Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > स्वराष्टक शिक्षा Svarāṣṭaka

स्वराष्टक

एकोदात्तं पदं विद्यादेकस्वारं तथापरम्
कानिचित्तु द्व्युदात्तानि तच्छिष्टं निहतं स्मृतम् १
द्व्युदात्तानां समासे तु त्र्युदात्तत्वं च दृश्यते
सर्वानुदात्तमेवान्यत्पदमेवंविधं स्मृतम् २
उदात्तान्निहतः स्वार्यः स्वारोदात्तौ न चेत्परौ
स्वरितो यस्तथाभूतो ज्ञेयः स प्राकृतस्त्विति ३
प्रचयत्वं न चेत् नयेत्स्वाराननुदात्ताद्बहूनपि
स्वरितोदात्तयोः पूर्वः प्रचयस्तु निहन्यते ४
एकादिष्टमुदात्तेन तं तमेव नयेत्स्वरम्
पदादौ निहते त्वत्र स्वरितः स्याद्विभाषया ५
यवादिष्टादुदात्तात्तु स्वरितादपि वा पुनः
निहतः स्वरितः कार्यः प्राकृतात्प्राकृतः स च ६
अप्राकृतस्तु यः स्वारः स्वरितोदात्तपूर्वकः
उदादायार्धमस्यैके शिष्टं निघ्नन्ति कम्पितम् ७
अप्राकृतस्य पूर्वार्धं नीचं कुर्वन्ति चोत्तरम्
पूर्वोत्तरं च नीचत्वं स्वारं मध्ये तु कम्पितम् ८
स्वराष्टकमिदं नित्यं पठेद्विप्रः समाहितः
स्वरज्ञानतमो ह्येष ब्रह्मलोके महीयते ९
               इति स्वराष्टकं समाप्तम्