक्तेन गावः पाल्याः प्रयत्नतः ६१
गावो देयाः सदारक्ष्याः स्पृश्या दृश्याश्च सर्वदा
ये ताडयन्ति गां पापाः सर्वलोकस्य मातरम् ६२
आक्रोशयति ये मोहात् आक्रुष्टं दायिकं जगत्
ताडनेन गवां मोहात् समन्तात्ताडितं जगत् ६३
ताड्येद्यस्तु गां मोहात् यश्चाक्रोशेन्नराधमः
नरकाग्नौ स पच्येत गवां निश्वासपीडितः ६४
पालाशेनैव दण्डेन मृदुना गां निवर्तयेत्
गच्छ गच्छेति तां ब्रूयान् मा मातरिति वारयेत् ६५
मलोत्सर्गं च यः कुर्यात् पक्षयोरुभयोरपि
द्वादश्यां पौर्णमास्यां वा चतुर्दश्यष्टमीषु च ६६
तस्य गावो वृषो विष्णुः शिवोमा सर्वदेवताः
शान्तिं कुर्वन्तु सुप्रीता स्वर्गमायुर्बलं श्रियम् ६७
दास्यन्ति च सदानित्यं कल्याणं भद्रमेव च
एवं यो वर्तते गोषु ताडनाऽऽक्रोश वर्जितः ६८
महतीं श्रियमाप्नोति रुद्रलोकं स गच्छति
गोब्राह्मणार्थमुद्युक्तं प्राणैर्यदि विमुच्यते ६९
प्राप्नोति परमं स्थानं रुद्रलोकं स गच्छति
ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधाकृतम् ७०
एकत्र मन्त्रास्तिष्ठन्ति हविरन्यत्र तिष्ठति
न च मन्त्रैर्विना यज्ञो हविषा च प्रवर्तते ७१
तस्याद्विप्राश्च गावश्च पुण्यात्पुण्यतरा उभौ
गोभिर्यज्ञाः प्रवर्तन्ते गोषु देवाः प्रतिष्ठिताः ७२
गोभिर्वेदास्समुत्कीर्णाः सषडङ्गपदक्रमाः
शृङ्गमूले गवां नित्यं ब्रह्माविष्णुः स्वयं स्थितौ ७३
शृङ्गाग्रे सर्वतीर्थानि चराणि स्थावराणि च
शिरोमध्ये महादेवः सर्वदेवपतिः स्थितः ७४
ललाटे पार्वतीदेवी नासाग्रे चैव षण्मुखः
कमलाश्वतरौ नागौ नासापुट समाश्रितौः ७५
कर्णयोरश्विनीदेवौ नेत्रे च शशिभास्करौ
दन्तेषु वायवः सर्वे जिह्वायां वरुणः स्थितः ७६
सरस्वती च हुङ्कारे यम-यक्षौ च गण्डयोः
सन्ध्याद्वयं तथोष्ठौ च ग्रीवायामिन्द्र आश्रितः ७७
ऋक्षाणि च ककुद्देशे साध्याश्चोरति संस्थिताः
चतुष्पादात्सकलो धर्मः स्वयं जङ्घासु संस्थितः ७८
ऊरु मध्येषु गन्धर्वाः खुरमध्येषु पन्नगाः
खुराणां पश्चिमाग्रे च अपराश्च समाश्रिताः ७९
रुद्रैकादशकं पृष्ठे वसवः सर्वसिद्धिषु
श्रोणीतटस्थाः पितरः स्थिता योनौ च मातरः ८०
श्रीरपाने गवादभ्यन् नागा लाङ्गूल संस्थिताः
आदित्यरश्मयो वाले पिण्डिभूता व्यवस्थिताः ८१
साक्षाद्गङ्गा च गोमूत्रे गोमये यमुनास्थिता
अष्टाविंशद्देवकोट्यो रोमकूपेषु संस्थिताः ८२
ऋषयश्च तथा सर्वे रोमरन्ध्रेषु संस्थिताः
उदरे पृथिवीदेवी सशैलवनकाननाः ८३
चत्वारः सागराः पूर्णाः गवां ये च पर्याधराः
जठरे गार्ह्यपत्याग्नि हृदये दक्षिणाग्निकः ८४
मुखे चावहनीयोऽग्निः तथा चाङ्गे पतिव्रताः
अस्थिशुक्ले स्थितस्सर्वो ह्यश्वमेधादिकः क्रतुः ८५
एतच्च कथितं सर्वं गोषु यच्च व्यवस्थितम्
गोषुदत्तं हुतं भुक्तं गोषु सर्वं चराचरम् ८६
तस्माद्गावो न हिंस्यात्तु पालनीयाश्च सर्वदा
गावस्तुल्याश्च वन्द्याश्च गावो मां पान्तु नित्यशः ८७
ब्राह्मणा ब्रह्मशब्देन स्तूयते प्रणवेन यः
स शिवः शाश्वतो देवः गोषु मारीं व्यपोहतु ८८
सर्वरोगहरेणापि रविणा यः प्रणस्यते
स शिवः शाश्वतो देवो गोषु मारीं व्यपोहतु ८९
इहामुत्र स्थितानेक विघ्नेशगणपूजितः
स शिवः शाश्वतो देवो गोषु मारीं व्यपोहतु ९०
श्रीमतां रुचिराङ्गेण घण्टाकर्णगणेन यः
नित्यं प्रणम्यते भक्त्या हृष्टेनानन्य चेतसा ९१
स शिवः शाश्वतोदेवो गोषु मारीं व्यपोहतु
नित्यं रुद्रसमोपेतो रुद्रशक्तिसमन्वितः ९२
नन्दिना दण्डिना चाऽपि चण्डिना भारभूतिना
एतैरन्यैर्गणैर्यक्षैः सर्वतोऽपि विशेषतः ९३
घण्टाकर्णगणोपेतः शिवज्ञान विधायकः
शिवतेजोतिभावेन गोषु मारीं व्यपोहतु ९४
शिवाय देवदेवाय महादेवाय शम्भवे
रुद्राय स्थाणवे नित्यं हरायोग्राय ते नमः ९५
परमेशाय सिद्धाय सर्वसिद्धि प्रदायिने
त्रयम्बकाय शान्ताय शान्तरूपाय ते नमः ९६
अभिमन्त्र्य सदातोयं मन्त्रैरेतैर्यथाक्रमम्
प्रोक्षयीत गवां देहं ततः शान्तिर्भविष्यति ९७
य इमां पठते गोषु रोगातीसु विशेषतः
गोसावित्रीं महापुण्यां गवां शान्तिर्भविष्यति ९८
प्रातरुत्थाय सततं गोसावित्रीमिमां पठेत्
गवां चोत्सर्ग कालेषु प्रस्थाने वा समागमे ९९
आयुष्मान्बलवांछ्रीमान् गोमानर्थपतिर्भवेत्
देहान्ते परमं स्थानं स गच्छेन्नात्र संशयः १००
प्रभूत तोयेषु बृहत्तृणेषु स पुङ्गवा नित्यमरोगवासाः
चरन्तु गावः सुखिता वनेषु क्षीरं प्रयच्छन्तु सुखं स्वपन्तु १०१
योलङ्कृत्य शिवायाश्वं उत्तमं विनिवेदयेत्
सोऽश्वमेधसहस्रस्य फलमष्टगुणं भवेत् १०२
सुविनीतां स्त्रियं दासीं हृद्यां वा विनिवेदयेत्
नरमेधस्थ यज्ञस्य फलमष्टगुणं लभेत् १०३
निवेदयीत यो नागं भक्त्या भद्रमलङ्कृतम्
शिवाय पर्वदिवसे तस्य पुण्यफलं शृणु १०४
समन्तैरावतप्रख्यैः गजैर्युक्तैः सुशोभनैः
प्रक्रीडते महायानैः शतसङ्ख्यैरनेकशः १०५
कल्पकोटिसहस्राणि कल्पकोटिशतानि च
रुद्रलोके वसेदन्ते भवेदिन्द्रः सुराधिपः १०६
चतुर्युगसहस्रान्ते स गां प्राप्य नराधिपः
भवेदिन्द्रसमः श्रीमान् रूपवीर्यश्रुतान्वितः १०७
यः शिवाय जलोपेतां सर्वसस्य प्ररोहिणीम्
महीं महीपतिर्दद्यात् तस्य पुण्यफलं शृणु १०८
यावद्दण्डा भवेद्भूमिर्मीयमाना समन्ततः
तावत्कल्पसहस्राणि रुद्रलोके महीयते १०९
एवं सर्वत्र विज्ञेयं फलं दण्ड प्रमाणतः
ग्राम-खेट-पुर-क्षेत्र-विषयादि विनिवेदने ११०
सर्वसस्यफलोपेतं सर्वबाधा विवर्जितम्
ग्रामं शिवाय यो दद्यात् तस्य पुण्यफलं शृणु १११
सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम्
सर्वदानेषु यत्पुण्यं ग्रामदानेन तल्लभेत् ११२
सूर्यकोटिप्रतीकाशैः दिव्यस्त्रीभिरलङ्कृतैः
संयुक्तं कोटिशोनेकैः सर्वकाम समन्वितैः ११३
विमानैर्ग्रामदानेन त्रिसप्तकुल संयुतः
यथेष्टमैश्वरे लोके क्रीडते कालमक्षयम् ११४
पुण्यं नगरदानस्य ग्रामदाच्छताधिकम्
देशदानेन चानन्त्यं न शक्यं परिकीर्तितम् ११५
रत्नान्नपानगोत्वाद्यं सर्वं भूमौ प्रजायते
तस्माद्भूमि प्रदानेन नरो भवति सर्वदः ११६
योऽन्यदत्तां स्वदत्तां वा भूमि हरति मानवः
प्रपाच्यतेऽक्षयं कालं नरकेषु यथाक्रमम् ११७
सर्वं वा भूमि हरणाद् हृतमेव न संशयः
भूमिहर्ता वसेत्तस्य नरके कालमक्षयम् ११८
देवस्यानि हरन्तीह नरा नरकनिर्भयाः
ब्रह्मस्वानि च यो मोहात्पच्यन्ते नरकेषु ते ११९
देवब्रह्मस्वपुष्टानि वाहनानि महीपतेः
युद्धकाले विशीर्यन्ते सैकताः सेतवो यथा १२०
यत्प्रदानाद्वसेत्स्वर्गे यावत्कालस्य सङ्ख्यया
तस्माच्छतगुणं कालं तद्धर्ता नरके वसेत् १२१
विंशत्यष्टौ च याः कोट्यो नरकाणां सुदारुणाः
क्रमेण तासु पच्यन्ते देव-ब्रह्मस्वहारिणः १२२
कल्पान्ते च समुत्तीर्णा वृक्षकीटादि योनिषु
भ्रमन्ति सुचिरं कालं क्षुत्पिपासादि पीडिताः १२३
केनचिच्छिवभक्तेन शिवार्चायतनादिषु
उपयुक्ता भवन्तीह यावत्तावच्च पादपाः १२४
ततो निर्धूत पापास्ते मानवाः शिव तेजसा
शिवं प्रयान्ति सन्त्यज्य शरीरं यातनात्मकम् १२५
इति शिवधर्मपुराणे गवादि दानमाहात्म्य नामः अष्टमोऽध्यायः

अथ नवमोऽध्यायः
अतः परमिदं पुण्यं वक्ष्यामि मुनिसत्तम
पुण्यातिशयसंयुक्तं सर्व्वदेवैरनुष्ठितम् १
ब्रह्मणा विष्णुना देव्या स्कन्देन्द्राभ्यां यमेन च
वरुणादित्य सोमाग्निमरुद्धनदनारदैः २
धर्म्मश्रीशुक्रनक्षत्रर्विलोहितशनैश्चरैः
विश्वामित्रवसिष्ठात्रिबृहस्पतिबुधादिभिः ३
श्वेतागस्त्यवधीच्याद्यैः सर्वैश्च मुनिसत्तमैः
भृङ्गमात्रमहाकाल चण्डिदण्डिगणाधिपैः ४
वृषवासुकिकर्कोटकुलिकानन्ततक्षकैः
पद्मशङ्खमहापद्मैः अन्यैश्चाऽपि महोरगैः ५
सिद्धैर्य्यक्षैश्च गन्धर्वैः भूतैः किंपुरुषादिभिः
वसुभिश्चाप्सरैः सूर्यैः रक्षोभूतगणैरपि ६
विश्वेदेवैस्तथा सर्वैः तैस्तैः सुकृतिभिर्वरैः
शिवे गतिर्यथा प्राप्ता सर्वगत्यतिशायिनी ७
मया चेशप्रसादेन तथा विधिपरं शृणु
सितचन्दनतोयेन स्नाप्य लिङ्गं विलिप्य च ८
श्वेतैर्विकसितैः पद्मैः सम्पूज्य प्रणिपत्य च
तत्र पद्मासने सौम्ये निश्छिद्रे पुष्पिते सिते ९
मध्ये केसरजालस्य स्थाप्य लिङ्ग कनीयसम्
अङ्गुष्ठप्रतिमं लिङ्गं सर्वगन्धमयं शुभम् १०
स्थाप्य दक्षिणामूर्तौ तु बिल्वपत्रैस्तदर्चयेत्
अगरुं दक्षिणे पार्श्वे पश्चिमे तु मनश्शिलाम् ११
उत्तरे चन्दनं दद्याद् हरितालं तु पूर्वितः
सुगन्धैः कुसुमैरन्यैः विचित्रैश्चापि पूजयेत् १२
धूपं कृष्णागरुं दद्यात् सघृतञ्चापि गुग्गुलुम्
वासांसि च सुसूक्ष्माणि विकेशानि निवेदयेत् १३
पायसं घृतसंयुक्तं घृतदीपांश्च दापयेत्
सर्वं निवेद्य मन्त्रेण ततो गच्छेत्प्रदक्षिणम् १४
प्रणम्य भक्त्या देवेशं स्तुत्वा चान्ते क्षमापयेत्
सर्व्वोपहारसंयुक्तं ततो लिङ्गं निवेदयेत् १५
शिवाय शिवमन्त्रैश्च दक्षिणामूर्त्तिमाश्रितः
अनेन विधिना देवाः सर्वे देवत्वमागताः १६
देवी देवत्वमापन्ना गुहः स्कन्दत्वमागतः
ब्रह्मा ब्रहत्वमापन्नो हरिर्विष्णुत्वमागतः १७
अनेन विधिना देवाः सर्वे देवत्वमागताः
इन्द्रश्च देवराजत्वं गणाश्च गणतां गताः १८
एवं योऽर्चयते लिङ्गं पद्मैर्गन्धमयं शुभम्
सर्व्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात् १९
एतद्व्रतोत्तमं गुह्यं शिवलिङ्ग महाव्रतम्
भक्तस्य ते मयाख्यातं न देयं यस्य कस्यचित् २०
शिवभक्ते सदादेयं शिवेन कथितं पुरा
चिरपर्युषितं माल्यं शिवस्थानयेत्तु यः २१
गोसहस्रफलं तस्य भवतीह न संशयः
इति शिवधर्मपुराणे शिवलिङ्गमहाव्रतं नाम नवमोऽध्यायः ९

अथ दशमोऽध्यायः १०
चतुर्दश्यां तथाष्टम्यां पक्षयोः शुक्लकृष्णयोः
योब्दमेकं न भुञ्जीत शिवार्चनरतः शुचिः १
यत्पुण्यमक्षयं प्रोक्तं सततं सत्रयाजिनाम्
सत्यवादिषु यत्पुण्यं यत्पुण्यं तीर्थगामिनाम् २
अग्निहोत्रिषु यत्पुण्यं यत्पुण्यं यज्ञयाजिनाम्
तत्पुण्यं सकलं प्राप्य शिवलोकं स गच्छति ३
पृथिवीं भाजनं कृत्वा भुक्तः पर्वसु यत्नतः
अहोरात्रेण चैकेन त्रिरात्रफलमश्नुते ४
द्वयोर्मासस्य पञ्चम्योः द्वयोप्रतिपदोर्नरः
सोपवासः सुगन्धाङ्गः शयीत प्रियया सह ५
शेते निश्चलचित्तो यो रतिक्रीडादिवर्जितः
शिवानुस्मृतिचित्तस्य तस्य पुण्यफलं शृणु ६
दिव्यवर्षसहस्राणि दिव्यवर्षशतं तथा
तपस्तप्तं महत्तेन भवेदेव न संशयः ७
भवभक्ति सुपूतात्मा यद्यपि स्यात्सपापकृत्
शिवलोके वसेन्नित्यं शिववत्संवृतो गणैः ८
कृष्णाष्टम्यां तु नक्ताशी यावत्कृष्णचतुर्दशी
इह भोगमवाप्नोति परत्र च शिवां गतिम् ९
योब्दमेकं न भुञ्जीत नक्तं पर्वसु पर्वसु
ब्रह्मचारी जितक्रोधः शिवार्चाजपतत्परः १०
संवत्सरान्ते विप्रेन्द्रान् शिवभक्तान्सदक्षिणम्
भोजयित्वा ततो ब्रूयात् प्रीयतां भगवांच्छिवः ११
भोजयेद्यस्तु विद्वांसं कपालव्रतधारिणम्
भोजितास्तेन देवेशा ब्रह्मविष्णुमहेश्वराः १२
कपालपूर्णमशनं भैक्षं योयस्त गृह्णति
कुलं तस्योद्धरत्येव दशपूर्वं दशापरम् १३
पाद्यार्घ्याचमनीयानि गन्धपुष्पैः समन्ततः
अर्चयेदतिनन्दृष्ट्वा पश्चाद्भैक्ष्येण तर्पयेत् १४
पूजितस्तैः शिवः साक्षात् पूजितो नात्र संशयः
अवमतेरवभतः स्यात् स्वयं वै परमेश्वरः १५
श्रद्धया परया युक्तः कपालेयः प्रयच्छति
तत्तस्य फलते दानं व्रजेच्छतसहस्रधा १६
एवं विधिसमायुक्तः शिवलोके महीयते
न च स मानुष्यकं देहं पुनः सम्प्राप्नुयान्नरः १७
उपवासात्परं भैक्षं भैक्षात्परमयाचितम्
अयाचितात्परं नक्तं तस्मान्नक्तेन वर्तयेत् १८
देवैर्युक्तं तु पूर्वाह्णे मध्याह्ने ऋषिभिस्तथा
अपराह्णे च पितृभिः सन्ध्यायां गुह्यकादिभिः १९
सर्ववेलामतिक्रम्य नक्तभोजनमुत्तमम्
कामचारो महादेवो नक्तेनोद्धरते नरम् २०
हविष्यभोजनं स्नानं सत्यमाहारलाघवम्
अग्निकार्यमधः शय्यां नक्तभोजी समाचरेत् २१
कृष्णाष्टम्यां प्रयत्नेन कृत्वा नक्तं विधानतः
मार्गशीर्षे शुभे मासे शङ्करं देवमर्चयेत् २२
पीत्वा शक्त्या च गोमूत्रं अनाहारो निशि स्वपेत्
अतिरात्रस्य यज्ञस्य फलमष्टगुणं लभेत् २३
एवं पुष्येऽपि सम्पूज्य शम्भुनामानमीश्वरम्
कृष्णाष्टम्यां घृतं प्राश्य वाजपेयफलं लभेत् २४
माघे माहेश्वरं नाम कृष्णाष्टम्यां प्रपूजयेत्
निशि पीत्वा च गोक्षीरं गोमेधस्य फलं लभेत् २५
फाल्गुन्यां तु महादेवं सम्पूज्य प्राशयेत्तिलान्
राजसूयस्य यज्ञस्य फलमष्टगुणं लभेत् २६
चैत्रे च स्थाणुनामानं कृष्णाष्टम्यां प्रपूजयेत्
यवान्सुसञ्चितान्प्राश्य सोऽश्वमेधफलं लभेत् २७
वैशाखे शिवनामानं इष्ट्वा रात्रौ कुशोदकम्
पीत्वा पुरुषमेधस्य फलमष्टगुणं लभेत् २८
ज्येष्ठे पशुपतिं पूज्य गवां शृङ्गोदकं पिबेत्
गवां कोटिप्रदानस्य यत्पुण्यं तदवाप्नुयात् २९
आषाढे चोग्रनामानं इष्ट्वा प्राश्य च गोमयम्
सौत्रामणेस्तु यज्ञस्य फलमष्टगुणं लभेत् ३०
श्रावणे शर्वनामानं पिण्याकं निशि भक्षयेत्
वर्षकोटिशतं साग्रं शिवलोके महीयते ३१
मासे भाद्रपदेऽष्टम्यां त्र्यम्बकं देवमर्चयेत्
प्राशनं बिल्वपत्राणां अनन्तं फलमाप्नुयात् ३२
मासे चाश्वयुजेऽष्टम्यां ईश्वरं नाम पूजयेत्
तण्डुलोदकमालिह्य पौण्डरीकाष्टकं लभेत् ३३
कार्तिके रुद्रनामानं सम्पूज्य प्राशयेद्दधि
अग्निष्टोमस्य यज्ञस्य फलमष्टगुणं लभेत् ३४
वर्षान्ते भोजयेद्विप्रान् शिवभक्तिपरायणान्
पायसं घृतसंयुक्त मधुना च परिप्लतम् ३५
शक्त्या हिरण्यवासांसि भक्त्या तेभ्यो निवेदयेत्
निवेदयीत रुद्राय गां च कृष्णां पयस्विनीम् ३६
वर्षमेकं चरेदेवं नैरन्तर्येण यो नरः
कृष्णाष्टमीव्रतं भक्त्या तस्य पुण्यफलं शृणु ३७
सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्वितः
वसेच्छिवपुरे नित्यं न भूयो भुवि जायते ३८
पुण्योत्सर्वेषु सर्वेषु विषुव ग्रहणादिषु
दानोपवासहोमाद्यं अक्षयं जायते कृतम् ३९
प्रतिमासं प्रवक्ष्यामि शिवव्रतमिहोत्तमम्
धर्मार्थकाममोक्षार्थं नरनार्यादि देहिनाम् ४०
पुष्यमासेतु सम्प्राप्ते यः कुर्यान्नक्तभोजनम्
जितेन्द्रियः सत्यवादी शालिगोधूमगोरसैः ४१
पक्षयोरष्टमीं यत्नाद् उपवासेन वर्तयेत्
त्रिसन्ध्यमर्चयेदीशं अग्निकार्यं च शक्तितः ४२
भूमिशायी तु मासान्ते पौर्णमास्यां घृतादिभिः
कृत्वा स्नानं महापूजा शिवे यत्नात्प्रकल्पयेत् ४३
नैवेद्यं यावक प्रस्थं क्षीरसिद्धं निवेदयेत्
भोजयेच्च द्विजानष्टौ शिवभक्तान्सदक्षिणम् ४४
शिवायैवं गोमिथुनं कापिलं च निवेदयेत्
अलङ्कृत्यं सुरूपं च तस्य पुण्यफलं शृणु ४५
सूर्यकोटि प्रतीकाशैः विमानैः सार्वकामिकैः
रुद्रकन्यासमाकीर्णैः महावृषभसंयुतैः ४६
सङ्गीतनृत्तवाद्याधैः अप्सरोगणसेवितैः
चामरैर्धूयमानश्च स्तूयमानः सुरासुरैः ४७
त्रिनेत्रशूलपाणिश्च शिवैश्वर्यसमन्वितः
गच्छेच्छिवपुरं रम्यं यत्रास्ते शङ्करः स्वयम् ४८
यावत्तद्रोम सङ्ख्यानं तत्प्रसूति कुलेषु च
तावद्यूगसहस्राणि सुखी शिवपुरे वसेत् ४९
त्रिसप्तकुलजैः सार्धं भोगान्भुङ्क्ते यथेच्छया
ज्ञानयोगं समासाद्य स तत्रैव विमुच्यते ५०
योगाद्दुःखान्तमाप्नोति ज्ञानाद्योगः प्रवर्तते
शिवधर्मोद्भवं ज्ञानं शिवधर्मः शिवार्चनात् ५१
इत्येष वः समाख्यातः संसारार्णव वर्तिनाम्
शिवमोक्षक्रमोपायः शिवाश्रम निषेवणम् ५२
माघ मासे शुभे प्राप्ते यः कुर्यान्नक्तभोजनम्
कृसरं घृतसंयुक्तं भुञ्जानस्संयतेन्द्रियः ५३
उपवासश्चतुर्दश्यां भवेदुभयपक्षयोः
शिवाय पौर्णमास्यन्ते प्रदद्याद्घृतकम्बलम् ५४
कृष्णगोमिथुनं चात्र सुरूपं विनिवेदयेत्
शेषं कृत्वा यथोद्दिष्टं पूर्वोक्तं लभते फलम् ५५
इन्द्रनील प्रतीकाशैः विमानैः सर्वकामिकैः
गत्वा शिवपुरं दिव्यं भोगान्भुङ्क्ते यथेप्सितान् ५६
सम्प्राप्ते फाल्गुन मासे यः कुर्यान्नक्तभोजनम्
श्यामाकक्षीरनीवारैः जितक्रोधो जितेन्द्रियः ५७
चतुर्दश्यामथाष्टम्यां उपवासरतो भवेत्
पौर्णमास्यां महास्नानं पञ्चगव्यघृतादिभिः ५८
वल्मीकाग्रादिमृद्भिश्च गोमूत्रैर्गोमयादिभिः
त्वग्भिश्च क्षीरवृक्षाणां धात्र गन्धादिभिः सह ५९
दद्याद्गोमिथुनं भक्त्या ताम्राभं परमेष्ठिने
शेषमन्यद्यथोद्दिष्टं कृत्वाप्नोति महत्फलम् ६०
पद्मरागप्रतीकाशैः विमानैः सार्वकामिकैः
गत्वा शिवपुरं दिव्यं पूर्वोक्तं लभते फलम् ६१
चैत्र मासे शुभे प्राप्ते यः कुर्यान्नक्तभोजनम्
पिष्टकं पयसायुक्तं भुञ्जानो विजितेन्द्रियः ६२
दद्याद्गोमिथुनं चात्र पाटलं समलङ्कृतम्
शिवायाति सुरूपं य शेषं पूर्ववदाचरेत् ६३
पुष्परागप्रभैर्यानैः दिव्याश्वगणसंयुतैः
यायाच्छिवपुरं दिव्यं दुष्प्रापमकृतात्मभिः ६४
वैशाख मासे सम्प्राप्ते यः कुर्यान्नक्तभोजनम्
शाल्यन्नं क्षीरसंयुक्तं भुञ्जानः संयतेन्द्रियः ६५
गोष्ठशायि शिवध्यायी निशायामेकवस्त्रवृत्
नियमं च यथोद्दिष्टं सर्वं सम्यक् समाचरेत् ६६
वैशाखपौर्णमास्यां तु कृत्वा स्नानं व्रतादिभिः
शिवायालङ्कृतं श्वेतं दद्याद्गोमिथुनं शुभम् ६७
हिमकुन्देन्दुवर्णाढ्यैः महायानैरलङ्कृतैः
सुश्वेतवृषसंयुक्तैः प्रयातीश्वर मन्दिरम् ६८
सर्वातिशयरूपाभिः स्त्रीभिश्च परिवारतः
नीलोत्पलसुगन्धाभिः क्रीडते कालमक्षयम् ६९
ज्येष्ठमासे शुभे प्राप्ते यः कुर्यान्नक्तभोजनम्
शाल्यन्नमम्भसाधौतं आज्यक्षीर विवर्जितम् ७०
विरसानि तु रात्रौ स्याद् दिवा गामनुगच्छति
हितकारी गवां नित्यं अहङ्कारविवर्जितः ७१
पौर्णमास्यां च पूर्वोक्तं कुर्यात्स्नादिकं विधिम्
देयं गोमिथुनं चैव धूम्रं रुद्रलोक महीयते! ७२
सूर्यकोटिसम प्रख्यैः महायानैर्मनोरमैः
महासिंहनिबद्धैश्च क्रीडते कालमक्षयम् ७३
आषाढे सुशुभे प्राप्ते यः कुर्यान्नक्तभोजनम्
फुल्लखण्डाज्य सम्मिश्रं दद्याद्भक्तं सगोरसम् ७४
दद्याद्गोमिथुनं घोरं शिवायालङ्कृतं शुभम्
सामान्यं च विधिं सर्वं यः कुर्यात्प्राक् प्रचोदितम् ७५
शुद्धस्फटिकं सङ्काशैः यानैः सारसवाहनैः
अणिमादि गुणैर्युक्तः शिववद्विचरेदयम् ७६
सम्प्राप्ते श्रावणमासे यः कुर्यान्नक्तभोजनम्
क्षीरषाष्टिकभक्तेन सर्वभूतहिते रतः ७७
श्वेताग्रपादं पौण्ड्रं च दद्याद्गोमिथुनं शिवे
सामान्यमखिलं कुर्याद् विधानं यत्प्रकीर्तितम् ७८
सुविचित्रैर्महायानैः विचित्राश्वनियोजितैः
गत्वा शिवपुरं रम्यं पूर्वोक्तं लभते फलम् ७९
प्राप्ते भाद्रपदे मासे यः कुर्यान्नक्तभोजनम्
हुतशेषं प्रभुञ्जानो वृक्षमूलाश्रिते दिवा ८०
रात्रौ चायतने वासी सर्वभूतानुकम्पकः
नीलस्कन्धं वृष गां च शिवाय विनिवेदयेत् ८१
निशाकरकरप्रख्यैः वज्रवैडूर्यशोभितैः
चक्रवाक समायुक्तैः विमानैः सार्वकामिकैः ८२
गत्वा शिवपुरं दिव्यं अमरासुरवन्दितः
स क्रीडते महाभोगैः यावदाभूत सम्प्लवम् ८३
प्राप्ते चाश्वयुजे मासे यः कुर्यान्नक्तभोजनम्
घृताशनं प्रभुञ्जानः प्रसन्नात्मा जितेन्द्रियः ८४
वृषभं नीलवर्णं च उरोदेशे समानतम्
विमुच्य दद्याद्रुद्राय गामेकामप्यलङ्कृताम् ८५
विधिशेषमशेषेण पूर्वोक्तं समुपाचरेत्
प्राणान्ते च शिवस्थानं प्रयाति शिववत्सुखी ८६
स्वच्छमौक्तिक सङ्काशैः इन्द्रनीलोपशोभितैः
जीवं जीवकसंयुक्तैः विमानैः सार्वकामिकैः ८७
सङ्क्रीडते महाभोगैः यावदाभूत सम्प्लवम्
प्राप्ते तु कार्तिकमासे यः कुर्यान्नक्तभोजनम् ८८
क्षीरोदनं प्रभुञ्जानः सत्यवादी जितेन्द्रियः
दद्याद्गोमिथुनं चात्र कापिलं च ज्वलत्प्रभम् ८९
पूर्वोक्त च विधिं कुर्याच्छिवतुल्यबलो भवेत्
कल्पानलसमप्रख्यैः महायानैर्महाबलैः ९०
महासिंहकृताटोपैः शिववच्चेष्टते सुखी
मार्गशीर्ष शुभे मासे यः कुर्यान्नक्तभोजनम् ९१
यवान्नं पयसायुक्तं भुञ्जानः संयतेन्द्रियः
दद्याद्गोमिथुनं दिव्यं पाण्डुरं समलङ्कृतम् ९२
शिवाय शेषं पूर्वोक्त विधिना समुपाचरेत्
सितपद्मनिभैर्यानैः श्वेताश्ववरसंयुतैः ९३
गत्वा शिवपुरं दिव्यं शिवतुल्यो बली भवेत्
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दमो दया ९४
त्रिःस्नानं चाग्निहवनं भूशय्या नक्तभोजनम्
पक्षयोरुपवासेन चतुर्दश्यष्टमीषु च ९५
इत्येवमादि क्रिया यथा सञ्चरेत शिवव्रतम्
उमामहेश्वरं नाम सदा प्रीति विवर्धनम् ९६
अवियोगकरं शान्तं धर्मकामार्थ साधनम्
पौर्णमास्याममावास्यां चतुर्दश्यष्टमीषु च ९७
नक्तमब्दं प्रकुर्वीत हविष्यं ब्रह्मचारिणी
उमामहेशप्रतिमां हेम्ना कृत्वा सुशोभनाम् ९८
राजतीं वापि वर्षान्ते स्नापयित्वा घृतादिभिः
गन्धमाल्यैरलङ्कृत्य वस्त्रयुग्मैश्च शोभनैः ९९
भक्त्या भोज्यैरशेषैश्च वितानध्वजचामरैः
भोजयेच्छिवभक्तांश्च दीनानाथांश्च तर्पयेत् १००
शक्त्या च दक्षिणां दत्वा शिवमन्त्रै क्षमापयेत्
ताम्रकांस्यादि पात्रं वा सितवस्त्रावगुण्ठितम् १०१
कृत्वा वायतनं मध्ये प्रतिमान्तूपकल्पयेत्
धृत्वा शिरसि तत्पात्रं वितानच्छत्रशोभितम् १०२
ध्वजशङ्ख्यादिविभवैः शिवस्यायतनं नयेत्
लिङ्गमूर्तेर्महेशस्य व्रतस्यान्ते निवेदयेत् १०३
वेद्यन्ते स्थापयेत्पात्रमुपशोभा समन्वितम्
पश्चात्प्रदक्षिणीकृत्य प्रणिपत्य क्षमापयेत् १०४
समाप्य तद्व्रतं पुण्यं शृणु सा यत्फलं लभेत्
सूर्यकोटिप्रतीकाशैः विमानै सार्वकामिकैः १०५
यथेष्टमैश्वरे लोके रुद्रैः सार्धं प्रमोदते
कल्पकोटिसहस्राणि कल्पकोटिशतानि च १०६
तदन्ते सा महाभागो विष्णुलोके महीयते
ततः कर्मावशेषेण सर्वकाम समन्वितम् १०७
ब्रह्मलोकं समासाद्य परं सुखमवाप्नुयात्
ब्रह्मलोकात्परिभ्रष्टा श्रीमती परिपूजिता १०८
प्राजापत्यमवाप्नोति लोकपाल नमस्कृता
भोगांश्च रुचिरान्भुंक्त्वा सोमलोके महीयते १०९
सोमलोकादैन्द्रलोकं आसाद्येन्द्रपदं लभेत्
ऐन्द्रलोकाच्च गान्धर्वं लोकं प्राप्य प्रमोदते ११०
गन्धर्वराजपतिना सार्धं भोगे वसेच्चिरम्
महारत्नप्रभादीप्तैः उपशोभितमद्भुतम् १११
यक्षलोकमनुप्राप्य यथाकामं प्रमोदते
सालोकालोकपर्यन्ते सर्वस्मिन्क्षितिमण्डले ११२
यत्र क्वचित्सुखं दिव्यं तदशेषमवाप्नुयात्
एवं सर्वेषु लोकेषु भोगान्भुक्त्वा यथेप्सितान् ११३
क्रमादागत्य लोकेऽस्मिन्राजापतिमवाप्नुयात्
युवानं रूपसम्पन्नं अशेषपृथिवीपतिम् ११४
धर्मार्थकाममोक्षं शिवभक्तं दृढव्रतम्
ततोऽसौ कर्मशेषेण भवतीश्वरभाविता ११५
स्वकर्मवासनायोगात्पुनः प्रारभते शुभम्
शुभाच्च पुनरप्येवं लोकान्याति सहस्रशः ११६
यावदाप्नोति निर्वेदं तावद्भ्रमति कर्मणा
निर्वेदाच्चैव वैराग्यं वैराग्याञ्ज्ञान सम्भवः ११७
ज्ञानात्प्रवर्तते योगो योगाद्दुःखान्तमाप्नुयात्
उमामहेश्वरं नाम व्रतमीश्वरभाषितम् ११८
कारुण्यात्सर्वनारीणां नराणां च विशेषतः
तस्मात्सर्वप्रयत्नेन ह्युमामाहेश्वरं व्रतम् ११९
कर्तव्यं नरनारीभिः दुखस्यान्तमवाप्नुयुः
उमादेवीप्रियार्थं तु तुष्टे नैवान्तरात्मना १२०
अष्टम्याञ्च चतुर्दश्यां नियतब्रह्मचारिणी
वर्षमेकं तु भुञ्जीत महापुण्यजिगीषया १२१
वर्षान्ते प्रतिमां कृत्वा पूर्ववद्विधिमाचरेत्
स्नानाद्यन्तं व्रतं प्राप्त्वा पूर्वोक्तं लभते फलम् १२२
जाम्बूनदमयैर्यानैः चतुर्द्वारैरलङ्कृतैः
गत्वा शिवपुरं दिव्यं अशेषं भोगमाप्नुयात् १२३
शिवादि सर्वलोकेषु भोगान्भुक्त्वा यथेच्छया
क्रमादागत्य लोकेऽस्मिन् राजानां पतिमाप्नुयात् १२४
या नार्युपवसेदेकं अब्दं कृष्णचतुर्दशी
वर्षान्ते प्रतिमां कृत्वा शालिपिष्टमयीं शुभाम् १२५
पीतानुलेपनैर्माल्यैः पीतवस्त्रैश्च पूजयेत्
पूर्वोक्तमखिलं कृत्वा शिवाय विनिवेदयेत् १२६
सप्तभौमैर्महायानैः तप्तचामीकरप्रभैः
युगकोटिशतं साग्रं शिवलोके महीयते १२७
शिवादि सर्वलोकेषु भुक्त्वा भोगान्यथेप्सितान्
क्रमादागत्य लोकेऽस्मिन्यथेष्टं पतिमाप्नुयात् १२८
याऽमावास्यां निराहारा भवेदब्दमतन्द्रिता
शूलपिष्टमयं कृत्वा वर्षान्ते तु निवेदयेत् १२९
शिवाय राजतं पद्मं अस्वर्णकरकृतकर्णकम्
भक्त्या विन्यस्य तन्मूर्ध्नि शेषं पूर्ववदाचरेत् १३०
कामतोऽपि कृतं पापं भ्रूणहत्यादि यद्भवेत्
तत्सर्वं शूलमानेनच्छिद्यान्नारी न संशयः १३१
महापद्मविमानेन नानानारी समन्विता
युगकोटिशतं साग्रं शिवलोके महीयते १३२
शिवादि सर्वलोकेषु भुक्त्वाभोगान्यथेप्सितान्
इमं लोकं क्रमात्प्राप्य यथेष्टं पतिमाप्नुयात् १३३
पौर्णमास्याममावास्यां अब्दमेकं दृढव्रता
वर्षान्ते सर्वगन्धाढ्यं प्रतिमाविनिवेदयेत् १३४
सुपवित्रैर्महायानैः दिव्यगन्धवहैः शुभैः
वर्षकोटिशतं दिव्यं शिवलोके महीयते १३५
यथेष्टमैश्वरे लोके भुक्त्वा भोगानशेषतः
क्रमादागत्य लोकेऽस्मिन्राजानं पतिमाप्नुयात् १३६
सम्प्राप्ते कार्तिकमासे एकभुक्तेन वर्तयेत्
क्षमाऽहिंसादिनियमैः संसक्ता ब्रह्मचारिणी १३७
गुडाज्यमिश्रं पिण्याकं मासेन विनिवेदयेत्
अष्टम्याञ्च चतुर्दश्यां उपवासरतो भवेत् १३८
इन्द्रनीलप्रतीकाशैः विमानैः सार्वकामिकैः
वर्षायुतशतं साग्रं शिवलोके महीयते १३९
यथावत्सर्वलोकेषु भोगानासाद्य धर्मतः
क्रमादागत्य लोकेऽस्मिन् यथेष्टं पतिमाप्नुयात् १४०
इत्येवं सर्वलोकेषु विधिस्तुल्यः प्रकीर्तितः
एकभुक्तोपवासस्य फलं च सदृशं भवेत् १४१
क्षमा सत्यं दया दानं शौचमिन्द्रयनिग्रहः
शिवपूजाग्निहोमश्च सन्तोषास्तेयभावना १४२
सर्वव्रतेषु यद्धर्मः सामान्यो दशधा स्मृतः
विशेषमपि वक्ष्यामि प्रतिमासं व्रतं प्रति १४३
मार्गशीर्षे शुभेमासे वृषं पिष्टविनिर्मितम्
गन्धमाल्यैरलङ्कृत्य शिवाय विनिवेदयेत् १४४
वृषयुक्तैर्महायानैः आरोहण सुशोभितैः
वर्षायुतशतं साग्रं शिवलोके महीयते १४५
सर्वदेव निकायेषु सम्प्राप्य सुखमुत्तमम्
क्रमादागत्य लोकेऽस्मिन् राजानं पतिमाप्नुयात् १४६
पुष्ये मासे शुभे प्राप्ते शूलं कृत्वा पिनाकिने
गन्धपुष्पैरलङ्कृत्य शिवाय विनिवेदयेत् १४७
ताम्रकांस्यादिपात्रे वा दत्त्वा दद्यात्पिनाकिने
महापुष्पकयानेन दिव्यगन्धप्रवाहिना
वर्षायुतशतं दिव्यं रुद्रलोके महीयते १४८
भुक्त्वा तु विपुलान्भोगान् अशेषपुर सम्भवान्
सम्प्राप्यैव क्रमाल्लोके यथेष्टं पतिमाप्नुयात् १४९
रथञ्चाश्वयुतं माघे दीपमाला प्रशोभितम्
पैष्ट लिङ्गसमायुक्तं शिवायतनमानयेत् १५०
महारथोपमैर्यानैः श्वेताश्वरथसंयुतैः
वर्षायुतं शतं साग्रं शिवलोके महीयते १५१
अनुभूयातुलान्भोगान् अशेषपुर सम्भवान्
क्रमादागत्य लोकेऽस्मिन् राजानं पतिमाप्नुयात् १५२
फाल्गुने प्रतिमां पैष्टीं कृत्वा रूपसमन्विताम्
गन्धमाल्यैरलङ्कृत्य स्थापयेदीश्वरालये १५३
यानैरप्रतिमैर्दिव्यैः गीतवादित्र सङ्कुलैः
वर्षायुतशतं साग्रं रुद्रलोके महीयते १५४
सर्वामरनिकायेषु प्राप्य भोगान्सुदुर्लभान्
सम्प्राप्यैवं क्रमाल्लोके यथेष्टं पतिमाप्नुयात् १५५
चैत्रे भवकुमारं च कृत्वा पैष्टमलङ्कृतम्
स्थाप्य पात्रे यथोक्ते च आनयेच्छिवमन्दिरे १५६
शरदिन्दुप्रतीकाशैः विमानैः सार्वकामिकैः
वर्षकोटिशतं साग्रं शिवलोके महीयते १५७
कर्मक्षयादिहागत्य पुत्रपौत्र समन्विता
अभीष्टं पतिमासाद्य लभेद्भोगान्सुदुर्लभान् १५८
तण्डुलाढकपिष्टेन कृत्वा कैलासपर्वतम्
ईश्वरोमासमायुक्तं सर्वधातु विभूषितम् १५९
स्थाप्य पात्रे यथोक्ते च आनयेच्छिमन्दिरे
शरदिन्दुप्रतीकाशैः विमानैः सार्वकामिकैः १६०
कन्दरैर्विविधैश्चित्रेः लवणप्रस्थ संयुतैः
सर्वरत्नसमायुक्तं स्थापयेदीश्वरालये १६१
कैलासव्रतमित्येतद् वैशाखे या समाचरेत्
कैलासकोमलैर्यानैः शिवलोके महीयते १६२
शिवादि सर्वलोकेषु भुक्त्वा भोगानशेषतः
क्रमादागत्य लोकेऽस्मिन् राजानं पतिमाप्नुयात् १६३
लिङ्गं पिष्टमयं कृत्वा ज्यैष्ठे मासे सवेदिकम्
भक्त्या सम्पूज्य गन्धाद्यैः वस्त्रयुग्मेन वेष्टयेत् १६४
उपशोभाविशेषेण तत्र जागरमाचरेत्
प्रभाते ध्वजशङ्खाद्यैः शिवाय विनिवेदयेत् १६५
शुद्धस्फटिक सङ्काशैः विमानैः सार्वकामिकैः
वर्षकोटिशतं साग्रं शिवलोके महीयते १६६
भुक्त्वा भोगान्यथाकामं अशेषपुर सम्भवान्
क्रीडा विशेषभावैश्च मोदते शङ्करालये १६७
क्रमादागत्य लोकेऽस्मिन् राजानं पतिमाप्नुयात्
गृहं पिष्टमयं कृत्वाह्याषाढे सप्तभौमिकम् १६८
सर्व बीजरसैश्चापि सम्पूर्णं शुभलक्षणम्
गृहोपकरणैर्युक्तं मुसलोदूखलादिभिः १६९
सर्वधान्यसमायुक्तं सर्वमण्डनभूषितम्
सर्वधातुसमाकीर्णं सर्वरत्नोपशोभितम् १७०
सर्वरत्नादिगोश्वाद्यैः दासीशय्याद्यलङ्कृतम्
एतैः पिष्टमयैः सर्वैः सुदीपाद्युपशोभितम् १७१
सर्वभक्षसमाकीर्णं गन्धमाल्यैरलङ्कृतम्
श्वेतरक्तासितैः पीतैः ध्वजवस्त्रोपशोभितम् १७२
चतुर्विधेन चरुणा संयुतं सर्षपैस्तथा
आषाढे पौर्णमास्यां तु गृहे स्थाप्य शिवाग्रतः १७३
सर्वोकरणोपेतं प्रणिपत्य निवेदयेत्
सप्तभूमैर्महायानैः सर्वभोगसमन्वितैः १७४
वर्षकोटिशतं साग्रं शिवलोकं महीयते
भुक्त्वातु विपुलान्भोगान्सर्वलोकेष्वनुक्रमात् १७५
प्राप्नोति सर्वभोगाढ्यं सप्तभौमं गृहं लभेत्
सर्वधातु समाकीर्णं विचित्रध्वजशोभितम् १७६
निवेदयीत शर्वाय श्रावणे तिलपर्वतम्
स्वच्छेन्द्रनीलसङ्काशैः यानैरप्रतिमैः शुभैः १७७
वर्षकोटिशतं दिव्यं शिवलोके महीयते
भुक्त्वातु सकलान्भोगान् सर्वलोकेष्वनुक्रमात् १७८
क्रमाल्लोकमिमं प्राप्यं राजानं पतिमाप्नुयात्
कृत्वा भाद्रपदे मासे विपुलं धान्यपर्वतम् १७९
सुवर्णवस्त्रसंयुक्तं शिवाय विनिवेदयेत्
सुविचित्रैर्महायानैः वरभोगसमन्वितैः १८०
वर्षकोटिशतं साग्रं शिवलोके महीयते
रुद्रलोकादिलोकेषु भुक्त्वा भोगान्यथेप्सितान् १८१
सम्प्राप्ताऽस्मिन् क्रमाल्लोके राजानं पतिमाप्नुयात्
सर्वधान्यसमायुक्तं सर्वबीजसमन्वितम् १८२
सर्वधातुसमायुक्तं सर्वरत्नोपशोभितम्
शृङ्गैश्चतुर्भिः संयुक्तं वितानच्छत्रशोभितम् १८३
गन्धमाल्यैश्च पुष्पैश्च प्रदीपैश्चोपशोभितम्
विविधैर्गीतनृत्तैश्च शङ्खवीणादिभिस्तथा १८४
ब्रह्मघोषैस्तथा पुण्यैः मङ्गलैश्च निषेवितम्
अष्टभिश्च ध्वजैर्युक्तं वितानच्छत्रशोभितम् १८५
नगेन्द्रं मेरुनामानं त्रैलोक्याधारमुत्तमम्
तस्य मूर्ध्नि शिवं कुर्यात् सर्वदेवसमन्वितम् १८६
दैत्यगन्धर्वसिद्धाद्यान् यक्षभूतगनांस्तथा
विद्याधराप्सरोनागान् ऋषींश्चापि विशेषतः १८७
शालिपिष्टमयं सर्वं रूपं कृत्वा विचक्षणः
देयस्य दक्षिणे हस्ते शूलं त्रिदशपूजितम् १८८
एवं सर्वेषु देवेषु कुर्यादस्त्राण्यनुक्रमात्
शिवस्य महतीं पूजां कृत्वा चित्रसमन्विताम् १८९
पूजयेत्सर्वदेवांश्च दशदिक्षु बलिं हरेत्
विप्रांश्च भोजयेत्पश्चाच्छिवभक्तान्सदक्षिणम् १९०
दीक्षितान्व्रतिनश्चैव अनुगम्य च सायुगान्
आचार्यानुगतान्सर्वान् सार्धं मेरुमुपस्थितान् १९१
सर्वालङ्कारसंयुक्तं यथाविभवकल्पितम्
निवेदयीत रुद्राय कार्तिके नगमुत्तमम् १९२
यः कुर्यात्सकृदप्येवं तस्याः पुण्यफलं शृणु
देवतुल्यगणो भूत्वा गुणरूपसमन्वितः
शिववद्विचरेन्नित्यं निश्चलं भुवनं सदा
सर्वागमेषु यत्पुण्यं मुनिभिः कथितं पुरा १९३
तत्सर्वं कोटिगुणितं प्राप्नुयात्सा न संशयः
महारत्नप्रभैर्यानैः सर्वकामसमन्वितैः १९४
गीतनृत्तादिभिर्वाद्यैः अप्सरोगणशोभितैः
सूर्यकोटिसम्प्रख्यैः विमानैर्मेरुसन्निभैः १९५
नरनारीगणाकीर्णैः दिव्यगन्धोपशोभितैः
देवदानवगन्धर्वैस्तूयमाना नराधिपैः १९६
स्वच्छन्दा सर्वगाभूत्वा प्रयातीश्वरमन्दिरम्
कल्पकोटिशतं दिव्यं मोदते सा महातपाः १९७
एवं सर्वेषु लोकेषु भुक्त्वा भोगान्यथेप्सितान्
पुण्यक्षयादिहागम्य राजानं पतिमाप्नुयात् १९८
सुरूपा सुभगा नित्यं भवेदीश्वरभाविता
यद्यत्कामं समुद्दिश्य नरनारी नपुंसकाः १९९
पूजयन्ति शिवं भक्त्या तत्तदेवाशु जायते
मृण्मयं दारुजं शैलं ऐष्टकं वा सुकल्पितम् २००
कृत्वा गृहं मठं वापि यथा विभवविस्तरम्
सर्वोपकरणोपेतं सर्वधान्य प्रपूरितम् २०१
शिवाय तद्गृहं दत्वा सर्वान्कामानवाप्नुयात्
कृत्वैकभुक्तं हेमन्ते मासमेकं सुयन्त्रितः २०२
मासान्ते च रथं कुर्यात् चित्रवस्त्रोपशोभितम्
श्वेतैश्चतुर्भिः संयुक्तं वृषभैः समल्ङ्कृतम् २०३
शोभितं ध्वजदीपाद्यैः छत्रचामरदर्पणैः
तण्डुलाढकपिष्टेन लिङ्गं कृत्वा सवेदिकम् २०४
विन्यस्य रथमध्ये तु पूजयेत्कृतलक्षणम्
तद्रात्रौ राजमार्गेण शङ्खभेर्य्यादि निःस्वनैः २०५
भ्रामयित्वा शनैः पश्चाच्छिवायतनमानयेत्
तत्र जागरपूजाभिः प्रदीपाद्युपशोभितैः २०६
प्रेक्षणीयै प्रदानैश्च क्षपयित्वा शनैर्निशाम्
प्रभाते स्नपनं कृत्वा तद्भक्तानां च भोजनम् २०७
दीनान्धकृपणानां च यथाशक्त्या च दक्षिणाम्
रथं शोभासमायुक्तं शिवाय विनिवेदयेत् २०८
भुक्त्वा च बान्धवैः सार्धं प्रणम्येशं गृहं व्रजेत्
सर्व्वव्रतानां प्रवरं अस्मिन्धर्मः समाप्यते २०९
व्रतं शिवनाथं नाम सर्वकामार्थ साधकम्
सर्वभूतेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् २१०
तत्सर्वं शिवनार्थेनैव तत्पुण्यफलभाग्भवेत्
सूर्यायुत प्रतीकाशैः विमानैः सार्वकामिकैः २११
त्रिसप्तकुलमुद्धृत्य शिवलोके महीयते
भुक्त्वा तु विपुलान्भोगान्सर्वलोकेष्वनुक्रमात् २१२
कल्पकोट्युतं साग्रं तस्यान्ते स महीपतिः
सुरूपा सुगुणं चैव सर्वभोगसमन्वितम् २१३
लभते कुलजं शुद्धं पतिं सा सर्वमानयेत्
पञ्च तुलीसमायुक्तां मृद्वीखट्वां सुकल्पिताम् २१४
सर्वोपकरणोपेतां शिवशय्यां प्रकल्पयेत्
शिवं देवीसमायुक्तं पैष्टमस्यां निवेदयेत् २१५
शिवज्ञानार्थ तत्त्वज्ञं आचार्यं विनयान्वितम्
सम्पूज्य गन्धपुष्पाद्यैः वस्त्रालङ्कारचामरैः २१६
भक्ष्यभोज्यैरशेषैश्च ततः शय्यां निवेदयेत्
तन्तलेवस्त्रतन्तूनां परिसङ्ख्या तु यावती २१७
तावद्वर्षसहस्राणि रुद्रलोके महीयते
शिवादि सर्वलोकेषु भुक्त्वा भोगानशेषतः २१८
क्रमादागत्य लोकेऽस्मिन् सिंहासनपतिर्भवेत्
दश गावो वृषश्चैको वृषभैकादशी स्मृता २१९
शिवाय विनिवेद्यैवं अवधारय तत्फलम्
रुद्रैकादशतुल्याढ्यो बलभोगादिभिर्गुणैः २२०
शिवादि सर्वलोकेषु यथेष्टं मोदते सुखी
कल्पकोटिसहस्राणि कल्पकोटिशतानि च २२१
भुक्त्वा तु विपुलान्भोगान् अशेष कुलजैः सह
तदन्ते ज्ञानमासाद्य प्रसादात्परमेष्ठिनः २२२
विमुच्य मोहकलिलं स्वातन्त्र्यवावतिष्ठति
सवृषं गोशतं दद्यात् शिवायातीव शोभनम् २२३
त्रिसप्तकुलजैः सार्धं शृणु यत्फलमाप्नुयात्
सूर्यकोटिप्रतीकाशैः सर्वकाम समन्वितैः २२४
महायानैरसङ्ख्यातैः अमरासुरपूजितः
शतरुद्रबलोपेतो वीरभद्र ईवापरः २२५
गत्वा शिवपुरं दिव्यं अशेषाधिपतिर्भवेत्
भुक्त्वा तु विपुलान्भोगान् प्रलये समुपस्थिते २२६
मोहकञ्चुकमुत्सृज्य स कैवल्यमवाप्नुयात्
सर्वज्ञः परमः शुद्धः सामान्येव व्यवस्थितः २२७
शिववत्परिपूर्णश्च शिववत्पतिरव्ययः
यो दद्यादुभयमुखीं शिवायातीव शोभनम् २२८
सप्तद्वीपां क्षितिं दत्वा यत्पुण्यं तदवाप्नुयात्
पादद्वयं शिरोर्धं च यदा वत्सो विनिर्गतः २२९
तदादौ पृथिवी ज्ञेया तद्दातास्यान्महीप्रदः
इति शिवधर्मपुराणे व्रतोपवासगोप्रदानाध्यायो नाम दशमोऽध्यायः १०

श्री नन्दिकेश्वर उवाच
सर्वेषामेव वर्णानां शिवाश्रमनिषेविणाम्
शिवधर्माः शिवेनोक्तो धर्मकामार्थमुक्तये १
ब्राह्मणः क्षत्रियो वैश्यः स्त्रीशूद्रो वा शिवाश्रमी
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुकः २
स्वाश्रमादुत्तरे कुर्यात् पुष्पारामं सुशोभनम्
आग्नेय्यामग्न्यगारं च ऐशान्यामीश्वरालयम् ३
प्रदेशासंभवे कुर्यात् यत्र स्यात्सम्भवो भुवः
शिवस्य दक्षिणे कुर्यात् तद्भक्ताभ्यागतालयम् ४
नैरृत्यां च समिद्देशं वारुण्यामुदकाश्रयम्
वायव्यां धान्यदेशं वै कौबेर्यां भाण्डगूढकम् ५
त्रिसंध्यमर्चयेदीशं अग्निकार्यं च शक्तितः
एककालं त्रिकालं वा पूजयेच्छक्तितः शिवम् ६
असम्पूज्य शिवं मोहात् न भुञ्जीत कदाचन
एष धर्मः परो ज्ञेयः शेषो भवतु वा न वा ७
कार्यातिपातसंरोधाद्राष्ट्रविभ्रमणादिषु
मनसा पूजयेद्भक्त्या वाचिकैर्वा जपादिभिः ८
शिवाश्रमाश्रितैः पूजा कर्तव्या भक्तितः सदा
मनसा पूजयेद्योगी पुष्पैर्वारण्यसंभवैः ९
शिवार्थं पुष्पहिंसार्या न भवेत्तु स हिंसकः
यद्यल्पमपि चात्मार्थं हिंसते हिंसकस्तथा १०
शिवार्चनपरो नित्यं तद्भक्तातिथिपूजकः
पर्वमैथुनवर्जी स्याद् धीमांच्छिवगृहाश्रमी ११
देवाग्न्यतिथिभैक्षार्थं पचेन्नैवार्थकारणात्
आत्मार्थं यः पचेन्मोहात् नरकार्थं स जीवति १२
देवार्थं पचनं येषां सन्तानार्थं च मैथुनम्
स्वर्गार्थं जीवितं तेषां नरकार्थं विपर्यये १३
शिवाग्निगुरुपूजाभिः पापैरेतैर्न लिप्यते
अन्यैश्च पातकैर्घोरैः तस्मात्सम्पूजयेत्त्रयम् १४
वित्ततृतीयभागेन प्रकुर्वीत शिवार्चनम्
कुर्वीत वा तदर्धेन यतोऽनित्यं हि जीवितम् १५
न्यायेनोपार्जयेद्वित्तं अन्यायं परिवर्जयेत्
अन्यायेनार्जितैर्द्रव्यैः नरकार्थं स जीवति १६
यः शिवब्रह्मचारी स्यात् स शिवार्चाग्नितत्परः
भवेज्जितेन्द्रियः शान्तो नैष्ठिको भौतिकोऽपि वा १७
सर्वरोगविनिर्मुक्तः कन्दमूलफलाशनः
शिववैस्वानसो ज्ञेयः शिवार्चनपरो भवेत् १८
निवृत्तः सर्वरागेभ्यः शिवध्यानरतः सदा
ज्ञेयः शिवयतीन्द्रोऽयं भस्मनिष्ठो जितेन्द्रियः १९
रुद्राक्षकंकणं हस्ते जटैका चैव मस्तके
लिङ्गं शिवाश्रमस्थानां भस्मना च त्रिपुण्ड्रकम् २०
शिरसा धारयेत्कोटिं कर्णयोश्च सहस्रकम्
शतकोटिगलेबद्धं सहस्रं बाहुमध्यतः २१
अप्रमाणफलं हस्ते रुद्राक्षस्य तु धारणात्
उच्छिष्टो वापि कण्ठेन युक्तो वा सर्वपातकैः २२
हरन्ति सर्वपापाश्च रुद्राक्षस्पर्शनेन तु
रुद्राक्षकण्ठमाश्रित्य श्वानोऽपि क्रियते यदि २३
सोऽपि रुद्रत्वमाप्नोति किं पुनर्मानबादयः
हस्ते मूर्ध्न्युपवीते वा रुद्राक्षं धारयेत यः २४
आगम्य सर्वसत्वानां रुद्रलोकं स गच्छति
रुद्रभक्तैः सदा धार्या रुद्रसंख्या जटाःशुभाः २५
ध्वंसनि सर्वदुःखानां ताभी रुद्रत्वमाप्नुयात्
सितेन भस्मना कुर्यात् त्रिसन्ध्यं यस्त्रिपुण्ड्रकम् २६
सर्वपापविनिर्मुक्तः शिवलोके महीयते
रुद्राग्नेर्यत्परं वीर्यं तद्भस्म परिकीर्तितम् २७
ध्वंसनं सर्वदुःखानां सर्वपापविशोधनम्
योगी सर्वदुःखानां आपादतलमस्तकम् २८
त्रिसंध्यमाचरेन्नित्यं आशु योगमवाप्नुयात्
यः स्नानमाचरेन्नित्यं आग्नेयं संयतेन्द्रियः २९
कुलैकविंशमुत्तार्य स गच्छेत्परमां गतिम्
भस्मस्नानं जलस्नानाद् असंख्येयगुणाधिकम् ३०
तस्माद्वारुणमुत्सृज्य स्नानमाग्नेयमाचरेत्
सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् ३१
तत्फलं लभते सर्वं भस्मस्नानान्न संशयः
महापातकयुक्तो वा युक्तो वा सर्वपातकैः ३२
भस्मस्नानं निषेवेत मुच्यते सर्वपातकैः
भस्मस्नानात्परं स्नानं पवित्रं नैव विद्यते ३३
इत्युक्त्वा मुनिदेवेभ्यः स्नातोऽनेन शिवःस्वयम्
ततःप्रभृति ब्रह्माद्या मुनयश्च शिवार्थिनः ३४
सर्वपर्वसु यत्नेन भस्मस्नानं प्रचक्रिरे
तस्मादेतच्छिवस्नानं आग्नेयं यः समाचरेत् ३५
अनेनैव शरीरेण स रुद्रो नात्र संशयः
दुःशीलयुक्तो वा यो वा को वाऽप्यलक्षणम् ३६
भूतिशासनसंयुक्तः स पूज्ये राजपुत्रवत्
गुणवत्पात्रपूजायां तस्य शासनपूजनन् ३७
शासनं पूजयेत्तस्माद् अविचारं शिवाज्ञया
शिवाज्ञापूजनात्साक्षात् शिवो भवति पूजितः ३८
अविकल्पमतिस्तस्मात् पूजयेच्छिवशासनम्
सोऽपि यां गतिमाप्नोति न तां यज्ञशतैरपि ३९
आचमेत्तोय विधिना निर्लेपः शिवभस्मना
गन्धलेपशिवुध्यर्थं नित्यमद्भिरुपस्पृशेत् ४०
गन्धलेपविहीनोऽपि भावतुष्टो विशुद्ध्यति
भावशुद्ध्या भवेच्छुद्धिः शुद्धभावस्ततो भवेत् ४१
भस्मस्नानेन यत्पूर्वं पापमामरणान्तिकम्
जन्मान्तरकृतं यत्तद् दहत्यग्निरिवेन्धनम् ४२
स्नानं वारुणमाग्नेयं दिव्यं वायव्यमानसे
पञ्चस्नानानि विप्राणां विहितानि विशुद्धये ४३
वारुणं वारिणां स्नानं आग्नेयं भस्मना भवेत्
वृष्ट्या सातपया दिव्यं वायव्यं रजसा गवाम् ४४
मानसं ध्यानमात्रेण विहितं शिवयोगिनाम्
उदकुम्भसहस्रेण मृदाढकशतेन वा ४५
अपि वर्षसहस्रेण भावदुष्टो न शुद्ध्यति
भावपूतं चरेच्छौचं वस्त्रपूतं जलं पिबेत् ४६
दृष्टिपूतं न्यसेत्पादं सत्यपूतं वचो वदेत्
जटाकलापधारी स्यात् पक्षे वा वपनं भवेत् ४७
यदेव पुण्यं यज्ञेन तत्पुण्यं वपनाद्भवेत्
जटी मुण्डी शिखी वापि भिक्षाशी विगतस्पृहः ४८
मौनी भूतानुकम्पश्च यतिः शान्तमनाश्चरेत्
माधूकरीं चरेद्वृत्तिं एकान्नं परिवर्जयेत् ४९
उपवासात्परं भैक्षं एकान्नं गृहिणाऽऽहृतम्
यः सर्वसङ्गनिर्मुक्तः शिवः शिवपरायणः ५०
सोऽपीह वपनं कृत्वा योगीन्द्रानुचरो भवेत्
वसेदायतने नित्यं सगणः शिवधार्मिकः ५१
योगिनामन्नदानेन योगस्थानमवाप्नुयात्
पुष्पारामैककर्तात्मा पुष्पवाटी क्रियापरः ५२
त्रिस्नानपूजा संयुक्तः कौपीनाच्छादनः सदा
योगिनां भक्तियोगेन योगस्थानमवाप्नुयात् ५३
शिवध्यानपरः शान्तः शिवधर्मपरायणः
सर्व एवाश्नमा ज्ञेयाः शिवधर्माः शिवाश्रमाः ५४
महाव्रताष्टकं कार्यंईशानोक्तं शिवार्थिभिः
सर्वव्रतानां प्रवरं अस्मिन्धर्मः समाप्यते ५५
शिवे भक्तिः शिवे शान्तिः अहिंसा सर्वदा शमः
सन्तोषः सत्यमस्तेयं ब्रह्मचर्यं तथाष्टकम् ५६
यथा सम्भवपूजाभिः कर्मणा मनसा गिरा
शिवेभक्तिः सदा कार्यो तद्वच्च शिवयोगिषु ५७
स्वदेहान्निर्विशेषेण शिवभक्तांश्च पालयेत्
भयदारिद्र्य रोगेभ्यः तेषां कुर्यात्प्रियाणि च ५८
शिवस्य परिपूर्णस्य किं नाम क्रियते जनैः
यत्कृतं शिवभक्तानां तत्कृतं च शिवे भवेत् ५९
सदूरमपि गन्तव्यं यत्र माहेश्वरो जनः
प्रयत्नेनापि द्रष्टव्यं तत्र सन्निहितो हरः ६०
माहेश्वरस्य भक्तस्य शिवार्चनरतस्य च
पूजां कृत्वा यथान्यायं अश्वमेधफलं भवेत् ६१
नित्यं शिवकथा सक्तो नित्यं शिवपरायणः
अर्चयित्वा यथान्यायं गाणपत्यमवाप्नुयात् ६२
शिवाश्रमगतान्भक्त्या शिवभक्तान्प्रपूजयेत्
स्वागतासनपाद्यार्घ्यमधुपर्कादिभोजनैः ६३
पूजयित्वा यथान्यायं यः कुर्यादभिवादनम्
दशवर्षसहस्राणि रुद्रलोके महीयते ६४
प्राप्ताय शिवभक्ताय तुष्टिं व्रजति यो नरः
वर्षकोटिसहस्राणि वसेद्वैश्रवणालये ६५
प्राप्ताय शिवभक्ताय यो दद्याच्छुभमासनम्
त्रिंशद्वर्षसहस्राणि पुरन्दरपुरे वसेत् ६६
शिवभक्तस्य विप्रस्य पादौ प्रक्षाल्य भक्तितः
घृतेनाभ्यज्य चोद्वर्त्यं विष्णुलोके महीयते ६७
शिवभक्तान्द्विजान्प्राप्तान् मधुपर्काद्यनुक्रमात्
भोजयित्वा यथान्यायं शिवलोके महीयते ६८
श्रान्तसंवाहनं कृत्वा सोमलोके महीयते
मृदुशय्याप्रदानेन सिंहासनपतिर्भवेत् ६९
प्रतिश्रयप्रदानेन हैमं स्वर्गे गृहं लभेत्
जलं सुशीतलं दत्वा सर्वान्कामानवाप्नुयात् ७०
लभेद्दीपप्रदानेन ज्ञानचक्षुरतीन्द्रियम्
दत्वाम्भः स्नानशौचार्थं वारुणं लोकमाप्नुयात् ७१
स्वेदबिन्दुपरीताङ्गं अध्वनःश्रमकर्शितम्
संबीज्य तालवृन्तेन वायुलोके महीयते ७२
क्षुत्पिपासातुरं शान्तं आर्तं रोगिणमेव वा
पालयित्वा यथान्यायं सर्वपापैः प्रमुच्यते ७३
रोगार्तस्य शिवं कृत्वा भेषजाद्यैः प्रयत्नतः
युगकोटिशतं साग्नं शिवलोके महीयते ७४
कालात्पुनरिहायातः समस्तज्ञानपारगः
सुरूपः सुभगः श्रीमान् निर्मलो निरुपद्रवः ७५
शरणागतमुद्विग्नं आक्रान्तं रिपुतस्करैः
माभैषीरिति चाश्वास्य शिवलोके महीयते ७६
दारिद्र्यार्णवनिर्मग्नं हाहाभूतमचेतसम्
समुद्धृत्य यथाशक्त्या सर्वान्कामानवाप्नुयात् ७७
पतिताः शस्त्रसङ्कीर्णाः श्वचाण्डालादिपक्षिणाम्
कारुण्यात्सर्वभूतानां देयमन्नं स्वशक्तितः ७८
अत्यल्पमपि कारुण्याद् दत्तं भवति चाक्षयम्
तस्मात्सर्वेषु भूतेषु कारुण्याद्दानमुत्तमम् ७९
अभावे तृणभूम्यम्भः पत्रमूलफलानि च
दत्वागताय नार्योऽपि स्वर्गं यान्ति प्रियेण वा ८०
महीभृत्स्वर्गसोपानं यथालोके प्रियं वचः
इहामुत्र सुखं तेषां वाग्येषां मधुरस्वरा ८१
अमृतस्यन्दिनीं वाचं चन्दनस्पर्शशीतलाम्
धर्माविरोधिनीमुक्त्वा सुखमक्षयमाप्नुयात् ८२
अम्लं दानेन विप्रेन्द्र यजनाध्ययनेन वा
इदं तत्स्वर्गसोपानं अमलं यत्प्रियं वचः ८३
प्रत्युत्थायाभिगमनं वर्ज्यं चैवाप्रियं वचः
पूर्वाभिभाषणं तुष्टः प्रत्येकं स्वर्गहेतवः ८४
संपृच्छेदागतं भक्त्या चागतं स्वागतं वदेत्
गमनेऽप्यस्य वक्तव्यं पन्थानः स इते शिवाः ८५
शिवं भवतु मे नित्यं अशेषार्थप्रसाधकम्
आशीर्वादमिदं वाच्यं सर्वकार्येषु सर्वदा ८६
नमस्काराभिवादेषु स्वस्ति मङ्गलवाचने
शिवं भवतु वो ब्रूयात् सर्वकार्येषु सर्वदा ८७
एवमादिशिवाचारं अनुष्ठाय शिवाश्रमी
अशेषपापनिर्मुक्तः शिवलोके महीयते ८८
शिवभक्तेषु या भक्तिः तद्भक्तै -- तेजलैः
शिवे भवति सा नित्यं भक्तिर्भक्तेष्वनुष्ठिता ८९
आकृष्टस्ताडितो वापि यो नाक्रोशेन्न ताडयेत्
वागाद्यविकृता स्वस्था क्षान्तिरेषां सुनिर्मला ९०
सर्वेषामेव तीर्थानां तीर्थं ज्ञानस्य पारगम्
ज्ञानतीर्थात्परं तीर्थं यत्पूर्णं क्षान्तिवारिणा ९१
ज्ञानयोगतपोजप्य यज्ञदानानि सत्क्रियाः
क्रोधिनस्तु वृथा यस्मात् तस्मात्क्रोधं विवर्जयेत् ९२
मर्मास्थि प्राणहृदयं निर्दहेदप्रियं वचः
न वाच्यमप्रियं तस्मात् शिवभक्तैर्विशेषतः ९३
क्षमादानं तपः सत्यं क्षमाऽहिंसा क्षमाश्रुतम्
क्षमास्वर्गश्च मोक्षश्च क्षमयैतज्जगद्वृतम् ९४
स शूरः सात्विको धीमान् स तपस्वी जितेन्द्रियः
येनाशु क्षान्तिशस्त्रेण क्रोधशत्रुर्विवर्जितः ९५
निर्मलैः क्षान्तिसलिलैः लोकमाह्लाद्य शीतलैः
इह सौख्यमवाप्नोति परत्र च शिवां गतिम् ९६
आत्मवत्सर्वभूतेषु यो हिताय शिवाय च
स यथावर्तते नित्यं अहिंसेयमुदाहृता ९७
सर्वशास्त्रेषु वेदेषु सर्वयज्ञेषु यत्फलम्
यो न हिंसति भूतानि तस्य पुण्यं ततोऽधिकम् ९८
त्रैलोक्यमपि यो दद्याद् अखिलं रत्नपूरितम्
चरेत्तपांसि सर्वाणि न तत्तुल्यमहिंसया ९९
अहिंसा परमो धर्मः शक्तानां परिकीर्तितम्
अशक्तानामयं धर्मो दानयज्ञादिपूर्वकः १००
नातः परं प्रपश्यामः क्वचिदप्यागमे वयम्
पुंसामभयदानात्तु दानमद्भुतमुत्तमम् १०१
सर्वभूताभयं दत्वा यश्चरेच्छान्तमानसः
इहैव सर्वभूतेभ्यो न भयं तस्य विद्यते १०२
यो न हिंसति भूतानि स्थावराणि चराणि च
सर्वदुःखविनिर्मुक्तः परां शान्तिमवाप्नुयात् १०३
पापे रमन्ते पापिष्ठा अतिक्रूरा नराधमाः
आभूतसम्प्लवं यावत्पच्यन्ते नरकाग्निषु १०४
स्वदेशे यो नृपः कुर्यात्प्राणिघातनिवारणम्
स नृपः सह देशेन मोदते विभवैश्चिरम् १०५
देहान्ते च महाभोगैः समस्तकुलसंयुतः
कल्पकोटिशतं साग्रं शिवलोके महीयते १०६
यः स्वार्थं वा परार्थं वा समस्तेन्द्रियसंयमः
अकार्ये न प्रवर्तेत तमाहुः शान्तिलक्षणम् १०७
यः प्रशान्तेन्द्रियग्रामः सदाचन्द्रांशु निर्मलः
स प्राप्नोति शिवस्थानं शान्तः शान्तेन चेतसा १०८
यथा कालोपपन्नेन वृत्तिन्याया गतेन च
उत्पन्नार्थेषु यस्तोषः सन्तोषः परिकीर्तितः १०९
अतीतनागतार्थेषु वर्तमानेषु सर्वदा
नानुस्मरत्यतीतार्थान् सन्तोषोऽयमुदाहृतः ११०
तेन सर्वमखैरिष्ठं तेन चाप्तं च तत्फलम्
येन तृष्णाग्रहं त्यक्तं सन्तोषं सम्यगाश्रितः १११
सन्तोषैश्वर्ययुक्तानां यत्सुखं शान्तचेतसाम्
देवासुरमनुष्याणां कुतः स्वप्नेऽपि तत्सुखम् ११२
स्वानुभूतं स्वदृष्ठं च यः पृष्टार्थं न गृह्यते
यथा भूतार्थकथनं इत्येतत्सत्यलक्षणम् ११३
सत्यं सत्यं पुनः सत्यं एतावत्सत्यलक्षणम्
परपीडाविनिर्मुक्तं यथावद्वचनं शुभम् ११४
अश्वमेधायुतं पुण्यं सत्यं च तुलया धृतम्
अश्वमेधायुतात्सत्यं अयुतं दशभिर्गुणैः ११५
सत्ये प्रतिष्ठितं ज्ञानं धर्मः सत्ये प्रतिष्ठितः
सत्ये प्रतिष्ठितं शौचं मोक्षः सत्ये प्रतिष्ठितः ११६
स्वामिना रक्ष्यमाणानां उत्सृष्टानां च सम्भ्रमात्
परस्वानामनादानं इदमस्तेय लक्षणम् ११७
अलोभेन परस्वेषु यो मनागपि वर्तते
कर्मणा मनसा वाचा स तृप्तः शिवतां व्रजेत् ११८
मैथुनस्यासमाचारः तदचित्तमजल्पनम्
लक्षणं ब्रह्मचर्यस्य समस्तेन्द्रियसंयमम् ११९
ब्रह्मचर्ये स्थितं सत्यं ब्रह्मचर्ये स्थितं तपः
ब्रह्मचर्ये स्थितं ज्ञानं ब्रह्मचर्ये स्थिता क्षमा १२०
ये स्थिता ब्रह्मचर्येण ते नित्यं संस्थिताः शिवे
एकरात्रोषिता यापि सा गति ब्रह्मचारिणः १२१
सा गृहस्थैर्न सम्प्राप्ता कृतयज्ञशतैरपि
यः सम्भवे समुत्सृज्य चेतसाऽऽस्ते निराकुलम् १२२
अहो पतिवरः श्रीमान् नोपयाति स्त्रियं रतौ
पर्ववर्जं व्रजन्नोऽपि परदारविवर्जिताः १२३
ब्रह्मचारिण एतेऽपि विज्ञेया हि शिवाश्रमे
शिवाग्न्यतिथिगुर्वर्थं कुर्यात्कर्मणि सर्वदा १२४
अहिंसा कल्पविज्ञेयो न स तस्याश्रमत्रये
शिवाग्निगुरुकार्येषु समुद्युक्तः सदा नरः १२५
तस्य सिध्यन्ति कर्माणि मनसा चिन्तितान्यपि
एष धर्मव्रतः श्रीमान् अष्टशाखः शिवोद्भवः १२६
न शक्यो विस्तराद्वक्तुं उपशाखाप्रभेदतः
यः पठेत शिवे भक्त्या आचाराध्यायमुत्तमम् १२७
त्रिसप्तकुलजैःसार्धं शिवलोके महीयते
इति शिवधर्मशास्त्रे शिवाश्रमाचारो नाम एकादशोऽध्यायः

श्रीनन्दिकेश्वर उवाच
अथ संक्षेपतो वक्ष्ये शिवभक्तानुकम्पया
आद्यशाखोपशाखार्थं शिवभक्तिसमुद्भवम् १
क्वचिद्गच्छन्यदा पश्येत् शिवलिङ्गं प्रपूजितम्
सदा सम्पूज्य यो गच्छेत् स रुद्रो नात्र संशयः २
स्नाननैवेद्य वस्त्राणि नाददीत प्रियाण्यपि
दत्तं यच्छिवमुद्दिश्य तस्माद्दानेन यत्फलम् ३
दृष्ट्वा यतनमासाद्य नमस्कृत्वा शिवं व्रजेत्
चतुष्पथं नदीं शैलं शिवयोगिनमेव च ४
अवतीर्य नमस्कृत्वा दृष्ट्वा लिंगं दृढव्रतः
हस्तियानासनत्वेभ्यः शिवयोगितपस्विनम् ५
तत्र स्थोऽपि नमस्कृत्वा शिवलोके महीयते
यूकाश्वोष्ट्रवयो मत्स्य मांसं लशुनकृञ्जनम् ६
कवकद्वयं च सौवीरं कुत्सितानि विवर्जयेत्
निर्यासमप्यपक्वान्नं नित्यमेव विवर्जयेत् ७
सर्वदानोग्रतपसां अश्वमेधायुतस्य च
फलं प्राप्नोति यत्नेन मत्स्यमांसस्य वर्जनात् ८
सर्वदोषाश्रयं मद्यं इति पुराद्विवर्जयेत्
क्व मद्यं क्व शिवे भक्तिः क्व मांसं क्व शिवार्चनम् ९
मध्यमांसप्रसक्तानां दूरे तिष्ठति शंकरः
सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् १०
तत्फलं लभते सर्वं यो मद्यं परिवर्जयेत्
गर्भादिसर्वसंस्कारे श्मशानान्ते च भोजनम् ११
रजस्वलादिसंस्पृष्टिं शिवभक्तो विवर्जयेत्
न गोब्राह्मणभस्मानि लिङ्गच्छायां पदा स्पृशेत् १२
न लङ्घयीत निर्माल्यं अप्सु तिष्ठेन्न नग्नतः
धारयेच्छिवनिर्माल्यं भक्त्या लेह्यं च भक्षयेत् १३
भक्षणान्नरकानाच्छेत् तद्विलङ्घ्य च मूढधीः
न तद्यः स्नानपूजाद्यं प्रतिगृह्णाति शङ्करः १४
यत्र नैवेद्यनिर्माल्यं अखलत्पूजयेच्छिवम्
भूप्रदेशे यथा कश्चित् स्वदेहमलदूषितम् १५
नाश्रयेत तथा रुद्रो नरं निर्माल्यदूषितम्
असंस्पृश्यो भवेत्सो यं यो यस्याङ्गमलं स्पृशेत् १६
तस्यां न संस्पृशेल्लिङ्गं नरो निर्माल्य दूषितः
यत्र नैवेद्य निर्माल्यं संकीर्णं कलशादिभिः १७
स्नानं वै क्रियते भक्त्या न तद्गृह्णाति शङ्करः
मूर्तयो याः शिवस्याष्टौ तासु निन्दां विवर्जयेत् १८
गुरौ च शिवभक्तेषु नृपसाधुतपस्विषु
अष्टम्यादिषु सर्वेषु पक्षयोरुभयोरपि १९
श्मश्रुकर्माजनाभ्यङ्गं प्रस्थानं च विवर्जयेत्
कुर्याद्विशेषतः पूजां नक्तं चात्र समाचरेत् २०
परमेश्वरपूजां कुर्यान्मन्त्री समाहितः
शौचं च मृज्जलैः कुर्याद्गन्धलेपापनुत्तये २१
योऽश्वनीयादन्नमस्नातः पापमद्यात्स केवलम्
तस्मात्स्नात्वा प्रभुञ्जीत भस्मना सलिलेन वा २२
प्रातः स्नात्वाम्भसा गच्छेद्भस्मना च शिवं पदम्
त्रिसन्ध्यमाचरेद्यस्तु शिवार्चामग्निपूजनम् २३
पापकञ्चुकमुत्सृज्य शिवलोके महीयते
कुर्यात्प्रतिचतुर्मासं महापूजा प्रवर्तनम् २४
भोजनं शिवभक्तानां शक्त्या दानं प्रकल्पयेत्
त्रिसप्तकुलसंयुक्तः समस्तैश्वर्यसंयुतः २५
वसेच्छिवपुरे नित्यं चातुर्मास्यप्रवर्तनात्
एवं पर्वोत्सवे श्राद्धे पुष्पेषु दिवसेषु च २६
शिवं सम्पूज्य नैवेद्यैः पूजयेच्छिवयोगिनम्
पितरः सर्वदेवाश्च शिवमाश्रित्य संस्थिताः २७
प्रीते शिवे तु ते सर्वे सुप्रीताः स्युर्न संशयः
ज्ञानवैराग्य सम्पन्नभस्मनिष्ठं जितेन्द्रियम् २८
भोजयेच्छान्तमनसं श्राद्धेषु शिवयोगिनम्
यदीश्वरादितत्त्वानां परिज्ञानं विवेकता २९
भवेत्साधर्म्यवैधर्म्यात् एतज्ज्ञानस्य लक्षणम्
नानिष्टद्वेष्टि संप्राप्तं न चेष्ठमभिनन्दति ३०
रागद्वेषविहीनो यः सवैराग्येषु वर्तते
भस्मनिष्ठा प्रतिष्ठस्य दिवसेनापि यत्फलम् ३१
न तच्छक्यं गृहस्थेन प्राप्तुं क्रतुशतैरपि
वश्येन्द्रियः प्रसन्नात्मा यो न द्वेष्टि न काङ्क्षति ३२
शब्दादि विषयान्भोगान् स विज्ञेयो जितेन्द्रियः
ज्ञानवैराग्यसम्पन्नः शिवः शान्तेन चेतसा ३३
युक्तः षडङ्गयोगेन शिवयोगी प्रकीर्तितः
शिवधर्मोद्भवं ज्ञानं ज्ञानाद्वैराग्य संभवः ३४
ज्ञानवैराग्ययुक्तस्य शिवयोगः प्रवर्तते
शिवयोगाच्च सर्वज्ञः परिपूर्णः सुनिर्वृतः ३५
स्वात्मन्यवस्थितः शुद्धः शिववत्सर्वगो भवेत्
सर्वेषामेव भूतानां उत्तमं मानुषं स्मृतम् ३६
सर्वेषामेव वर्णानां त्रैवर्ण्याः पुरुषा वराः
पुरुषेभ्यो द्विजः श्रेष्ठो द्विजेभ्यो वेदपारगः ३७
वेदविद्भ्यस्तु विद्वांसः तेभ्यस्तत्वार्थचिन्तकः
तत्त्वविद्भ्यश्च नानार्थ प्रतिबुद्धो विशिष्यते ३८
नानार्थतत्त्वकोटिभ्यो विशिष्टो योगमाश्रितः
योगिनां योगिकोटिभ्यः परमः शिवयोगिराट् ३९
तत्त्वार्थवेदिकोटिभ्यः शिवयोगी विशिष्यते
योगज्ञा योगसिद्धाश्च पितरो योगसंभवाः ४०
भुङ्क्ते प्रीणन्ति ते तस्माद्विशेषोऽतीव योगिनः
सर्वयज्ञतपोदानैः कृतैर्दत्तैश्च यत्फलम् ४१
तत्फलं लभते सर्वं सम्भोज्य शिवयोगिनम्
यश्चाग्निरुद्रात्माकालदक्षिणाभव ऋत्विजः ४२
ऋग्यजुस्सामसंयोग एवं यज्ञः प्रकीर्तितः
ब्रह्मचर्यं जपो मौनं क्षान्तिराहारलाघवम् ४३
इत्येत्तत्तपसो रूपं अघोरं पञ्चलक्षणम्
यद्यदिष्ठं विशिष्टं च न्यायप्राप्तं च यद्भवेत् ४४
तत्तद्गुणवते देयं एतद्दानस्य लक्षणम्
सर्वदोषैर्विरहितां सर्वसस्य प्ररोहिणीम् ४५
दद्याद्भूमिं जलोपेतां भूमिदानं तदुच्यते
एकच्छत्रां महीं कृत्वा द्विजेभ्यः प्रतिपादयेत् ४६
सम्पूर्णां यो नृपः कश्चिन्महीदानं तदुच्यते
कन्यामलङ्कृतां दद्याद् अलं जीवनसंयुताम् ४७
द्विजाय वेदविदुषे कन्यादानं तदुच्यते
शिवभक्ताय विप्राय दत्वा कन्यां स्वलङ्कृताम् ४८
कुलत्रयं समुद्धृत्य स्वर्गं प्राप्नोति निश्चलम्
सर्वदोषविनिर्मुक्तं तरुणीं यः पयस्विनीम् ४९
यो गामलङ्कृतां दद्याद् गोदानमिति कीर्तितम्
मध्यमोत्तमवस्त्राणि यो दद्यात्तु नवानि च ५०
एतत्समासतो ज्ञेयं वस्त्रदानस्य लक्षणम्
ब्रह्मचारी समाधिस्थः शान्तः शिवपरायणः ५१
अहोरात्रं न भुञ्जीत उपवासस्य लक्षणम्
चत्वारिंशत्समायुक्तं पिण्डानां हि शतद्वयम् ५२
मासेनाद्याद्यथाकालं इति चान्द्रायणं स्मृतम्
ऋषिभिः सर्वशास्त्रज्ञैः तपोनिष्ठैर्जितेन्द्रियैः ५३
देवैश्च सेवितं तोयं क्षितौ तीर्थं तदुच्यते
एवमाद्यानि दानानि तपांसि नियमानि च ५४
समस्तानि ममाशक्यं -- वक्तुमेव च
सूक्ष्माणि साधकान्यद्य मुने वक्ष्यामि तानि ते ५५
रुद्रावतारस्थानानि पुण्यक्षेत्राणि निर्दिशेत्
मृतानां तेषु रुद्रत्वं शिवक्षेत्रेषु देहिनाम् ५६
वस्त्रापथं महाकोटिरविमुक्तमहालयम्
गोकर्णं भद्रकर्णं च सुवर्णाक्षं च दीप्तिमत् ५७
स्थाणीश्वरं च विख्यातं त्रिषु लोकेषु विश्रुतम्
स्थानाष्टकमिदं ज्ञेयं रुद्रक्षेत्रमहोदयम् ५८
वस्त्रापथादि स्थाण्वन्तं रुद्रसायुज्यमाप्नुयात्
छगलण्डं चिरण्डं च माकोटं मण्डलेश्वरम् ५९
कालञ्जरं शङ्कुकर्णं स्थूलेश्वरं स्थलेश्वरम्
पवित्राष्टकमित्येतत् महापुण्य विवर्धनम् ६०
मृताः प्रयान्ति तत्रैव शिवाख्यं परमं पदम्
गया चैव कुरुक्षेत्रं नाखलं नखलं तथा ६१
विमलं चाट्टहासं च महेन्द्रं भीममष्टकम्
एतद्गुह्याष्टकं नाथं सर्वपापविमोचनम् ६२
गत्वा तु पुरुषः श्रीमान् प्राप्नोति शिवमन्दिरम्
श्रीपर्वतं हरिश्चन्द्रं जल्पमाम्रादिकेश्वरम् ६३
मध्यमं च महाकालं केदारं भैरवं तथा
एतद्गुह्यातिगुह्यं च अष्टकं समुदाहृतम् ६४
सन्तर्प्य च पितॄन्सर्वान् शिवं शान्तं पदं व्रजेत्
अमरेशं प्रभासं च नैमिशं पुष्करं तथा ६५
आषाढी दण्डि मुण्डी च भारभूतिश्च लाकुलम्
लकुलीश्वरं च विख्यातं तथा प्रत्यात्मको महान् ६६
पुण्यात्मिकाष्टकमिदं क्षेत्रं रुद्रस्य कीर्तितम्
तत्र यान्ति मृताः सर्वे रुद्रस्य परमं पदम् ६७
पञ्चाष्टकमिदं ज्ञेयं शिवक्षेत्रस्य लक्षणम्
दानाद्यावसथं कूपं उद्यानं देवतालयम् ६८
स्थानेष्वेतेषु यः कुर्यात् सोऽक्षयं फलमाप्नुयात्
क्षमास्पृहा दयासत्यं दानं शीलं तपःश्रुतम् ६९
एतदष्टाङ्गमुद्दिष्टं परं पात्रस्य लक्षणम्
शिवे भक्तिः क्षमासत्यं अशेषेन्द्रियसंयमः ७०
सर्वभूतेषु मैत्री च शिवधर्मस्य लक्षणम्
शिवयोगी शिवज्ञानी शिवधर्मरतश्च यः ७१
इत्येतत्त्रिविधं ज्ञेयं शिवपात्रस्य लक्षणम्
यज्ञोपवासदानानि तपस्तीर्थफलानि च ७२
सम्पूर्णानि लभेद्भक्त्या संभोज्य शिवयोगिनम्
शिवमुद्दिश्य दातव्यं अनपेक्ष्य गुणाश्रयम् ७३
वित्तमीश्वरभक्तेभ्यः शिवदानस्य लक्षणम्
शिवभक्तद्विजं भक्त्या यः श्राद्धादिषु भोजयेत् ७४
कुलत्रयं समुद्धृत्य शिवलोके महीयते
बहुनात्र किमुक्तेन शिवभक्तं प्रपूजयेत् ७५
शिवभक्तः स्थितो भुङ्क्ते साक्षाद्भुङ्क्ते सदाशिवः
द्विजानां वेदविदुषां कोटिं सम्भोज्य यत्फलम् ७६
तत्फलं कोटिगुणितं सम्भोज्य शिवयोगिनम्
कोटिक्रतुः वीतरागाय भिक्षादानेन तद्भवेत् ७७
तस्माच्छ्राद्धे विशेषेण पुण्येषु दिवसेषु च
शिवमुद्दिश्य विप्रेन्द्रान् शिवभक्तांश्च भोजयेत् ७८
मृद्भस्माधार पात्राणि वंशालाबुकृतानि च
सोऽपि यां गतिमाप्नोति सोऽपि यज्ञशतैरपि ७९
तस्मान्मान्यश्च पूज्यश्च रक्षणीयश्च सर्वदा
नाममात्र प्रसन्नोऽपि क्षणार्धमपि यः शिवे ८०
स मुनिः स महासाधुः स योगी स शिवं व्रजेत्
गृहे श्राद्धस्य यत्पुण्यं अरण्ये तच्छताधिकम् ८१
तन्नदीष्वयुतं पुण्यं अनन्तं स्याच्छिवालये
निवेदयीत यः सम्यग् आसनं रुद्रवेत्रजम् ८२
नागदन्तमयं वापि सिंहासनपतिर्भवेत्
कौपीनादीनि कार्पासं निवेद्य शिवयोगिने ८३
युगकोटिसहस्राणि शिवलोके महीयते
और्णं प्रावरणं दत्वा विस्तीर्णं शिवयोगिने ८४
रोम्णि रोम्णि सुवर्णस्य दत्तस्य फलमाप्नुयात्
व्याघ्रजं मृगचर्मादि तिलपिष्टविमर्दितम् ८५
मृदुरक्तं कषायेण निवेद्य शिवयोगिने
यावत्तद्रोमसंख्यातं मृगव्याघ्रादि चर्मणि ८६
तावद्युगसहस्राणि रुद्रलोके महीयते
जलस्थलपवित्राणि निवेद्य शिवयोगिने ८७
त्राणार्थं सूक्ष्मतन्तूनां अब्दलक्षं वसेद्दिवि
त्रिविष्कम्भसमायुक्तं यः प्रदद्यात्कमण्डलुम् ८८
महासरांसि यद्दत्वा तत्पुण्यं सकलं लभेत्
मृदुवासश्च सुश्लिक्ष्णं व्रणदोषविवर्जितम् ८९
निवेद्य शिवयोगिभ्यः सर्वयज्ञफलं लभेत्
द्व्यंशदारु गर्वाद्यं सुकृतं भैक्षभाजनम् ९०
निवेद्य शिवयोगिभ्यः सदा सत्रफलं लभेत्
दन्तधावनमुष्णीषं निवेद्य शिवयोगिने ९१
दिव्यस्त्रीभोगसंयुक्तं हैमं स्वर्गे पुरं लभेत्
योगपट्टोपवीतानि निवेद्य शिवयोगिने ९२
वस्त्रयुग्मसहस्रस्य दत्तस्य फलमाप्नुयात्
शिवभक्ताय यो दद्याद् उपानत्काष्ठपादुके ९३
स वराश्वसहस्रस्य दत्तस्य फलमाप्नुयात्
कल्माषदण्डं यो दद्याद् अन्यं वा शिवयोगिने ९४
बलावष्टम्भयुक्तात्मा भवेद्दण्डाधिनायकः
ताम्रं वंशातपत्रं वा निवेद्य शिवयोगिने ९५
एकच्छत्रं सभुञ्जीत मण्डलं शतयोजनम्
पात्रान्तरविशेषेषु दत्तेषु शिवयोगिने ९६
भवेत्क्षितिपतिः श्रीमान् कुलाधारो गुणान्वितः
शिवज्ञानाभियुक्ताय यो दद्यात्पुस्तकं महत् ९७
युगकोटिशतं दिव्यं शिवलोके महीयते
भवेदिहागतः श्रीमान् सुखाढ्यो वेदपारगः ९८
सम्यग्ज्ञानार्थवक्ता च बृहस्पतिसमो भवेत्
यः कुर्यात्कारयेद्वापि वपनं शिवयोगिनाम् ९९
वर्षलक्षं महायानैः शिवलोके महीयते
यः कारयेच्च भक्तानां वपनं शिवयोगिनाम् १००
इह लोके सुखं प्राप्य सोऽन्ते मुक्तिमवाप्नुयात्
एवं वस्तु विशेषेषु दत्तेषु शिवयोगिने १०१
भवेद्भक्ति विशेषेण फलं पात्रविशेषतः
शिवयोगी शिवज्ञानी शिवधर्मरतश्च यः १०२
शिवं प्राप्नोति तुल्यत्वात् सर्वतुल्यगुणाः स्मृताः
रुद्रो रुद्राक्षदानेन भवतीति किमद्भुतम् १०३
तन्मालया सदाह्लस्ते रुद्रश्च क्रमते क्षितौ
रुद्राक्षाणि स्वयं रुद्रो ये च रुद्राक्षधारकाः १०४
रुद्राक्षधारणात्तस्माद् इह रुद्रः परत्र च
रुद्राक्षमालां यो धत्ते भक्त्या कण्ठे करेऽपि वा १०५
शतार्धार्ध प्रमाणेन स रुद्रो नात्र संशयः
जपाच्च रुद्रमंत्राणां कोटिकोटिगुणोत्तरम् १०६
हस्ते मूर्ध्न्युपवीते वा कृत्वा रुद्राक्षमालिकाम्
यश्च भुञ्जित तद्भुक्तं रुद्रो भुङ्क्ते स्वयं प्रभुः १०७
रुद्राक्षधारणं तस्मात् नित्यमेव प्रशस्यते
परात्मानुग्रहार्थाय ब्राह्मणस्य विशेषतः १०८
यति मात्रोपकरणं दत्वाल्पमपि भक्तितः
वर्षलक्षं महाभोगैः शिवलोके महीयते १०९
कुर्यादावसथं सौम्यं सुगुप्तं शिवयोगिनाम्
शिवालयकृतेर्यावत् तावत्पुण्यं समं भवेत् ११०
यथा शिवस्तथा योगी यथा योगी तथा शिवः
तेन योगीन्द्रपात्रेषु दानमण्वपि चाक्षयम् १११
यद्यदस्योपयुज्यते तद्देयं तस्य भक्तितः
उपयोगप्रदानेन प्रशस्तं लोकमाप्नुयात् ११२
व्याख्याने शिवधर्मस्य कृत्वा मण्डपमुत्तमम्
शोभितं मृदुगन्धाद्यैः न्यसेत्तत्रासनं शुभम् ११३
पुस्तकं तद्गुरोः स्थाप्य पूजयेदुभयं ततः
शिवधर्मप्रवक्तारं आचार्यं पूजयेत्ततः ११४
शिवश्च शिवधर्मश्च तुल्यमेव न संशयः
पूजयेच्छिवधर्मं च तुल्यमेतद्द्वयं यतः ११५
य एवं न्यायतो भक्त्या शिवधर्मं शृणोति च
आयुर्विद्यां यशः सौख्यं लब्ध्वान्ते तु शिवं व्रजेत् ११६
इत्येष वः समाख्यातः शिवधर्मः सनातनः
सर्वेषां शिवभक्तानां अयं वाच्यो विजानता ११७
शिवाश्रमेषु यो भक्त्या शिवधर्मं प्रवर्तयेत्
शृणुयाच्च भवेत्तस्य शास्त्रोक्तमखिलं फलम् ११८
श्रुत्वैवमखिलं धर्मं आख्यातं ब्रह्मसूनुना
चन्द्रात्रेय सगोत्राय शिवभक्ताय सारवत् ११९
सारात्मकं समुद्धृत्य चन्दात्रेयेण धीमता
उक्तं द्वादशकाध्यायं धर्मशास्त्रं शिवात्मकम् १२०
यावदस्योपदेशेन शिधर्मं समाचरेत्
तावत्तस्यापि तत्पुण्यं उपदेष्टुर्न संशयः १२१
उपदेशं विना यस्माद् धर्मो ज्ञातुं न शक्यते
न च कर्तुमविज्ञानात् तस्मात्तुल्यं तयोः फलम् १२२
उपदेष्टानुमन्ता च कर्ता कारयिता च यः
कृतानुपालकश्चैव पञ्चतुल्यफलाः स्मृताः १२३
कर्तुरप्यधिकं पुण्यं तत्कृतं यस्तु पालयेत्
यस्मादायतनं क्षिप्रं नाशं गच्छेदपालितम् १२४
भूमिरत्नाश्च नागानां गोहिरण्यादिवाससाम्
भवेत्पूर्वोपसृष्टानां दानाच्छ्रेयोऽनुपालनम् १२५
दातुरप्यधिकं पुण्यं तद्दत्तं योऽनुपालयेत्
तत्पालितं तु तद्यात्नात् शीघ्रमेव प्रणश्यते १२६
तस्मादुपदिशेद्धर्मं स्वयं वापि समाचरेत्
कारयेदनुमन्यैत कृतमन्यैश्च पालयेत् १२७
इति पञ्चप्रकारोऽयं शिवधर्मः प्रकीर्तितः
धर्मार्थं काममोक्षार्थं सर्वभूतानुकम्पया १२८
कपालमालिन्देवेश महाकाल नमोऽस्तु ते
चन्द्रार्धमूर्धन् भूतेश चर्मवासः सदाप्रिय १२९
गजचर्मरत स्वामिन् चण्डनाथ नमोऽस्तु ते
त्रिशूलपाणे देवेश त्रिणेत्र त्रिदशेश्वर १३०
त्रिमूर्ते च महायोगिन् त्रिपुरान्तकः ते नमः
सर्वेश हे सर्वगत सर्ववित्सर्वतोमुख १३१
सर्वत्रावस्थितोऽनन्त सर्वव्यापिन्नमोऽस्तु ते
स्थूलसूक्ष्मविभावेन व्याप्तं येन चराचरम् १३२
अनन्तानादिकाव्यक्त व्यक्ताव्यक्ताय ते नमः
अनन्तं शाश्वतं विश्वं ध्रुवं नित्यमुमापतिम् १३३
श्रीकण्ठं सर्पकण्ठं च नीलकण्ठं नमाम्यहम्
विद्यामयी तनुर्यस्य विद्याधीनं च तत्स्थितम् १३४
सकलं निष्कलं चैव कलाहीन नमोऽस्तु ते
योगाधिपो योगगम्यो योगात्मा योगसंभवः १३५
महायोगधरो यश्च योगेश्वर नमोऽस्तु ते
सर्वं तेजोमयं देहं तेजसामपि तेजसम् १३६
तेजोनिधिश्च यश्चेदं तेजोतीत नमोऽस्तु ते
ओमित्येकाक्षरं यत्तु प्रख्यातं भुवनत्रये १३७
तस्याप्यर्थपयोरस्तु सदाशिव नमोऽस्तु ते
अर्धमात्रापरार्धं यत् तस्यार्धस्य तु योऽधिपः १३८
परापरं परं शान्तं शान्त्यतीत नमोऽस्तु ते
अकारोकारयोरूर्ध्वं मकारो बिन्दुरेव च १३९
निर्वाणपरमातीत तदतीत नमोऽस्तु ते
वालाग्रशतभागस्य शतधा कल्पितं च यत् १४०
अनौपम्यमनामं च शिवशान्त नमोऽस्तु ते
अनन्तानादिमव्यक्तं देहस्थं देहवर्जितम् १४१
हृदिस्थं सर्वभूतेषु व्योमस्थं यन्नमोऽस्तु ते
अग्राह्यमिन्द्रयैर्वायत् सर्ववस्तु विवर्जितम् १४२
स्वदेशे गूढमानन्त गुहावास नमोऽस्तु ते
गुहातीतश्च गूढात्मा गुह्यानां गुह्यगोचर १४३
शुभावासश्च यो नित्यं गूढार्थं च नमोऽस्तु ते
महादेव महाबोध महामाया महाबल १४४
महाज्ञान परातीत ज्ञानगुह्य नमोऽस्तु ते
ईशानमीश्वरं ब्रह्म सदाशिवमजं परम् १४५
निर्द्वन्द्वं निर्मलं साक्षात् यं महेश नमोऽस्तु ते
एकाक्षरं चतुर्भेदं चतुर्मन्त्रैरलङ्कृतम् १४६
चतुष्कलं कलातीतं बिन्द्वतीत नमोऽस्तुते
इति स्तवेन दिव्येन यः स्तौति परमेश्वरम् १४७
स मुक्तः सर्वपापेभ्यः शिवसायुज्यमाप्नुयात्
सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु १४८
सर्वः सुगतिमाप्नोतु सर्वस्य तु भवेच्छिवम्
इति शिवधर्मशास्त्रे नन्दिकेश्वरप्रोक्ते
शिवधर्मशास्त्रे द्वादशोऽध्यायः
शिवधर्मे पूर्वं संपूर्णम्