Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > स्वरभक्तिविषयलक्षणम् Svarabhaktiviṣayam

स्वरभक्तिविषयलक्षणम्

स्वरोत्तरोष्मणः पूर्वरेफस्य स्वरभक्तिता
ऋकारस्य स्वरूपं हि बुद्ध्वा बोद्धं हि शक्यते १
स्वरभक्तिरतो विद्यादृकारमिह विस्तरात्
ऋकारस्य स्वरूपं हि श्लिष्टं पादचतुष्टयम् २
पादेषु तेषु विज्ञेयावादावन्ते स्वरात्मकौ
अणू रेफस्य मध्ये द्वौ विज्ञेयौ व्यंजनात्मकौ ३
रेफस्य चादिभूतं हि पादं पूर्वेण योजयेत्
स्वरात्मकेन पादेन द्युत्तरेणोत्तरं तथा ४
स्वरपादान्वितौ पादौ स्वरभक्तिरितीरितौ
हकारे पूर्वभाग स्यादुत्तरश्शषसेषु च ५
हकारे संवृतां विद्याद्विवृतामितरत्र तु
पूर्वस्वरस्य चाल्पत्वमित्वमुत्वमिति त्रयम् ६
एतत्त्रयं विसृज्यैव स्वरभक्तिं समुच्चरेत्
स्वारात्परा स्वरभक्तिः प्रचयत्वमवाप यत् ७
--- वारे दीर्घे तु नान्त्याय स्वतंत्राधूर्षदं भवेत्
हशोत्तरो लकारश्च प्राप्नुयात्स्वरभक्तिताम् ८
                                  इति स्वरभक्तिविषयं समाप्तम्