Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > उच्चोदर्कि Uccodarki

                       उच्चोदर्कि

नित्याभिनिहतक्षैप्रपूर्वोदात्तस्य संग्रहः
क्रियते हस्तविन्यासभेदोच्चारणसिद्धये १
यदेकस्मिन्पदे स्वारपूर्वोदात्तो न विद्यते
संहिता लक्षणं तस्मादिदमित्यवगच्छत २
उदात्तप्रचयौ भिन्नौ स्थानवाक्स्थानभेदतः
अस्मिन्तानेव गोष्ठे ते राष्ट्रे लोके क्षये परः ३
असंबुद्धिसुबन्ते निशब्दे वृत्तं यदेतदोः
तदन्ययोस्तदा स्वारोदात्तपूर्वाक्षरं वसोः ४
अस्माल्लोकादन्तरिक्षादन्नाद्यस्य किमातृणम्
अग्ना इहि व्यसौ पात्रममुतोऽस्त्यन्तरात्मनः ५
अभ्यैय्यस्यामधो एव तपसान्नेर्द्धृता अपः
अस्मानर्वान् स्व उक्थ्यस्याद्यन्तोनाश्शुंभवत्यवः ६
उग्रामध्येंशुरानीय्य सर्वान् रुंशुममुखलु
इदानीमभ्यहं स्वाहात्वोतामासो अहंस्यदि ७
अमुष्यास्यै ध्यपां वज्रो यथानुन्म उदेत्युप
इति ब्रह्माप्सुसेन्द्राय मतूर्त्तोसीत्युखा त्रयः ८
अस्येश्वरो नमासन् स्युर्वर्षौ जो जामजा नहि
अस्माकमक्ष्योरस्मद्वा प्राणोऽश्नात्यूर्जमश्विना ९
ज्योतिरन्नाद्यमन्वाग्नौ त्रै बृहस्पतये जया
ईङ्ग्यानंशपदेष्वेषूदात्तं स्वारात्परोऽक्षरम् १०
स्वारात्परोऽनुदात्तस्य संग्रहो यमुदीरितः
सर्वान् देवान् गुरून्नत्वा लघुवृत्तिः प्रवक्ष्यते ११
उच्चोदर्किदशश्लोक्या बालव्युत्पत्तिसिद्धये
श्रीकेशवार्याचार्याणां पदपंकजमञ्जसा १२
विद्वन्मणीनां यज्जिह्वा कोशवेश्माय ते नमः
                   इति श्री केशवाचार्यविरचितमुच्चोदर्कि संपूर्णम्