Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) >याज्ञवल्क्यशिक्षा (Yājñavalkya Śhikṣhā)

यज्ञवल्क्यऋषिप्रणीता याज्ञवल्क्यशिक्षा

अथ याज्ञवल्क्यकृता यजुःशाखीयोपयोगिनी शिक्षा मूलमात्रं किञ्चिट्टिप्पणीयुतारभ्यते ।
अथातस्त्रैस्वर्यलक्षणं व्याख्यास्यामः ।
उदात्तश्चानुदात्तश्च स्वरितश्च तथैव तल्-
लक्षणं वर्णयिष्यामि दैवतं स्थानमेव च १
शुक्लमुच्चं विजानीयान्नीचं लोहितमुच्यते
श्यामं तु स्वरितं विद्यादग्निमुच्चस्य दैवतम् २
नीचं सोमं विजानीयात्स्वरिते सविता भवेत्
उदात्तं ब्राह्मणं विद्यान्नीचं क्षत्रियमेव च ३
वैश्यं तु स्वरितं विद्याद्भारद्वाजमुदात्तकम्
नीचं गौतममित्याहुर्गार्ग्यं तु स्वरितं विदुः ४
विद्यादुदात्तं गायत्रं नीचं त्रैष्टुभमेव च
जागतं स्वरितं विद्यादेवमेव नियोगतः ५
गान्धर्ववेदे ये प्रोक्ताः सप्त षड्जादयः स्वराः
त एव वेदे विज्ञेयास्त्रय उच्चादयः स्वराः ६
उच्चौ निषादगान्धारौ नीचावृषभधैवतौ
शेषास्तु स्वरिता ज्ञेयाः षड्जमध्यमपञ्चमाः ७
निमेषो मात्राकालः स्याद् विद्युत्कालेति चापरे
अक्षरात्तुल्ययोगत्वान् मतिः स्यात् सोमशर्मणः ८
सूर्य्यरश्मिप्रतीकाशात् कणिका यत्र दृश्यते
आणवस्य तु सा मात्रा मात्रा तु चतुराणवी ९
मानसे चाणवं विद्यात् कण्ठे विद्याद् द्विराणवम्
त्रिराणवं तु जिह्वाग्रे निस्सृतं मात्रिकं विदुः १०
अवग्रहे तु यः कालस्त्वर्धमात्रा विधीयते
पदयोरन्तरे काले एकमात्रा विधीयते ११
ऋचोऽर्धे तु द्विमात्रः स्यात्त्रिमात्रः स्यादृगन्तके
रिक्तं तु पाणिमुत्क्षिप्य द्विमात्रे धारयेद्बुधः १२
एकमात्रो भवेद्ध्रस्वो द्विमात्रो दीर्घ उच्यते
त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं चार्धमात्रिकम् १३
विवृत्तौ चावसाने तु ऋचोऽर्धे च तथा परे
पदे च पादसंस्थाने शून्यहस्तो विधीयते १४
प्रणवं तु प्लुतं कुर्याद्व्याहृतीर्म्मात्रिका विदुः
चाषस्तु वदते मात्रां द्विमात्रां वायसोऽब्रवीत् १५
मयूरस्तु त्रिमात्रां वै मात्राणामिति संस्थितिः
वर्णो जातिश्च मात्रा च गोत्रं छन्दश्च दैवतम् १६
एतत्सर्वं समाख्यातं याज्ञवल्क्येन धीमता
प्रणवं प्राक् प्रयुञ्जीत व्याहृतीस्तदनन्तरम् १७
सावित्रीं चानुपूर्व्येण ततो वेदान्समारभेत्
हस्तौ तु संय्यतौ धार्य्यौ जान्वोरुपरि संस्थितौ १८
गुरोरनुमतिं कुर्यात्पठन्नान्यमतिर्भवेत्
ऊरुभागे तृतीयेऽधः करं न्यस्याथ दक्षिणम् १९
प्रसन्नमानसो भूत्वा किञ्चिन्नम्रमधोमुखः
कूर्म्मोऽङ्गानीव संहृत्य हस्तदृष्टिर्दृढं मनः २०
स्वस्थः प्रशान्तो निर्भीतो वर्णानुच्चारयेद्बुधः
नाभ्या हन्यान्न निर्हन्यान्न गायेन्न च कम्पयेत् २१
यथादावुच्चरयेद्वर्णांस्तथैवैतान्समापयेत्
निवेश्य दृष्टिं हस्ताग्रे शास्त्रार्थमनुचिन्तयेत् २२
सममुच्चारयेद्वर्णान्हस्तेन च मुखेन च
स्वरश्चैवाथ हस्तश्च द्वावेतौ युगपत्स्थितौ २३
हस्ताद्भ्रष्टः स्वराद्भ्रष्टो न वेदफलमश्नुते
न करालो न लम्बोष्ठो नाव्यक्तो नानुनासिकः २४
गद्गदो बद्धजिह्वश्च न वर्णान्वक्तुमर्हति
प्रकृतिर्यस्य कल्याणी दन्तोष्ठौ यस्य शोभनौ २५
प्रगल्भश्च विनीतश्च स वर्णान्वक्तुमर्हति
शङ्कितं भीतमुद्घुष्टमव्यक्तं सानुनासिकम् २६
काकस्वरं शीर्षगतं तथा स्थानविवर्जितम्
विस्वरं विरसं चैव विश्लिष्टं विषमाहतम् २७
व्याकुलं तालुहीनं च पाठदोषाश्चतुर्दश
संहिता स्वारबहुला पदसंज्ञाभिराकुला २८
क्रमसन्धिसमाकीर्णो दुस्तरो मन्त्रसागरः
ऋक्संहितां त्रिरभ्यस्य यजुषां वा समाहितः २९
साम्नां वा सरहस्यां च सर्वपापैः प्रमुच्यते
संहिता नयते सूर्यं पदानि शशिनः पदम् ३०
क्रमोऽपि नयते सूक्ष्मं यत्तत्पदमनामयम्
कालिन्दी संहिता ज्ञेया पदयुक्ता सरस्वती ३१
क्रमेणावर्तयेद्गङ्गा शम्भोर्वाणी तु नान्यथा
यथा महाह्रदं प्राप्य क्षिप्तो लोष्टो विनश्यति ३२
एवं दुश्चरितं सर्वं वेदे त्रिवृत्तिमञ्चति
आम्रपालाशबिल्वानामपामार्गशिरीषयोः ३३
वाग्यतः प्रातरुत्थाय भक्षयेद्दन्तधावनम्
खदिरश्च कदम्बश्च करवीरकरञ्जकौ ३४
एते कण्टकिनः पुण्याः क्षीरिणश्च यशस्विनः
तेनास्य करणं सूक्ष्मं माधुर्यं चोपजायते ३५
त्रिफला लवणाक्तेन भक्षयेच्छिष्यकः सदा
क्षीणमेधाजनन्येषा स्वरवर्णकरी तथा ३६
ज्ञातव्यश्च तथैवार्थो वेदानां क्रमसिद्धये
पठन्मात्रापपाठात्तु पङ्के गौरिव सीदति ३७
आगमं कुरु यत्नेन करणं हि तदात्मकम्
चुलुर्नौका स्फुटो दण्डी स्वस्तिको मुष्टिकाकृतिः ३८
एते वै हस्तदोषाः स्युः परशुश्चेति सप्तमः
न चासौ मुष्टिबन्धी स्यान्न चात्युत्तममाचरेत् ३९
हस्तहीनं तु योऽधीते स्वरवर्णविवर्जितम्
ऋग्यजुःसामभिर्दग्धो वियोनिमुपगच्छति ४०
स्वरहीनं तु योऽधीते मन्त्रं वेदविदो विदुः
न साधयति यजूäषि भुक्तमव्यञ्जनं यथा ४१
ऋचो यजूäषि सामानि हस्तहीनानि यः पठेत्
अनृचो ब्राह्मणस्तावद्यावत्स्वारं न विन्दति ४२
ज्ञातव्यश्च तथैवार्थो वेदानां कर्मसिद्धये
पाठमात्रावसानस्तु पङ्के गौरिव सीदति ४३
हस्तेनाधीयमानस्य स्वरवर्णान् प्रयुञ्जतः
ऋग्यजुःसामभिः पूतो ब्रह्मलोकमवाप्नुयात् ४४
न कुर्वीत पदं दीर्घं न चात्यन्तविलम्बितम्
पदस्य ग्रहणं मोक्षं यथा शीघ्रगतिर्हयः ४५
यथा वाणी तथा पाणी रिक्तं तु परिवर्जयेत्
यत्र यत्र स्थिता वाणी पाणिस्तत्रैव तिष्ठति ४६
यथा धनुष्यवितते शरे क्षिप्ते पुनर्गुणः
स्वस्थानं प्रतिपद्येत तद्वद्धस्तगतः स्वरः ४७
उत्तानं सोन्नतं किञ्चित्सुव्यक्ताङ्गुलिरञ्जितम्
स्वरविद्धं करं कुर्यात्प्रादेशोद्देशगामिनम् ४८
मनुष्यतीर्थोच्चं कृत्वा पितृतीर्थे जलं व्रजेत्
नामितं करपृष्ठे तु सुव्यक्ताङ्गुलिमोक्षणम् ४९
अङ्गुष्ठस्योत्तरं पर्वयवस्योपरि यद्भवेत्
प्रादेशस्य तु यो देशस्तन्मात्रं चालयेत्करम् ५०
उदात्तं भ्रुवि पातव्यम् प्रचं नासाग्र एव च
हृत्प्रदेशेऽनुदात्तं च तिर्यग्जात्यादिकाः स्वराः ५१
स्वरिते त्र्यङ्गुलं विन्द्यान्निपाते तु षडङ्गुलम्
उत्थाने तु जात्यस्य हस्तस्यानुपथस्य च ५२
तच्चतुर्भागमात्रं तु भूयस्तेनैव वर्तयेत् ५३
अभ्यासार्थे द्रुतां वृत्तिं प्रयोगार्थे तु मध्यमाम्
शिष्याणामुपदेशार्थे कुर्याद्वृत्तिं विलम्बिताम् ५४
ऐन्द्री तु मध्यमा वृत्तिः प्राजापत्या विलम्बिता
अग्निमारुतयोर्वृत्तिः सर्वशास्त्रेषु निन्दिता ५५
मुष्ट्याकृतिर्म्मकारे तु नकारे तु नखग्रहः
अनुस्वारेऽङ्गुलिक्षेप ऊष्मान्तेऽङ्गुलिमोक्षणम् ५६
ककारान्ते टकारान्ते ङणे चाङ्गुलिनामनम्
पञ्चाङ्गुल्यं पकारे च तकारे कुण्डलाकृतिः ५७
ऊर्ध्वक्षेपाच्चयोष्मा स्यादधःक्षेपाच्च पातयेत्
एकैकामुत्सृजेद्धीरः स्वरिते तूभयं क्षिपेत् ५८
स्वरिते समभिक्षिप्ते संयोगो यत्र दृश्यते
द्विमात्रिके क्षिपेदेकां मात्रिके तूभयं क्षिपेत् ५९
स्वरितं यद्भवेत्किञ्चिद् वकारं सह संयुतम्
त्रिरङ्गुलं ततो नीचं कृत्वा प्रासारयेद्बुधः ६०
स्वरितसञ्ज्ञे निक्षिप्ते संयोगो यत्र दृश्यते
ऊष्माणं तं विजानीयान्निःक्षेपादुभयोरपि ६१
अङ्गुष्ठाकुञ्चनं लघावनुस्वारे त्वपाäरसम्
दीर्घे रङ्गे च तर्जन्याः प्रसारः परिकीर्त्तितः ६२
ह्रस्वादग्रं भवेद् दीर्घो दीर्घादग्रे भवेल्लघुः
संयोगे च परे ह्रस्वः सिäह्यसि निदर्शनम् ६३
तर्जन्यङ्गुष्ठयोः स्पर्श उदात्तं प्रतिविद्यते
नीचं तु मध्यमां कुर्याच्छेषं नीचतरं क्रमात् ६४
अनुस्वारो द्विमात्रः स्याद् ऋवर्णव्यञ्जनोदये
ह्रस्वो वा यदि वा दीर्घं देवानाä हृदये तथा ६५
स्वरितं यद्भवेत्किञ्चित्सवकारोष्मकं ततः
दीर्घं वा यदि वा ह्रस्वं निक्षेप उभयोरपि ६६
जात्ये च स्वरिते चैव वकारो यत्र दृश्यते
कर्तव्यस्तूभयोः क्षेमो व्वायव्व्यैरिति दर्शनम् ६७
शृङ्गवद्वाथ वत्सस्य कुमारीकुचयुग्मवत्
उभयक्षेपस्वरो यत्र स विसर्ग उदाहृतः ६८
विसर्गान्तः स्वरो यत्र स्वरितो यत्र दृश्यते
दीर्घश्चैव वकारश्च तत्रोभक्षेप उच्यते ६९
यथा बालस्य सर्पस्य उच्छ्वासो लघुचेतसः
एवमूष्मा प्रयोक्तव्यो हकारं परिवर्जयेत् ७०
त्रिविधा तु भवेदूष्मा प्रचिता बलका तरा
स्वरिते प्रचितां विद्यान्निपाते बलकां विदुः ७१
उत्थाने तु तथा तारा एताभिस्त्रिभिरूष्मभिः
मात्रामादौ विदित्वा तु ततः क्षेपं प्रयोजयेत् ७२
अक्षरं भजते काचित्काचिद्द्वित्वे प्रतिष्ठिता
समानजातिका काचित्काचिदूष्मप्रदायिनी ७३
विवृत्तिप्रत्ययादूष्मां प्रवदन्ति मनीषिणः
तामेव प्रतिषेधन्ति आ ई उ ए निदर्शनम् ७४
अष्टौ स्वरान्प्रवक्ष्यामि तेषामेव तु लक्षणम्
जात्योऽभिनिहितः क्षैप्रः प्रश्लिष्टश्च तथापरः ७५
तैरो व्यञ्जनसंज्ञश्च तथा तैरो विरामकः
पादवृत्तो भवेत्तद्वत्ताथाभाव्य इति स्वराः ७६
एकपदे नीचपूर्वः सयवो जात्यः इष्यते
अपूर्वोऽपि परस्तद्वद्धा॒न्यं क॒न्या स्वरित्यपि ७७
एकपद इत्याह । नीचपूर्वः सयकार-
वकारो वा जात्यः स्वरो भवति ।
यथा म॒नुष्यानिति । सुप्वेति ।
च॒म्वोवेति । धा॒न्यम् । क॒न्या इव ।
स्वः॑ व्यी॒र्यम् । एव ä ह्याह यानि-
चान्यानीदृग्लक्षणानि पदानि भवन्तीति ।
ए ञो आभ्यामुदात्ताभ्यामकारो रिफितश्च यः ।
अकारो लुप्यते यत्र तं चाभिनिहितं विदुः ७८
यथा कु॒क्कु॒टः । अ॒सि॒ । कु॒क्कु॒टोऽसि ।
श्वा॒त्रः । अ॒सि॒ । श्वा॒त्रोऽसि ।
ते॒ । अ॒प्स॒रसाम् । तेऽप्स॒रसाम् ।
ते । अ॒व॒न्तु । ते॑ऽवन्तु ।
व्वे॒दः । अ॒सि॒ । व्वे॒दोऽसि ।
मा॒रु॒तः । अ॒सि॒ । मा॒रु॒तोऽसि ॥
कः । अ॒सि॒ । कोऽसि ।
भा॒गः । अ॒सि॒ । भा॒गोऽसि ॥
सः । अ॒हम् सो॒ऽहम् ।
एव ä ह्याह यानिचान्यानीदृग्लक्षणानि पदानि भवन्ति ॥
इ उ वर्णौ यदोदात्तावापद्येते यवौ क्वचित् ।
अनुदात्ते परे नित्यं विद्यात् क्षैप्रस्य लक्षणम् ७९
यथा त्रि । अ॒म्ब॒क॒म् त्र्य॑म्बकम् ।
द्रु । अ॒न्नः॒ । द्व॑न्नः व्वी॒डु । अ॒ङ्गः॒ ॥ व्वी॒ड्वङ्गः ।
व्वा॒जी । अर्व्व॒न् । व्वा॒ज्ज्यर्व्वन् ।
एव ä ह्याह यानि चान्यानीदृग्लक्षणानि ॥
पदानि भवन्ति । इकारो दृश्यते
यत्र इकारेण च संय्युतः ।
उदात्तश्चानुदात्तेन प्रश्लिष्टो भवति स्वरः ८०
यथा अ॒भि । इ॒न्व॒ता॒म् अभीन्वताम् ।
अ॒भीमम् । व्वि । इ॒हि॒ । व्वीहि ॥
स्रु॒चि । इ॒व॒ । स्रु॒चीव
एव ä ह्याह यानि चान्यानीदृग्लक्षणानि पदानि भवन्ति ॥
उदात्तपूर्वो यत्किञ्चिद्व्यञ्जनेन युतः स्वरः ।
एष सर्वबहुस्वारस्तैरोव्यञ्जन उच्यते ॥ ८१ ॥
यथा इडे॑ । रन्ते॑ । हव्व्ये॑ । काम्ये॑ । चन्द्रे॑ ।
ज्योते॑ । आदि॑ति । सरस्वति । महि॑ । व्विश्श्रु॑ति ॥
एव ä ह्याह यानि चान्यानीदृग्लक्षणानि पदानि भवन्ति ॥
उदात्तावग्रहाद्यस्तु स्वरितः स्यादनन्तरः
तैरोविरामं तं विद्यात्तैरोव्यञ्जमन्यथा ॥ ८२ ॥
यथा गोम॒दिति॒ गो । मत् । गोप॑ता॒विति॒ गो । प॑तौ ।
प्रप्प्रेति प्र । प्र॑ । तातेति॒ ता । ता॑ ।
वित॒तेति॒ वि । त॑ता समिद्ध॒ऽइति॒ सम् । इ॑द्ध ॥
एव॑ ä ह्याह यानि चान्यानिदृग्लक्षणानि पदानि भवन्ति ॥
स्वरयोरन्तरे काले विवृत्तिर्दृश्यते यदि ।
सःस्वारःपादवृत्तः स्यात्का ईमिति निदर्शनम् ॥ ८३ ॥
यथा श्वि॒त्रऽआदि॒त्त्यनाम् । का॑ऽईम् । पुत्रऽ॑ईधे ॥
एव ä ह्याह यानि चान्यानीदृग्लक्षणानि पदानि भवन्ति ॥
उदात्ताक्षरयोर्म्मध्ये भवेन्नीचस्त्ववग्रहः
ताथाभाव्यो भवेत्स्वारस्तनूनप्त्रे निदर्शनम् ॥ ८४ ॥
यथा तनू॒नप्प॒त्र॒ऽइति॒ । तनू॒ नप्प॒त्रे॑ । तनू॒नपादिति॒ ।
तनू । नपा॑त् । तनूनपात॒मिति॒॑ । तनू॒ नपा॑तम् ॥
एव ä ह्याह यानि चान्यानि ईदृग्लक्षणानिपदानि भवन्ति ॥
माध्यन्दिनविरोधी स्यात्ताथाभाव्यस्तु यः स्वरः ।
स्वरौ नैवात्र दृश्येते भिन्नोदात्तानुदात्तकौ ॥ ८५ ॥
स्वरस्पर्शान्तस्थोष्माणः कण्ठ्यजिह्वामूलीयोपध्मा-
नीयतालव्यमूर्धन्यदन्त्यौष्ठ्ययमविसर्जनीयरङ्गानुना-
सिकनिपाताश्च किंवर्णदैवत्यलिङ्गाः । स्वराः शुक्ला
नाना दैवत्याः । स्पर्शाः कृष्णाः । अन्तस्थाः कपिलाः ।
ऊष्माणोऽरुणाः । यमा नीलाः । नासिक्या हरिताः ।
अनुस्वारः पीतः । जिह्वामूलीयो रक्तः । उपध्मानीयः
पीतः । विसर्जनीयः श्वेतः । रङ्गः शबलः ।
आनुनासिक्योऽतिनीलः । इत्यन्तर्मध्ययोर्नासिक्यं
विद्यात् । द्विरुदात्ताख्या इतिस्मृताः । उदमनुदनिपाते
आद्य ये चोपसर्गे नामाख्यातोपसर्गनिपाताश्चेति ।
किंदेवत्याः । अक्षराणां च के पुरुषाः । काः स्त्रियः ।
कानि नपुंसकानि इत्यत्र ब्रूमः । कण्ठ्या आग्नेयाऽ-
अकारादयः । जिह्वामूलीया नैरृत्याः ककाराः ।
तालव्याः सौम्याश्चकारादयः । मूर्धन्या वायव्याष्ट-
कारादयः । दन्त्या रौढ्यास्तकारादयः । औष्ठ्या-
आश्विनाः पकारादयः । शेषा वैश्वदेवा इत्येवमादयः ॥
स्वरास्तु ब्राह्मणा ज्ञेया वर्गाणां प्रथमाश्च ये ।
द्वितीयाश्च तृतीयाश्च चतुर्थाश्चापि भूमिपाः ८६
वर्गाणां पञ्चमा वैश्या अन्तस्थाश्च तथैव च
ऊष्माणश्च हकारश्च शूद्रा एव प्रकीर्तिताः ८७
शुक्लवर्णानि नामानि आख्याता रोहिता मताः
कपिलास्तूपसर्गाश्च कृष्णाश्चैव निपातकाः ८८
भारद्वाजकमाख्यातं भार्गवं नाम भाष्यते
वासिष्ठा उपसर्गास्तु निपाताः काश्यपाः स्मृताः ८९
सर्वं तु सौम्यमाख्यातं नाम वायव्यमिष्यते
आग्नेयस्तूपसर्गः स्यान्निपातो वारुणः स्मृतः ९०
आदित्यो मुनिभिः प्रोक्तः सर्वाक्षरगणस्य च
स्वरा विसर्जनीयाश्च यमाः पुंल्लिङ्गकाः स्मृताः ९१
पञ्चमाश्च तथान्तस्थाः स्त्रीलिङ्गाः परिकीर्त्तिताः
शेषाक्षराणि षण्ढानि प्राहुर्लिङ्गविवेचकाः ९२
सन्धिश्चतुर्विधो भवति । लोपागमविकाराः प्रकृति-
भावश्चेति । तत्र लोपो यथा अ॒य॒क्ष्माः । मा॒ ।
श॒तते॑जाः । व्वा॒युः । श॒तते॑जा व्वायुः ।
ति॒ग्मते॑जाः । द्वि॒ष॒तः । ति॒ग्मते॑जा द्विष॒तः ।
आगमो यथा प्र॒त्यङ् । सोमः॑ । प्रत्यङ्क्सोमः॑ ।
प्राङ् । सोमः॑ । प्राङ्क्सोमः॑ । अस्म्मान् । सी॒ते॒ ।
अ॒स्मान्त्सी॑ते । त्रीन् । स॒मुद्द्रान् । त्रीन्त्स॑मुद्द्रान् ।
विकारो यथा—आ इ॒दम् । एदम् । आ इ॒मे ।
एमे । आ इष्ट्यः॑ । एष्ट्ट॑यः । प्र । इ॒षि॒तः ।
प्रेषि॑तः । प्रकृतिभावो यथा—आ॒शुः । शिशा॑नः ।
आ॒शुः ऽशिशा॑नः । यु॒ञ्जा॒नः । प्प्रथ॒मम् ।
यु॒ञ्जा॒नः ऽप्प्रथ॒मम् । अदि॑तिः॒ षोडशाक्षरेण । दे॒वो-
वः सवि॒ता ॥
आकाशस्था यथा विद्युत्स्फुटितामणिसूत्रवत्
एषच्छेदो विवृत्तीनां यथा बालेषु कर्तरि ९३
द्वयोस्तु स्वरयोर्मध्ये सन्धिर्यत्र न दृश्यते
विवृत्तिस्तत्र विज्ञेया यऽइशे॑ति निदर्शनम् ९४
पिपीलिका पाकवती तथा वत्सानुसारिणी
वत्सानुसृजिता चैव चतस्रस्ता विवृत्तयः ९५
पिपीलिकाद्यन्तदीर्घा नाभ्या॑सीन्निदर्शनम् ९६
पाकवत्युभयोर्ह्रस्वा व्विन॑ऽइन्द्र निदर्शनम्
वत्सानुसृजिता चान्ते ता नऽ आवो॑ढमश्विना ९७
करिणी कुर्व्विणी चैव हरिणी हारिता यथा
तद्वद्धंसपदा नाम पञ्चैताः स्वरभक्तयः ९८
करिणी रहयोर्योगे कुर्विणी लहकारयोः
हरिणी रशयोर्योगे हरिता लशकारयोः ९९
या तु हंसपदा नाम सा तु रेफषकारयोः
दे॒वं ब॒र्हिरिति करिणी उप॑बल्हेति कुर्विणी १००
हरिणी द॒र्श॒त॒मिति श॒तव॑ल्शेति हारिता
व्वर्षो॒ व्वर्षीयसीत्याहुस्तथा हंसपदेति च १०१
रलाभ्यां पर ऊष्माणो यत्र स्युःस्वरितोदयाः
स्वरभक्तिरसौ ज्ञेया पूर्वमाक्रम्य पठ्यते १०२
स्वरभक्तिं प्रयुञ्जानस्त्रीन्दोषान्परिवर्जयेत्
इकारं चाप्युकारं च ग्रस्तदोषं तथैव च १०३
एतल्लक्षणमाख्यातं याज्ञवल्क्येन धीमता
सम्यक्पाठस्य सिद्ध्यर्थं शिष्याणां हितकाम्यया १०४
नैतत्स्वरितपूर्वाङ्गे नापराङ्गे कथंचन
न स्वरे न च मात्रायां कथं स्वारो विधीयते १०५
पराङ्गस्य तु यत्पूर्वं पूर्वाङ्गस्य तु यत्परम्
उभयोरर्द्धसंय्योगे स्वारं कुर्याद्विचक्षणः १०६
संय्योगे तु परं स्वार्य्यं परं संय्योगनायकम्
संय्युक्तस्य तु वर्णस्य न स्वार्य्यं पूर्वमक्षरम् १०७
उदात्तादनुदात्ते तु वामाया भ्रुव आरभेत्
उदात्तात्स्वरितोदात्तौ क्रमाद्दक्षिणतो न्यसेत् १०८
स्वरितादुत्तरे ये च प्रचयाँस्तान् प्रचक्षते
एकस्वरानपि च तानाहुस्तत्त्वार्थचिन्तकाः १०९
प्रचया यत्र दृश्यन्ते तत्र हन्यात्स्वरं बुधः
स्वरितः केवलो यत्र मृदुन्तत्र निपातयेत् ११०
दुर्बलस्य यथा राष्ट्रं हरते बलवान्नृपः
एवं व्यञ्जनमासाद्य अकारो हरते स्वरम् १११
उदात्तं नानुवर्तेत नीचं न स्वरितं तथा
विस्वरं तं विजानीयाद्दीर्घह्रस्वविवर्जितम् ११२
हरिवरुणवरेण्येषु धारा हि पुरुषेषु च
वैश्वानरो नकारे च शेषास्तु स्वरिता नराः ११३
द्वौ वः स्वार्यौ च स्वरितौ उदुत्तमं त्वं वदुत्तमं वरु
धारे चैवोरुधारे तु पुरुधारे च दोहने ११४
मात्रिकं वा द्विमात्रं वा स्वर्य्यते यदिहाक्षरम्
तस्यादितोऽर्द्धमात्रा स्याच्छेषं तु परतो भवेत् ११५
उच्चस्थानगते हस्ते स्वरितं नोपपद्यते
अधस्तात्तु यदागच्छेत्स्वरितं नापि तद्भवेत् ११६
उच्चादुच्चतरं नास्ति नीचान्नीचतरं तथा
अक्षराणि च तुल्यानि प्रचितान्युच्चगानि च ११७
स्वर उच्चः स्वरो नीचः स्वरः स्वरित एव च
स्वरप्रधानं त्रैस्वर्य्यं व्यञ्जनं तेन सस्वरम् ११८
मणिवद् व्यञ्जनान्याहुः सूत्रवत्स्वर इष्यते
व्यञ्जनान्यनुवर्तन्ते यत्र तिष्ठति सस्वरः ११९
आचार्या सममिच्छन्ति पदच्छेदं तु पण्डिताः
स्त्रियो मधुरमिच्छन्ति विक्रुष्टमितरे जनाः १२०
प्रथमा यत्र दृश्यन्ते सन्धिस्थानेषु पूर्वतः
स्ववर्गीयेण सँय्युक्ता मोक्षं कुर्वीत तत्र वै १२१
नकरान्ते पदे पूर्वे स्वश्रुतिः परतःस्थिते
तकारन्न प्रयुञ्जीत अत्र सन्धिं समुद्धरेत् १२२
नकारान्ते पदे पूर्वे शम्मश्श्रुभिः परतः स्थिते
छकारं न प्रयुञ्जीत ञ्शसन्धिं समुच्चरेत् १२३
ओकारः प्लुतविज्ञेयः प्लुतमग्ग्ना द्वितीयकम्
लाजीञ्छाजीं तृतीयं च विवेशेति चतुर्थकम् १२४
अ॒धः स्वि॑दासीत्पञ्चमं चोप॑रि॒ स्विदा॑सीच्च षष्ठकम् १२५
सप्तमं तु क्लिबे स्मारः अष्टमं नैव विद्यते
लृकारस्य तु दीर्घत्वं नास्ति वाजसनेयिनः १२६
तकारान्ते पदे पूर्वे चकारे परतः स्थिते
मोक्षं तत्रापि कुर्वीत यच्च॑ शे॒पे निदर्शनम् १२७
ककारान्ते पदे पूर्वे लकारे परतः स्थिते
खसवर्णं विजानीयाद्भिषक्सोमे॑न दर्शनम् १२८
ङकारान्ते पदे पूर्वे सकारे परतः स्थिते
कसवर्णं विजानीयात्प्राङ्क्सोम॑ इति दर्शनम् १२९
तकारान्ते पदे पूर्वे सकारे परतः स्थिते
थसवर्णंविजानीयात्तत्सवितुर्निदर्शनम् १३०
नैतन्माध्यन्दिनीयानां सस्थानत्वात्तयोर्द्वयोः
सस्थानेऽपि द्वितीयं स्यादापस्तम्बस्य यन्मतम् १३१
टकारान्ते पदे पूर्वे सकारे परतः स्थिते
ठसवर्णं विजानीयात्सम्म्रा॒ट् सम्भृ॑त इति निदर्शनम् १३२
नकारान्ते पदे पूर्वे सकारे परतः स्थिते
तसवर्णं विजानीयात्त्रीन्त्स॑मु॒द्द्रान्निदर्शनम् १३३
पकारान्ते पदे पूर्वे सकारे परतः स्थिते
पसवर्णं विजानीयाद्र॒प्प्स्वग्ग्नेति निदर्शनम् १३४
पकारान्ते पदे पूर्वे शकारे परतः स्थिते
पसवर्णं विजानीयाद॒नु॒ष्टुप्प्शा॑र॒दी यथा १३५
मकारान्ते पदे पूर्वे मवर्णे परतः स्थिते
मसवर्णं विजानीयादि॒मम्मे॑ति निदर्शनम् १३६
नकारान्ते पदे पूर्वे त्वंपदे परतःस्थिते
सकारं न प्रयुञ्जीत चि॒कि॒त्वान्त्वमिदं यथा १३७
वर्णे तु मात्रिके पूर्वे अनुस्वारो द्विमात्रिकः
द्विमात्रे मात्रिको ज्ञेयः संय्योगाद्यश्च यो भवेत् १३८
अनुस्वारो द्विमात्रः स्यादृवर्णव्यञ्जनोदये
ह्रस्वाद्वा यदि वा दीर्घाद्दे॒वाना॒र्ठ॒ हृदये यथा १३९
अनुस्वारस्योपरिष्टात्संवृतं यत्र दृश्यते
दीर्घं तं तु विजानीयाच्छ्रोता॑ ग्रावाणकं यथा १४०
अनुस्वारस्योपरिष्टात्सँय्योगो यत्र दृश्यते
ह्रस्वं तं तु विजानीयात्त्स॒ä॒स्त्थामिति निदर्शनम् १४१
अनुस्वारस्तु यो दीर्घादक्षराच्च भवेत्परः
स तु ह्रस्वं इति प्रोक्तो मन्त्रेष्वेव विभाषया १४२
ओभावश्च विवृतिश्च सषशा रेफ एव च
जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः १४३
यदोभावप्रसन्धानमुकारादिपरं पदम्
स्वरान्तं तादृशं विद्याद्यदन्यद्व्यक्तमूष्मणः १४४
ओभावमागता योष्मा तां तु केलिं विनिर्दिशेत्
विवृत्तिप्रत्ययादूष्मा विज्ञेया विकटाननां १४५
पादादौ च पदादौ च सँय्योगावग्रहेषु च
लीढाऽतिलीढा विद्युच्च शषसेषु प्रकीर्तिताः १४६
जिह्वामूले च रेफे च विज्ञेया चपला यथा
उपध्मानीयसहिता पुष्पिणीं तां विदुर्बुधाः १४७
अन्यत्र या भवेदूष्मा सुलभां ता विनिर्दिशेत्
ऊष्मप्राधान्यमेतस्य तस्मात्तां यत्नतोऽभ्यसेत् १४८
पादाद्यन्तं पदाद्यन्तं तथावग्रहकालिकम्
ईषत्स्पृष्टं विजानीयात्तस्मिन्काले तु कारयेत् १४९
पादादौ च पदादौ च सँय्योगावग्रहेषु च
जः शब्द इति विज्ञेयो योऽन्यः स य इति स्मृतः १५०
उपसर्गपरो यस्तु पदादिरपि दृश्यते
ईषत्स्पृष्टो यथा विद्युत्पदच्छेदात्परं भवेत् १५१
त्वदर्थवाचिनौ वोवां वा वै यदि निपातजौ
आदेशाश्च विकल्पार्था ईषत्स्पृष्टा इति स्मृताः १५२
विभाषया यकारः स्यात्तथा नेति पदात्परः
भवतीत्यपि पूर्वैव तथा च सपदादपि १५३
यदेव लक्षणं यस्य वकारस्यापि तद्भवेत्
यत्र तत्र विशेषः स्यादिदानीं स तु कथ्यते १५४
वकारस्त्रिविधः प्रोक्तो गुरुर्लघुर्लघूतरः
आदौ गुरुर्लघुर्म्मध्ये पदान्ते च लघूतरः १५५
यवर्णस्त्रिविधः प्रोक्तो गुरुर्लघुर्लघूतरः
आदौ गुरुर्लघुर्मध्ये पदान्ते तु लघूतरः १५६
सन्धिजौ तु पदान्तीयावुपसर्गपरौ लघू
अथ मा स न शब्देभ्यो विभाषाम्रेडिते यवौ १५७
पञ्चमादुत्तरो यो वो यदि चैकपदे भवेत्
संहितायां लघुः सोऽपि पदकाले गुरुर्भवेत् १५८
जात्ये च स्वरिते चैव वकारो यत्र दृश्यते
उभयोरपि कर्त्तव्यो वायव्यैरिति दर्शनम् १५९
जात्ये च स्वरिते चैव यकारो यत्र दृश्यते
कर्तव्य उभयोः क्षेपः सदस्यैरिति दर्शनम् १६०
हकाररेफसंय्युक्त ऋवर्णोदय एव वा
सुस्पृष्टं तं विजानीयाद्यकारो नान्ययुग्यदि १६१
उपांशु स्वरितं वापि योऽधीते वित्रसन्नपि
अपरूपसहस्राणां सन्देहेषु प्रवर्तते १६२
पञ्चविद्यां न गृह्णन्ति जडास्तब्धाश्च ये नराः
अलसाश्चातिरोगाश्च येषां च विस्मृतं मनः १६३
अहेरिव गणाद्भीतः सम्मानान्नरकादिव
राक्षसीभ्य इव स्त्रीभ्यः स विद्यामधिगच्छति १६४
न भोजनबिलम्बी स्यान्न च नारीनिबन्धनः
सुदूरमपि विद्यार्थं ब्रजेद् गरुडहंसवत् १६५
सुखार्थी चेत्त्यजेद्विद्यां विद्यार्थीं सन्त्यजेत्सुखम्
सुखिनश्च कुतो विद्या विद्यार्थिनि कुतः सुखम् १६६
यथा खनन्खनित्रेण नरो वार्यधिगच्छति
तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति १६७
गुणिता शतशोविद्या सहस्रावर्तिता पुनः
आगमिष्यति जिह्वाग्रे स्थलान्निम्नमिवोदकम् १६८
शतेन गुणितायाति सहस्रेण च तिष्ठति
जप्त्वा शतसहस्रेण प्रेत्य चेह च तिष्ठति १६९
जलमभ्यासयोगेन शैलानां कुरुते क्षयम्
कर्कशानां मृदुस्पर्शं किमभ्यासान्न साधयेत् १७०
शुश्रूषारहिता विद्या अपि मेधागुणैर्युता
बन्ध्येव युवती तस्य न विद्या फलिनी भवेत् १७१
गुरुशुश्रूषया विद्या पुष्कलेन धनेन च
अथवा विद्यया विद्या चतुर्थं नोपलभ्यते १७२
हयानामि जात्यानामर्द्धरात्रार्द्धशायिनाम्
न हि विद्यार्थिनां निद्रा चिरं नेत्रेषु तिष्ठति १७३
यथा पिपीलिकाभिश्च क्रियते पांसुसञ्चयम्
न बलन्नात्र सामर्थ्यमुद्यमस्तत्र कारणम् १७४
अञ्जनस्य क्षयं दृष्ट्वा बल्मीकस्य च सञ्चयम्
अबन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मसु १७५
अन्नव्यञ्जनयोर्भागौ तृतीयमुदकस्य च
वायोः सञ्चरणार्थाय चतुर्थमुपकल्पयेत् १७६
हकारं पञ्चमैर्युक्तमन्तस्थाभिश्च सँय्युतम्
औरसं तं विजानीयात्कण्ठ्यमाहुरसँय्युतम् १७७
हकारो यत्र पूर्वस्थः अन्तस्थाच्च भवेत्परः
पदकाले वियुज्येत संहितायां स औरसः १७८
मेघदुन्दुभिनिर्घोषः श्रूयते पयसो ह्रदात्
एवं नादं प्रकुर्वीत सिंहस्य रुदितं यथा १७९
मासे भाद्रपदे मेघः शब्दं कुर्वीत यादृशम्
एवं गह्वरमासाद्य शु॒क्रं दु॑दुहे॒ निदर्शनम् १८०
शाखायां वानरा यद्वन्निपतन्त्युत्पतन्ति च
एवं वर्णाः प्रयोक्तव्याः इ॒हेर्है॑षां निदर्शनम् १८१
यथा पुत्रवती स्नेहाच्चुम्बते निजमौरसम्
एवं वर्णाः प्रयोक्तव्या युञ्जा॒न इति दर्शनम् १८२
दर्दुरोदरदेशौ तु प्रफुल्लेते पुनर्यथा
एवं वर्णाः प्रयोक्तव्या अ॒पाम्फेने॑न दर्शनम् १८३
यथा भारभराक्रान्ता निस्श्वसन्ति नरा भुवि
एवं वर्णाः प्रयोक्तव्या अ॒द्भ्यःऽसम्भृ॑त इत्यपि १८४
कुक्कुटः कामलुब्धोऽपि ककारद्वयमुच्चरेत्
एवं वर्णाः प्रयोक्तव्याः कु॒क्कु॒टोऽसि निदर्शनम् १८५
वडवा च हयं दृष्ट्वा योनिं विकुरुते यथा
एवं वर्णाः प्रयोक्तव्या स दु॑न्दुभे निदर्शनम् १८६
यथा कामातुरा नारी शब्दं कुर्याद्दिने दिने
तच्छब्दं कुरुते प्राज्ञः सि॒äह्यसि निदर्शनम् १८७
पक्षौ वितत्य खे गृध्रो भ्रान्त्या सङ्कच्य तिष्ठति
एवं वर्णाः प्रयोक्तव्या वा॒र्ध्री॒न॒सो निदर्शनम् १८८
रङ्गे चैव समुत्पन्ने न ग्राह्यं पूर्वमक्षरम्
स्वरं दीर्घं प्रयुञ्जीत पश्चान्नासिक्यमाचरेत् १८९
यथा सौराष्ट्रिका नारी अराँऽइत्यभिभाषते
एवं रङ्गः प्रयोक्तव्यो ङकारेण विवर्जितः १९०
द्विमात्रो मात्रिको वापि नासामूलं समाश्रितः
अन्ते प्रयुज्यते रङ्गः पञ्चमैः सानुनासिकः १९१
अनन्तरं मकारस्य यो रङ्गस्तत्र दृश्यते
सर्वानुनासिकं विद्यादेषा मध्योपधानिका १९२
यरलवाः शहसहा रज्यन्ते चोपधानिकाः
वर्गान्ते रङ्गते यस्तु सर्वैः सर्वानुनासिकः १९३
नासादुत्पद्यते रङ्गः कांस्येन समनिःस्वरः
मृदुश्चैव द्विमात्रः स्याद्दृष्टिमाँऽ॑इडेति निदर्शनम् १९४
यथा व्याघ्री हरेत्पुत्रान्दंष्ट्राभिर्न च पीडयेत्
भीता पतनभेदाभ्यां तद्वद्वर्णान्प्रयोजयेत् १९५
मधुरं चापि नाव्यक्तं सुव्यक्तं न च पीडितम्
सनाथस्यैव देशस्य न वर्णाः सङ्करं गताः १९६
यथा सुमत्तनागेन्द्रः पदात्पादं निधापयेत्
एवं पदं पदाद्यन्तं दर्शनीयम् पृथक्पृथक् १९७
गीती शीघ्री शिरःकम्पी तथा लिखितपाठकः
अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः १९८
माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः
धैर्यं गुरु लघुत्वं च षडेते पाठका गुणाः १९९
आवर्त्तते पदं यच्च द्विस्त्रिराम्रेडितं हि तत्
यथा च धाम्निधाम्नेति यजु॑षे यजुषेति च २००
हीयते वर्द्धते वापि पदं यत्र कृशोदरम्
उपचारः स विज्ञेय उ॒भे सु॑श्चन्द्र दर्शनम् २०१
अथ सप्तविधाः संयोगपिण्डाः
अयस्पिण्डो दारुपिण्ड ऊर्णापिण्डो ज्वालापिण्डो
मृत्पिण्डो वायुपिण्डो वज्रपिण्डश्चेति
यमान्विद्यादयस्पिण्डान्त्सान्तस्थान्दारुपिण्डवत्
अन्तस्थं यमवर्जन्तु ऊर्णापिण्डं विनिर्दिशेत् २०२
अन्तस्थयमसंयोगे विशेषो नोपलभ्यते
अशरीरं यमं विद्यादन्तस्थं पिण्डनायकम् २०३
ज्वालापिण्डान्सनासिक्यान्सानुस्वारांस्तु मृण्मयान्
सोपध्मान्वायुपिण्डांस्तु जिह्वामूले तु वज्रिणः २०४
तत्रायस्पिण्डो यथा अ॒ग्नि ᳬं । पत्नकी॑ । ।
त॒न॒च्च्॒मीति । यक्क्नेति । दारुपिण्डो यथा ॥
अश्वः॒ । सूर्य्यः॑ । व्वि॒ल्म्मिने॑ । व्विश्श्वज॒नस्य॑ ।
व्वी॒र्य्यम् । ऊर्णापिण्डो यथा ।
अश्मन् । कृष्णः॑ । अस्मिन् । ॥
कु॒क्कु॒टः। अ॒मुष्मि॑न् । यस्मि॑न् ।
अ॒स्मै । इति । ज्वालापिण्डो यथा ब्रह्म॑ ॥
व्वह्नि॑तमम् गृह्णामीति॑ । मृत्पिण्डो यथा ।
स॒ ä॒ स्थाम् । स ä स्तुप् । सि॒ ä ह्यसि । ॥
उद्दिव॑ ä स्तभानेति । वायुपिण्डो यथा ।
उपहू॑तो॒ द्यौष्प्पि॒ता । देव सवित॒ प्प्रसु॑व । ॥
यु॒ञ्जा॒नःऽप्प्र॑थ॒मम् । वज्रपिण्डो यथा इष्कृ॑तिः ।
निष्कृ॑ती  । ऋक्क्सा॒मयो॑रिति । ॥
हवि॑ष्कृ॒देहि॑ । दिवः ककुत् । व्यद॑धु क॒तिधेति ।
प्रथमेन षकारेण सकारेणैव संय्युतम्
एतत्स्वरं समासाद्य अग्निष्वात्तान्निदर्शनम् २०५
प्रथमेन ठकारेण षकारेण च संयुतम्
एतत्स्वरं समासाद्य अधिष्ठा॑नं निदर्शनम् २०६
प्रथमेन णकारेण नकारेणैव संयुतम्
एतत्स्वरं समासाद्य त्रि॒ण॒व॒त्त्र॒य॒स्त्रि॒र्ठ०शो॑ निदर्शनम् २०७
प्रथमेनैव रङ्गेण नकारेण च संयुतम्
एतद्रञ्जितमासाद्य वृष्ट्रिमाँ २॥ऽ इति दर्शनम् २०८
ककारादयो मकारावसानाः पञ्चविंशतिस्पर्शाः
कृष्णाः व्याख्याताः शनैश्चरदैवत्याः ॥
चत्वारोऽन्तस्था यरलवाः कपिला अग्निदैवत्याः
चत्वार ऊष्माणः शषसहा अरुणा आदित्यदैवत्याः ॥
एवं त्रयस्त्रिर्ठ०शद् व्यञ्जनानि स्पर्शोन्तस्थोष्माणश्चेति । चतुर्विधं करणम् स्पृष्टमस्पृष्टं संवृतम् ॥
विवृतं चेति संवृता घोषा विवृता अघोषाः ।
विर्ठ०शतिर्घोषास्ते गजडदबा घझढधभाः-
ङञणनमा यरलवाश्चेति । त्रयोदशाघोषास्ते-
कचटतपाः खछठथफाः शषसाश्चेति । षड्विधम्-
आस्यप्रयत्नम् । संवृतं विवृतमस्पृष्टम् ।
स्पृष्टमीषत्स्पृष्टं चार्द्धस्पृष्टं चेति । तत्र-
अकारः संवृतो ज्ञेय इतरे विवृताः स्वराः ।
सर्वे च ते स्युरस्पृष्टाः स्पर्शाः स्पृष्टा भवन्ति हि २०९
ईषत्स्पृष्टास्तथान्तस्था ऊष्माणोऽर्द्धस्पृशः स्वराः
सामान्यं भजते वर्णः सस्थानकरणस्य हि २१०
ऋलोर्मध्ये भवत्यर्द्धमात्रारेफलकारयोः
तस्मादस्पृष्टता न स्यादृलृकारनिरूपणे २११
वर्गाणां प्रथमा द्वितीयाः शषसहाश्चाघोषाः
घोषास्त्वन्ये दशधा वर्णा भवन्ति ॥
औरसकण्ठ्यमूर्धन्यतालव्यदन्त्योष्ठ्यदन्तमूलीय-
जिह्वामूलीययमानुस्वाराश्चेति । तत्र द्वावौरस्यौ ह्वह्य इति । त्रयः कण्ठ्या अवर्णहकारविसर्जनीया इति ॥
षण्मूर्धन्याः षकारः टवर्गश्चेति ।
नव तालव्या इवर्णचवर्गशकारैकारयकाराः ॥
अष्टौ दन्त्या लृवर्णलकारसकारतवर्गा इति
अष्टावोष्ठ्या उवर्णवकारोपध्मानीयपवर्गा इति ॥
एको दन्तमूलीयो रेफः । सप्त जिह्वामूलीयाः ।
ऋ ᳲकौ कवर्ग इति ॥ चत्वारो यमाः-
कुँ खुँ गुँ घुँ इति । रुक्मेति प्रथमो ज्ञेयः ॥
स॒क्थ्ना इत्यपरो भवेत् । व्वि॒द्द्मा ।
ते॑ तु तृतीयश्च जम्भे॑ दध्ध्मश्चतुर्थकः २१२
अपञ्चमैश्चैकपदे संयुक्तं पञ्चमात्परम्
उत्पद्यते यमस्तत्र सोऽङ्गं पूर्वाक्षरस्य २१३
पञ्चमाः शषसैर्य्युक्ता अन्तस्थैर्वाऽपि संयुताः
यमास्तत्र निवर्त्तन्ते श्मशानादिव बान्धवाः २१४
आद्या मात्रा तु कण्ठ्यस्य एकारौकारयोर्भवेत्
तालव्यस्य तथौष्ठ्यस्य द्वितीया च यथाक्रमम् २१५
यादृशी रत्नवर्णाभा जपायाः कुसुमेऽथवा
तादृशं रञ्जयेद्वर्णं प्रान्ते नासिक्यमाचरेत् २१६
लाक्षारक्तं यथा तोयं नकारान्तं पदं तथा
सर्वरङ्गं विजानीयाच्छत्रूनिति निदर्शनम् २१७
लुप्ते नकारे यत्स्वारं रञ्जन्ति शौनकादयः
आदिरङ्गं विजानीयान्न चासीदिव विन्दति २१८
प्रथमस्थषकारेण तकारेण च संयुतम्
एतदक्षरमासाद्य त्रि॒ष्टुभेति निदर्शनम् २१९
प्रथमस्थषकारेण थकारेण च संयुतम्
एतत्स्वरं समासाद्याधि॒ष्ठान॑मिति दर्शनम् २२०
चतुर्थं च तृतीयेन द्वितीयं प्रथमेन च
आद्यं मध्यं तथान्त्यं च स्वरूपेणाभिपीडयेत् २२१
अवग्रहपदच्छेद उदात्तं दृश्यते यदि
स्वरन्तं स्वरितं प्राहुः सन्धौ तु स्वार्य्यते परम् २२२
स्वरसन्धिविधानेन नीचोच्चं तु विधीयते
व्यञ्जनाद्वा स्वराद्वापि तत्सन्धौ स्वर उच्यते २२३
उदात्तान्निहितः स्वारः स्वरितात्प्रचयो भवेत्
उदात्तात्स्वरितात्पूर्वो नान्य आपद्यते स्वरः २२४
पदकाले यः स्वरितः संहितायां तथैव च
स्वरिताच्चेद्भवेत्पश्चात्स एव निचितः स्वरः २२५
प्रथमाश्च तृतीयाः स्युः परे घोषवति स्थिते
पञ्चमाः पञ्चमे पाठे द्वितीयाः शषसेषु च २२६
उदात्तान्निहतः स्वार्यः स्वरोदात्तौ न तत्परौ
स्वरितो यस्तथाभूतो ज्ञेयः स प्रचयः सदा २२७
उच्चानुदात्तयोर्योगे स्वरितः स्वार उच्यते
ऐक्यं तत्प्रचयः प्रोक्तः सन्धिरेष मिथोऽद्भुतः २२८
बह्वीर्जिह्वा यथा गृह्णात्यह्ना वह्निस्तथैव च
ब्रह्मरूपं विजानीयाद् गुरुमेवात्मनः सदा २२९
यत्किञ्चिद् वाङ्मयं लोके सर्वमत्र प्रतिष्ठितम्
करोति तत्प्रदानं यत्तस्माद्ब्रह्ममयो गुरुः २३०
विधिनाऽप्यविधिज्ञानमविधानान्न लभ्यते
अविधानपरो नित्यं प्रायश्चित्तीयते नरः २३१
युक्तियुक्तं वचो ग्राह्यं न ग्राह्यं गुरुगौरवात्
सर्वशास्त्ररहस्यं तद् याज्ञवल्क्येन भाषितम् २३२
इति श्रीमहर्षियोगिवरयाज्ञवल्क्यप्रोक्ता शिक्षा समाप्ता
                                  इति समाप्तोऽयं ग्रन्थः