Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > तृतीयसंग्रह Tṛtīya Saṁgraha

                       तृतीय संग्रह

वर्गोत्तमैराद्यतृतीययोश्च संयुक्तयोर्भेदमथ प्रवक्ष्ये
रुग्णेति सर्वत्र पदे गकारः परुक्णशब्दं त्विहवर्जयित्वा १
ग्नावग्नुनाग्नेषु च मग्नशब्देऽप्याकारपूर्वमदपूर्वके च
आकारपूर्वेऽपि तृतीयवर्णो रुक्मेति जान्वक्नपदे ककारः २
अग्मन्प्रसुग्माग्मयुतयुग्मतिग्मजग्मग्मियास्रग्मिपदेषु गेव
शग्मेति वर्णतृतीयवर्णः शक्मन्नितीह प्रथमाक्षरः स्यात् ३
सर्वो नकारे परतस्तकार उद्नेति मृद्नेति च वर्जयित्वा
अद्मं च्छिनद्म्यद्मिप्रदद्मिचेद्मिशूता शकादोद्म भिनद्मिनद्मा ४
विद्मेऽपि सद्मेति च दद्महेऽपि त्येतेऽपि शब्दाश्च ककारयुक्तः
सर्वो जकारो हि तथोत्तमेषु याची जातन चिमीत्युभयोश्चकारः ५

                   इति प्रथमतृतीयवर्णविभागलक्षणम्