Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > स्वरनिर्णय Svara Nirṇaya


स्वरनिर्णय

सायणाचार्यविरचित सामविधान ब्राह्मणभाष्ये
जगतस्सामोपजीवनं प्रायच्छदित्युक्तं
कस्य कं भागं के उपजीवन्तीति जिज्ञासायान्तद्विविच्यदर्शयति । तद्योसौ क्रुष्टतम इवसाम्नः स्वरस्तं देवा उपजीवन्ति यो वरेषां प्रथमस्तं मनुष्या यो द्वितीयस्तं गन्धर्वाप्सरसो यस्तृतीयस्तं पशवोयश्चतुर्थस्तं पितरो ये चाण्डेषु शेरतेयः पञ्चमस्तमसुररक्षांसि योऽन्त्यस्तमोषधयो वनस्पतयो यच्चान्यज्जगदिति । अस्यायमर्थः । उपांशुव्यतिरिक्तासर्वावाक् मन्द्रमध्यमोत्तमभेदेन त्रिस्थाना भवति तत्र मन्द्रस्थानावाक् सप्तधा क्रुष्टादिसप्तस्वर रूपेत्यर्थः । क्रुष्टादय एवात्रोच्यन्ते ते चोत्तरोत्तरं नीचा भवन्ति एवं मध्यमोत्तमवचने अपिवाचौ वेदितव्ये । अमुमे वार्थं शौनक आह । पारिषदे । त्रीणिमन्द्रं मध्यममुत्तमञ्च स्थानान्याहुः सप्तयमानि वाचः । अनन्तरञ्चात्र यमोवशिष्टः सप्तस्वरा ये यमास्ते पृथग्वेति । अनन्तरमित्यस्य वाक्यस्यायमर्थः येषु यमेष्वनन्तरो अव्यवहितो यमः सावशिष्टः अस्पष्टविशेष इत्यर्थः विप्रकृष्टो यमो भेदेन ज्ञातुं शक्यते न सन्निकृष्ट इति । तथा सप्तस्वरा इत्यस्यायमर्थः । ये यमा इत्युक्तास्सप्तते स्वराः षड्जादयः पृथग्वा क्रुष्टादयष्षड्जादिभ्योऽन्या एव बोद्धव्या इति एवंसतितत्तेषु क्रुष्टादिसंज्ञकेषु षड्जादिसप्तस्वरेषु मध्ये योऽसौ साम्नः संबन्धी क्रुष्टतम इव इवेत्येवकारार्थे अत्यनमुच्चस्वर एवास्ति गानकाले तं स्वरङ्गे इन्द्रादय उपजीवन्ति तेन तृप्ता भवतीत्यर्थः । एवमुत्तरेष्वपि योज्यं यश्चावरेषामवशिष्टानां षण्णां मद्ध्ये प्रथमो मुख्योस्ति तं मनुष्या उपजीवन्ति द्वितीयं गन्धर्वाप्सरसः गन्धर्वा अप्सरसश्च उपजीवन्ति तृतीयं गवादिपशवः चतुर्थं पितरः किञ्च ये प्राणिनस्सर्वेषु ब्रह्माण्डेषु शेरते निवसन्ति पञ्चमं स्वरमसुररक्षांसि असुराश्च रक्षांसि च योऽन्त्यष्षष्ठस्वरः तमोषधयो वनस्पतयश्च यच्चान्यदनुक्तञ्जगज्जातमस्ति तच्चेति ।
नारदीयशिक्षायाञ्च ।
दारवीगात्रवीणा च द्वे वीणे गानजातिषु
सामिकीगात्रवीणा तु तस्याः शृणुत लक्षणम् १
गात्रवीणा तु सा प्रोक्ता यस्यां गायन्ति सामगाः
स्वरव्यञ्जनसंयुक्ता अङ्गुल्यां गुष्ठरञ्जिता २
हस्तौ सुसंयुतौ धार्यौ जनुभ्यामुपरिस्थितौ
गुरोरनुकतिं कुर्याद्यथाज्ञानमतिर्भवेत् ३
प्रणवं प्राक् प्रयुञ्जीत व्याहृती स्वदनन्तरं
सावित्रीञ्चानुवचनं ततो वुत्तान्तमारभेत् ४
प्रसार्य चाङ्गुलीस्सर्वा रोपयेत्स्वरमण्डलम्
न चाङ्गुलीभिरङ्गुष्ठमङ्गुष्ठेनाङ्गुली स्पृशेत् ५
विरलानाङ्गुलीः कुर्यान्मूले चैना न संस्पृशेत्
अङ्गुष्ठाग्रेण तानि त्यं मद्ध्यमे पर्वणि स्पृशेत् ६
मात्राद्विमात्रवृद्धानां विभागार्थं विभागवित्
अङ्गुलीभिर्द्विमात्रं तु पाणैस्सव्यस्य दर्शयेत् ७
त्रिरेखा यत्र दृश्येत संधिं तत्र विनिर्दिशेत्
सपर्व इति विज्ञेयः शेषमन्तरमन्तरम् ८
यवान्तरन्तु सामस्वृक्षु कुर्यात्तिलान्तरं
स्वरान्मद्ध्यमपर्वसु सुविनिष्टान्निवेशयेत् ९
न चात्र कम्पयेत् किञ्चिदङ्गस्यावयवं बुधः
अधस्तनं मृदुन्यस्य हस्तमात्रे यथा क्रमम् १०
अभ्रमद्ध्ये यथा विद्युद्दृश्यते मणिसूत्रवत्
एषच्छन्दोविवृत्तीनां यथा वालेषु कर्तरि ११
कूर्म्मोऽङ्गानीव संहृत्य चेष्टां दृष्टिं दिशन्मनः
स्वस्थः प्रशान्तो निर्भीतो वर्णानुच्चारयेद्बुधः १२
नासिकायास्तु पूर्वेण हस्तं गोकर्णवद्धरेत्
निवेश्य दृष्टिं हस्ताग्रे शास्त्रार्थमनुचिन्तयेत् १३
सममुच्चारयेद्वाक्यं हस्तेन च मुखेन च
यथैवोच्चारयेद्वर्णांस्तथैवैनान् त्समापयेत् १४
नात्याहन्यान्ननिर्हण्यान्नप्रगायेन्नकम्पयेत्
समं सामानि गायेत व्योम्नि श्येन गतिर्यथा १५
यथाप्सुचरतां मार्गे मीनानान्नोपलभ्यते
आकाशे वा विहंगानान्तद्वत्स्वरगता श्रुतिः १६
यथा दधि नि सर्पिः स्यात् काष्ठस्थो वा यथा नलः
प्रयत्ने नोपलभ्येत तद्वत्स्वरगताश्रुतिः १७
स्वरात्स्वरं संक्रमं स्तुस्वरसंधि मनुल्बणम्
अविच्छिन्नं समं कुर्यात्सूक्ष्मं छाया तपोपमम् १८
अनागतमतिक्रान्तं विच्छिन्नं विषमाहतम्
तवन्तमस्थितां तञ्च वर्जयेत्कर्षणं बुधः १९
स्वरस्थानाच्च्युतो यस्तु स्वं स्थानमतिवर्तते
विस्वरं सामगाब्रूयुर्विरक्तमिति वीणिनः २०
अभ्यासार्थे द्रुतां वृत्तिं प्रयोगार्थे तु मध्यमां
शिष्याणामुपदेशार्थे कुर्याद्वृत्तिं विलम्बितां २१
गृहीतग्रन्थ एवन्तु ग्रन्थोच्चारणशिक्षकान्
हस्तेनाद्ध्यापयेच्छिष्यां छैक्षेण विधिना द्विजः २२
खण्डः ४
क्रुष्टस्य मूर्द्धनिस्थानं ललाटे प्रथमस्य तु
भ्रुवोर्मद्ध्ये द्वितीयस्य तृतीयस्य तु कर्णयोः १
कण्ठस्थानञ्चतुर्थस्य मन्द्रस्योरसितूच्यते
अतिस्वारस्य नीचस्य हृदिस्थानं विधीयते २
अङ्गुष्ठस्योत्तमे क्रुष्टोऽङ्गुष्ठे प्रथमः स्वरः
प्रदेशिन्यान्तु गान्धार ऋषभस्तदनन्तरम् ३
अनामिकायां षड्जस्तु कनिष्ठायान्तु धैवतः
तस्याधस्ताच्च योन्यस्तु निषादन्तत्र विन्यसेत् ४
अपर्वत्वादसंज्ञत्वादव्ययत्वाच्च नित्यशः
मन्द्रोहिनुहिभूतस्तु परिस्वार इति स्मृतः ५
क्रुष्टेन देवाजीवन्ति प्रथमे न तु मानुषाः
पशवस्तु द्वितीयेन गन्धर्वाप्सरसस्तनु ६
अण्डजाः पितरश्चैव चतुर्थः स्वरजीविनः
मन्द्रं ते वोपजीवन्ति पिशाचासुरराक्षसाः ७
अतिस्वारेण नीचेन जगस्थावरजंगमं
सर्वाणि खलु भूतानि धार्यन्ते सामकैः स्वरैः ८
दीप्तायता करुणा । नांमृदुमध्यमयोस्तथा । श्रुतीनां योऽविशेषज्ञो न स आचार्य उच्यते ९ लौकिके ये निषादादयः सप्तस्वराः प्रसिद्धास्त एव साम्नि क्रुष्टादि सप्तस्वराभवन्ति । तद्यथा । यो निषादस्सक्रुष्टः । धैवतः प्रथमः । पञ्चमो द्वितीयः । मद्ध्यमस्तृतीयः । गान्धारश्चतुर्थः। ऋषभोमन्द्रः । षड्जोऽतिस्वार्यः ।
अतः क्रुष्टादयस्सप्तस्वरा उत्तरोत्तरं नीचाभवन्ति । अथ स्वरांकाः ११ अयमंकः क्रुष्टस्य १ अयं प्रथमस्य २ अयं द्वितीयस्य ३ अयं तृतीयस्य ४ अयं चतुर्थस्य ५ अयं मन्द्रस्य ६ अयमतिस्वार्यस्य ६५६ अयं परिस्वार्यस्य । अकारो अभिगीतस्य नकारो नमनस्य च । विकारो विनतस्य । अयं प्रेंखणस्य । ० । अयं द्विमात्रिकस्य १ अयं दीप्तायाः २ अयमायतायाः । अयं करुणायाः । इति स्वरांकाः
अथ स्वरविन्यासः । तर्जन्या उपरिद्वियवान्तरोऽङ्गुष्ठः क्रुष्टस्य बोधकः । एकयवान्तरोऽङ्गुष्ठः प्रथमस्य ।
तर्जनी मध्यरेखा द्वितीयस्य । मध्यमा मध्यरेखा तृतीयस्य । अनामिका मध्यरेखा चतुर्थस्य । कनिष्ठिका मध्यरेखा मन्द्रस्य । तन्मूलरेखातिस्वार्यस्य ।
                                  इति स्वरविन्यासः