Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > पाराशरीयशिक्षा Pārāsharīya Śhikṣhā

पाराशरीय शिक्षा

पाराशरीशिक्षा
अथ शिक्षां प्रवक्ष्यामि पाराशरमतं यथा
यथा देवेषु विश्वात्मा यथा तीर्थेषु पुष्करम् १
तथा पाराशरी शिक्षा सर्वशास्त्रेषु गीयते
प्रणवं तु प्रवक्ष्यामि तिस्रो मात्रास्त्रिदैवतम् २
त्रिरूपं च त्रिवर्णं च त्रिस्थानं त्रिगुणं तथा
अक्षराशीतिरेकश्च प्रथमा कण्डिका स्मृता ३
लक्षणोक्तप्रकारैस्तु इषे त्त्वेति निदर्शनम्
त्रीणि त्रीणि च चत्वारि दश पञ्चाष्टमं स्मृतम् ४
एकादशाक्षरं तद्वदुभयोरपि दृश्यते
सप्तमं पञ्चमं चैव पुनश्चैकादशाक्षरम् ५
नवाक्षरं विजानीयाद्वाक्यं चैकादशाक्षरम्
अन्त्यावसानाः षट् चैव पञ्चैतास्त्रिभिरर्द्धकाः ६
एका चतुर्थता ज्ञेया शेषा युग्मार्द्धकाः स्मृताः
उच्चादुच्चतरं नास्ति नीचान्नीचतरं तथा ७
एवं वर्णाः प्रयोक्तव्याः इषेत्वेति निदर्शनम्
सप्त त्रीणि चतुष्कं च वसुवर्णाः प्रकीर्त्तिताः ८
षट्द्वयष्टौ च प्रपद्यन्ते द्वितीया कण्डिका स्मृता
प्रथमं रुद्रसङ्ख्या वै सप्त सङ्ख्या द्वितीयकम् ९
निधिसङ्ख्या तृतीयं स्याद्वसुसंख्या चतुर्थकम्
पञ्चम वेदसंख्या च तृतीया कण्डका स्मृता १०
अष्टौ वाक्यं तथा पञ्च द्वितीया च तृतीयका
चत्वारिंशत्तथा सप्त चत्वारिंशत्तथा नव ११
अक्षराणां प्रमाण च व्वसोर्द्धौ च विभाषया
चतुस्त्रिंशच्च नवतिरक्षराणां प्रमाणतः १२
चतुर्थी कण्डिका प्रोक्ता मुनिः पाराशरोऽब्रवीत्
सप्तमं नवमं चैव अष्टमं तु तथैव च १३
एवं वर्णाः प्रयोक्तव्याः व्वीतिहोत्रं निदर्शनम्
उभयोः कण्डिकामध्ये न चोष्ठयं विद्यते क्वचित् १४
अग्निश्चैव यजुश्चैव अर्द्धा त्रीणि चतुष्टयम्
दशाक्षराणि पञ्चैव अग्निर्ज्योतिर्निदर्शनम् १५
सप्ताक्षराणि चत्वारि यमदग्नेरितिस्मृतः
दशाक्षरं च चत्वारि दशाक्षरं द्वादशाक्षरम् १६
अन्ते युग्माक्षरं वाक्यमाकूत्त्यै च निदर्शनम्
नवाक्षरम् त्रयश्चैव त्रयश्चैव षडक्षरम् १७
इति वाक्यानि विद्यन्ते सिँह्यसीति निदर्शनम्
यम्परिधिमत्र पितरो अयं ते च इडे तथा १८
सकारेण विना चैव यो देवेभ्यः पञ्चकण्डिका
अकाराद्या हकारान्ताश्चतुर्विंशतिरक्षराः १९
गायत्रीसदृशी प्रोक्ता पवित्रा यज्ञमध्यगा
अग्निन्दूतं व्वसन्ताय कपिञ्जलानां प्रजापतये च द्वये २०
ऊष्मान्ता प्रथमा शेषा स्वरान्ता वर्तिका परा
शुद्धा च प्रथमाध्यक्षा पीडयाध्यक्षा द्वितीयया २१
चिदसि प्रथमा ज्ञेया अर्म्मेभ्योऽथ पराभवेत्
ध्यक्षा ध्यक्षान्तयोः सम्यगुभयोः कण्डिकाद्वयी २२
वकारे केवलो यत्र तत्र रेफोऽप्यधः स्थितः
दन्त्यञ्चोपरि विज्ञेयं यूपव्व्रस्केति निदर्शनम् २३
नानुस्वारं न संयोगं विसर्गं नैव दीर्घता
केवलस्तत्र विज्ञेय एकारात्परतो हि यः २४
मात्रा सह भवेद्दीर्घं ह्रस्वं मात्रा विना भवेत्
इत्यक्षर विजानीयात्क्षिप्रं दीर्घं भवेदिति २५
क्षिप्रं दीर्घं समाख्यातं अङ्गल्यामेकमन्तरम्
दीर्घस्यार्द्धं भवेत्क्षिप्रं नास्ति दीर्घस्य दीर्घता २६
यथा सङ्ख्या तु दीर्घस्य तथा चोष्मा प्रकीर्त्तिता
ऊष्मा दीर्घं समत्वं च क्षिप्रं कुर्यात्तदर्धकम् २७
अनुस्वारस्योपरिष्टात्संय्योगो दृश्यते यदि
ह्रस्वत्वं विजानीयात्सँस्रवभागास्थेति निदर्शनम् २८
अनुस्वारस्यो॒परिष्टात्संवृतं तत्र दृश्यते
दीर्घं तं तु विजानीयाच्छ्रोता ग्रावाणेति निदर्शनम् २९
अनुस्वारस्तु यो दीर्घादक्षराच्च भवेत्ततः
स तु ह्रस्व इति प्रोक्तो मन्त्रेष्वेव विभाषया ३०
अनुस्वारो द्विमात्रः स्याद्वर्णव्यञ्जनादिषु
दीर्घं तं तु विजानीयाद्देवानां हृदयेभ्य इति निदर्शनम् ३१
अनुस्वाराच्च संयोगः परतो दृश्यते यदि
ह्रस्वं तं तु विजानीयान्मन्त्रेषु ब्राह्मणेषु च ३२
ह्रस्वादग्रे भवेद्दीर्घो दीर्घादग्रे भवेल्लघुः ३३
अदीर्घो दीर्घतां याति नास्ति दीर्घस्य दीर्घता
संय्योगादिपरो नास्ति ह्रस्वो दीर्घस्य दीर्घता ३४
संय्योगादिपरो यत्र तत्र ह्रस्वं भवेद्ध्रुवम्
अभिनीतं निपातं वा जात्यं वा स्वरितं विदुः ३५
वाक्यकाले भवत्येव पाठकाले यथाक्रमम्
षडङ्गुलं तु जात्यस्य हस्तस्यानुपथस्य च ३६
चतुर्थभागमात्रं स्याद्भूयस्तेनैव वर्त्तयेत्
निपातं चाभिनीतं च शेषं नीचतरं क्रमात् ३७
त्रिस्वरं तं विजानीयादाज्येनेति निदर्शनम्
नीचान्नीचतरं चैव पुनर्नीचं प्रयोजयेत् ३८
एवं वर्णाः प्रयोक्तव्या ओजोनेति निदर्शनम्
नादसंज्ञा भवन्तीमे ङञणनमाश्चानुनासिकाः ३९
भवन्ति प्रत्यये येषामन्तस्थाः संयुतास्तथा
हकारं चैव वर्गाणां तृतीयं च चतुर्थकम् ४०
अथ दीर्घविसर्गान्ता अष्टौ ते नादसञ्ज्ञकाः
नमौ गुरू नादसञ्ज्ञौ लघू चैवानुनासिकौ ४१
संय्योगौ च विसर्गौ च नादावेतौ प्रकीर्त्तितौ
पञ्चमा यत्र दृश्यन्ते पञ्चमे परतः स्थिते ४२
नासिक तत्र कुर्वीत मात्रैकत्वे न संशयः
संय्युक्ताग्रे विरामस्तु विवृत्तिस्तु विशेषतः ४३
संय्युक्ताग्रे ह्यघोषस्तु नासिकं तु विधीयते
प्रत्यये च स्थिता ये च अघोषाः पञ्चमाः स्वराः ४४
पदान्ते संय्युता ह्रस्वाः पञ्चैवेतेऽनुनासिकाः
विवृतौ चावसाने च ऋगर्द्धे च तथापरे ४५
पदे च पादसंस्थाने नासिकं तु विधीयते
हकारो रेफसंयुक्तो नादो भवति नित्यशः ४६
द्वितयेन पदाक्रान्तो न तु नादः कदा चन
आद्यन्तस्थौ सकारौ द्वौ हकारो यत्र मध्यगः ४७
उभौ नादौ प्रयुज्येताम् अग्ने व्व्रतपते निदर्शनम्
नकारस्य मकारस्य अनुस्वारो यदा भवेत् ४८
तदानुनासिके विद्यादुभयोर्ह्रस्वदीर्घयोः
नकारस्य मकारस्य अन्तःस्थाश्च समीपगाः ४९
नासिको नावमन्तव्यस्तत्र नादः प्रकीर्त्तितः
तवर्गान्ते पवर्गान्ते व्यञ्जनान्ते पदे परे ५०
तत्र नादं प्रकर्त्तव्यं नान्तिमं क्षिप्रकीर्त्तितम्
पूर्वतः परतो वापि हकारो यत्र दृश्यते ५१
तत्र नादो भवत्येव न विकल्पः कदा चन
नकारात्परतो यत्र मकारात्परतस्तथा ५२
हकारो यत्र दृश्येत तत्र नादो भवेद् ध्रुवम्
नमौ गुरु यत्र दृश्येते अघोषाः परतः स्थिताः ५३
नादं कुर्वीत यत्नेन तत्र घोषबलं न हि
एकाक्षरं नकारस्य चोभयोः स्वरयोर्द्वयोः ५४
अर्द्धचन्द्रं तदुपरि ह्यघोषाः पुरतः स्थिताः
पञ्चमं चार्द्धचन्द्रं च ऊष्मान्तस्वरयोर्द्वयोः ५५
नासिकं तु भवत्येव नॄः पाहीति निदर्शनम्
विंशतिर्घोषास्ते गजडदबा ङञणनमा यरलवहाश्चेति ५६
त्रयोदशाघोषास्ते कचटतपाश्च खछठथफाः शषसाश्चेति
मुखनासिकाभ्यामुच्चार्यमाणोऽनुनासिकः ५७
जकारौ द्वौ मकारश्च रेफस्तदुपरिस्थितः
अशरीरं यमं विद्यात्सम्मार्ज्ज्मीति निदर्शनम् ५८
शून्यालये पिशाचोऽपि गर्ज्जते न च दृश्यते
एव वर्णाः प्रयोक्तव्याः उपज्ज्मन्निति निदर्शनम् ५९
एकाक्षरं वकारस्य निपातस्थो यदा भवेत्
संहितायां लघुर्ज्जातः पदकाले गुरुर्भवेत् ६०
वकारस्त्रिविधः प्रोक्तो गुरुर्लघुर्लघूतरः
आदौ गुरुर्लघुर्मध्ये पदान्ते तु लघूतरः ६१
पदान्ते पदमध्ये च वकारो दृश्यते यदा
लघुरेव स मन्यव्यो ह्यन्यत्रापि लघूतरः ६२
औकारान्ते पदे पूर्वे अकारे परतः स्थिते
लघूतरः विजानीयादग्नावग्निश्चेति निदर्शनम् ६३
यथा पुत्रवती स्नेहाच्चुम्बतीति पुनः पुनः
एवं वर्णाः प्रयोक्तव्या युञ्जान इति निदर्शनम् ६४
मूत्रं कुर्वीत वडवा योनिं करोति यादृशीम्
तन्मुखं कुरुते प्राज्ञः स दुन्दुभे निदर्शनम् ६५
उकारान्ते उकारे च दृश्यते चोभयोर्यदि
द्विरौष्ठ्यं तु विजानीयाद्भूर्ब्भुवः स्वर्न्निदर्शनम् ६६
एकपद्ये भवेद्यस्तु सकृदौष्ठ्यं तदुच्यते
द्वित्रिभिश्च चतुष्कं चतुरौष्ठ्यं ततः परम् ६७
यथा मर्कटयोर्युर्द्धंठ कुर्व्वन्मुखेन धावति
एवं वर्णाः प्रयोक्तव्याः किकिदीवेति निदर्शनम् ६८
कुक्कुटः कामलुब्धोऽपि ककारद्वयमुच्चरेत्
एवं वर्णाः प्रयोक्तव्याः कुक्कुटोऽसि निदर्शनम् ६९
चतुर्दशाक्षरं वाक्यं पुनश्चैकादशाक्षरम्
पुनर्दशाक्षरं वाक्यमष्टाक्षरमतः परम् ७०
लक्षणैर्वा विहीनं तु भुक्तमव्यञ्जनं तथा
तच्छब्दं कुरुते प्राज्ञः सिँह्यसि निदर्शनम् ७१
हस्तहीनं तु योऽधीते वेदं वेदविदो विदुः
तल्लक्षणविहीनस्तु भुक्तमव्यञ्जनं यथा ७२
एवं चतुष्टयं वाक्यं श्रीश्च्च तेतिनिदर्शनम्
वसुसंख्याक्षरं वाक्यं त्रिपदा वा चतुष्पदा ७३
सप्ताक्षरं तु गायत्री अग्निन्दूतं निदर्शनम्
उभौ सप्ताक्षरं वाक्यं पुनश्चैव नवाक्षरम् ७४
अष्टाक्षरं विजानीयाद्यत्पुरुषेणेति निदर्शनम्
अष्टाक्षरं चतुष्पादं तदेवादि ऋचं त्रयम् ७५
अन्ते पूर्व्वा ऋचः सम्यक्स्वाहाकारं पृथक् पृथक्
तदेव लक्षणं सम्यक् पाराशरमतं यथा ७६
याज्ञवल्की तु वासिष्ठी शिक्षा कात्यायनी तथा
पाराशरी गौतमी तु माण्डव्यामोघनन्दिनी ७७
पाणिन्या सर्ववेदेषु सर्वशास्त्रेषु गीयते
वाजसनेयशाखायां तत्र माध्यन्दिनी स्मृता ७८
एकादशाक्षरं वाक्यं द्वितीयं च नवाक्षरम्
रुद्रसङ्ख्यं तृतीयं स्यान्निधिसंख्यं चतुर्थकम् ७१
चत्वारिंशच्चाक्षराणां वाक्यं स्यात्तु चतुष्टयम्
एवं वर्णाः प्रयोक्तव्याः एष वस्तोमेति निदर्शनम् ८०
आद्यन्तह्रस्वयोर्म्मन्त्रे वकारो यत्र दृश्यते
स तु ह्रस्व इति प्रोक्तोऽभियुध्येति निदर्शनम् ८१
अकारात्परतो यश्च नैव दीर्घं प्रयुज्यते
अभिविध्येति विज्ञेयो मन्त्रब्राह्मणयोर्द्वयोः ८२
व्वनेषु व्व्यन्तरिक्षं च ह्यष्टौ व्व्यख्यत्तथैव च
नामग्रहणकालेषु गुरुरेव न संशयः ८३
पूर्वा तु कण्डिका दृष्टा अपराभिस्तु संय्युता
तदेव नामग्रहणं न विकल्पः कदा चन ८४
पूर्व्वा विद्धा परा चाथ कण्डिका यत्र दृश्यते
चापलानीति सा ज्ञेया आच्छच्छन्दो निदर्शनम् ८५
यथा भारभराक्रान्तो निश्श्वसेल्लघुचेतसः
एवं वर्णाः प्रयोक्तव्या होता यक्षन्निदर्शनम् ८६
वाक्यौ द्वौ च समुद्भूतौ अक्षरा ऊनविंशतिः
त्रयोविंशतिश्चाक्षराणाँ होता मित्रा पृथिव्यया ८७
हंसः शुचिषच्चैतद्द्वादशाक्षरसञ्ज्ञकः
ऊनाशीतिश्चाक्षराणाम् अथैताँश्च प्रकीर्तिताः ८८
अकारादीनि वाक्यानि द्वादशैतानि सङ्ख्यया
द्वादशाक्षरं प्रथमं पञ्चमं चेति सप्त वै ८९
षडक्षरं ततो वाक्यं पुनर्द्वादशकं स्मृतम्
एकादशाक्षरं चैव अन्ते च द्वादशाक्षरम् ९०
एवं वर्णाः प्रयोक्तव्या अथैतानि निदर्शनम्
तिस्रोऽर्द्धा अभित्यञ्च तिस्रो अर्द्धा प्रजापतिः ९१
पुनन्तु मेति चत्वारि व्वायुः पञ्च ततः परम्
अनाधृष्टात्र पञ्चैव एधोऽस्यर्द्धचतुष्टयम् ९२
सव्वत्सरोऽसि चत्वारि द्यौः शान्तिश्चार्द्धयोर्द्वयोः
क्वचित्स्वाहा पृथक्कुर्यात् क्वचिद्युक्तं तु कारयेत् ९३
क्वचिच्चादौ विजानीयात्क्वचिच्चान्ते विधीयते
पुनन्तु मा पितरो व्वायुरनिलं प्रजापतये त्वा ९४
वाक्यकालेऽवसाने च स्वाहान्ते चाहुतिं क्षिपेत्
मन्त्रभागं पृथक्कुर्यात्स्वाहाकारं पृथक् पृथक् ९५
स्वाहादौ च भवेद् वाक्यं अग्निन्दूतं मनस्तथा
अन्ते चादौ पुनश्चान्ते काय स्वाहेति दर्शनम् ९६
मकारादौ भवेद् वाक्यं ऊर्णाम्रदसं प्रकाश्यते
आविर्म्मर्त्या अकारादौ स्वरान्तं प्रथमान्तरम् ९७
रससंख्या भवेद् वाक्यं वेदवाणौ पुनः पुनः
युग्मवाणान्तयोः सप्त अन्ते चैव चतुर्दश ९८
पञ्चाशतं च वर्णानाम् अक्षराणां प्रमाणतः
इदमित्येव विज्ञेयं वाक्यं तस्माद् भवेन्न च ९९
अब्भ्रिरसि । अग्ने तमद्य । सहस्रस्य प्प्रमा । अग्निर्देवता । इयमुपरि मरव-
स्यशिरः अश्श्वस्य त्वा । प्रथमा वाम् । अन्तरामित्रा-वरुणा । होता यक्ष-दग्निँस्वाहा । स्वाहा यज्ञम्-बर्हिरूर्णम्म्रदाः । एकाक्षरं पदं वाक्यं नचार्द्धा-
युग्मयोरपि । मध्ये चैकाक्षरं वाक्यं द्वे द्वे चार्द्धावसानयोः १००
एवं वर्णाः प्रयोक्तव्या लोकतश्च प्रकीर्त्तिताः
विभक्त्यन्तं विजानीयाद् गुरुतः शास्त्रतोऽपि वा १०१
लोपागमविकाराभ्यां वाक्यानामेष निर्णयः
द्वादशैतानि वाक्यानि द्वादशैतानि शान्तिके १०२
देवादीनां भवन्त्येते द्वादशैतानि संख्यया
छाया छिद्द्रा तथा छन्दश्छकारा लघुसङ्ख्यया १०३
ह्रस्वो वा यदि वा दीर्घः शेषा द्वित्वे प्रतिष्ठिताः
दीर्घादग्रे छकारोऽपि ह्रस्वादग्रे तथैव च १०४
द्वित्वाक्षरं विजानीयादिति शास्त्रविधानतः
दीर्घादग्रे तु यो दीर्घो गिरिशा व्वर्म्मणा तथा १०५
द्वित्वाक्षरं विजानीयाच्छादयामि निदर्शनम्
वकारस्य भकाराभ्यां छकारस्य चकारयोः १०६
धकारस्य दकाराभ्यां थकारस्य मकारयोः
कवर्गस्य चवर्गस्य खवर्गस्य पवर्गयोः १०७
द्वित्वं चैव यमं चैव भवत्येव न संशयः
ओष्ठ्यं चैव वकारस्य मकारेण सहायवान् १०८
तम्बधान तथा चाम्बे संयोगोऽप्यतिदुर्लभः
तँव्वश्चैव शतँव्वश्च सँय्योगोऽत्यन्तदुर्लभः १०९
अनुस्वारं पृथक्कुर्यादसंप्राहुर्विचक्षणाः
वकारस्य यकारस्य मध्ये बिन्दुः प्रतिष्ठितः ११०
अन्त्यबिन्दुं विना ये च शेषान्तस्थाः प्रकीर्त्तिताः
शृङ्गवद् बालवत्सस्य कुमार्य्यास्तनयुग्मवत् १११
नेत्रवत्कृष्णसर्पस्य स विसर्ग इति स्मृतः
विस्फुलिङ्गा इव स्फोटा वेदस्याङ्गानि सन्ति हि ११२
अशुद्धपठनाच्चैव नैव मोक्षं प्रपेदिरे
तस्मात्सर्वप्रयत्नेन शुद्धपाठी भवेद्द्विजः ११३
अन्यथा निरय यान्ति कुम्भीपाकं च दारुणम्
सप्ताक्षरं च चत्वारि पुनरष्टाक्षरं तथा ११४
ऋचँ व्वाचमिति ज्ञेया अन्ते चैव चतुष्टयम्
एकादशाक्षरं वाक्यं पुनरेव चतुष्टयम् ११५
त्रयोदशं द्वादशं च यन्न्मे इति निदर्शनम्
व्याहृत्या सह गायत्री तिस्र अर्द्धा भवेदिह ११६
प्रणवाश्चैव चत्वारो भवन्त्येव न संशयः
ऋचँव्वाचं त्रयश्चैव प्रारम्भे च चतुष्टयम् ११७
इति पाराशरेणोक्तं प्रमाणं वेदसम्मितम्
पूर्वा चतुर्दशास्तिस्रो ह्यर्द्धायुग्मार्द्धषड्दश ११८
एवं वर्णाः प्रयोक्तव्या अग्निश्चेति निदर्शनम्
पूर्वमष्टाक्षरं वाक्यं परतो द्वादशाक्षरम् ११९
द्विपादान् वा विनिश्चित्य इन्द्रो व्विश्वस्य राजति
अहानि शं त्रयश्चैव त्रयश्चैव यथापरे १२०
अन्त्यावसाना दुर्मित्त्रा शेषा द्वे द्वे प्रकीर्त्तिताः
कण्डकापञ्चयुग्मार्द्धं चतुःपञ्च नवं नवम् १२१
पुनश्चतुस्त्रयश्चैव त्रयश्चैव पुनः पुनः
शेषा युग्मार्द्धकं विद्याद्देवस्य निदर्शनम् १२२
एवं ज्ञात्वा पठेद्यस्तु स गच्छेद्वैष्णवं पदम्
त्रयश्चैव त्रयश्चैव त्रयश्चैव चतुर्ष्टयम् १२३
षडर्द्धं च त्रयश्चैव द्विपञ्चान्त्यावसानयोः
शेषाश्च कण्डिकाः सर्वा द्वे द्वे अर्द्धे प्रकीर्तिताः १२४
न मे प्रियो द्विजः कश्चिच्छ्रद्धावानतिथिप्रियः
इति पाराशरेणोक्तं विप्राणां हितकाम्यया १२५
शिष्याणामुपकाराय परलोकहिताय वै
स्वाहा प्राणेभ्यस्त्रयश्च लोमभ्यश्च त्रयस्तथा १२६
शेषाश्च कण्डिकाः सर्वा द्वे द्वे अद्धे प्रकीर्त्तिताः
अष्टौ वाक्यं तयोः सप्त पञ्च द्वादश वै पुनः १२७
चतुर्थं दश एका च अष्टादश ततः परम्
नवमं चाष्टमं चैव सप्तमं च ततः परम् १२८
इति वाक्यविधिं सम्यक् प्राणेभ्यश्च निदर्शनम्
व्वायुः पञ्च भवेदर्द्धा अर्द्धे द्वे च हिरण्मये १२९
ईशाव्वास्यं तु मन्त्रस्य शेषा द्वे द्वे प्रकीर्त्तिताः
अष्टादशाक्षरं वाक्यं नाकपृष्ठे तु पञ्च वै १३०
सप्तदशाक्षरं चैतद् वैश्वदेवं विनिर्दिशेत्
सप्तदशाक्षरं वाक्यं पुनरष्टादशाक्षरम्
एवं वर्णाः प्रयोक्तव्या ग्रामण्यौ तु सुपञ्चयोः १३१
उभौ सप्ताक्षरं वाक्यमष्टाक्षरमतः परम्
नवाक्षरं विजानीयाद्यार्मिषुं चेति निदर्शनम् १३३
एकैकस्य नमस्काराः शङ्कराय महात्मने
श्वब्म्यश्चादौ च वर्णान्ते वाक्यकाले भवेदिति १३४
नमकं चमकं चैव पुरुषसूक्तं तु नित्यशः
प्रविश्यते महादेवो गृहे गृहपतिर्य्यथा १३५
रुद्राध्यायः स्वरेणैव कण्डिकादशकेन तु
ततो वाक्यं प्रकुर्वीत ऋचान्ते षोडशाक्षरम् १३६
अष्टादशाक्षरं वाक्यं पुनः षोडशकैः शुभैः
एवं वर्णाः प्रयोक्तव्या अश्मर्न्न्ज्जं विनिर्दिशेत् १३७
पुँश्चलूँ पुँश्चली चेति संख्या यत्र यत्र च
दङ्क्ष्णवश्च विज्ञेया अर्द्धचन्द्रस्तु षटसु च १३८
मकाराग्रे छकारादावनुस्वारेण सँय्युतौ
तन्द्रञ्छन्दो विजानीयादग्निः पशुर्न्निदर्शनम् १३९
तकारान्ते पदे पूर्वे शकारे परतः स्थिते
क्षणिकं तं विजानीयात्तच्छकेयं निदर्शनम् १४०
पाठकाले भवेध्रस्वो वाक्यकाले तु दीर्घता
एवं वर्णाः प्रयोक्तव्या नक्षत्रेब्भ्यः स्वार्हेति निदर्शनम् १४१
शर्म्म च स्त्थ स्तथो पप्प्रागात्समुद्रस्य त्वेति च
स्वरितो वाक्यकालेऽपि उदात्तं नोपपद्यते १४२
एह्यूषु ऋजीते अभित्त्वा गोमदूषुणा सत्या
स्वरितो वाक्यकाले तु न चोर्द्ध्वं नीयते करम् १४३
सद्यो जातः समुद्रोऽसि प्रथमार्च्यस्य तु द्वया
एवं वर्णाः प्रयोक्तव्या गुरुरेव न संशयः १४४
अन्तस्थैः सह सँय्योगे स्पर्शो वा दृश्यते क्वचित्
ऋवर्णेन तदा ग्रस्तो न लघुर्न्न लघूतरः १४५
ऋकारो गुरुतां यातः संयुक्तो हरयैः सह
ऋवर्णेन परस्यैव व्यृद्ध्या इति निदर्शनम् १४६
क्रतून् जहि शत्रून् व्वन स्प्पतीन् परिधींश्चेति
चतुर्वेदोऽपि यो विप्रो यावद्ब्रह्म न विन्दति १४७
तावद्भ्रमति संसारे ह्यसारे दुरतिक्रमे
पठित्वा चतुरो वेदान्त्सर्वशास्त्रमनेकधा १४८
यो हि ब्रह्म न जानाति मूर्खः पाठे शठो यथा
ज्ञात्वैव ब्रह्मसायुज्यं लभते नात्र संशयः १४९
यथा खरश्चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य
तथाहि विप्राः स्मृतिवेदपूर्णा ज्ञानेन हीनाः खरवद्वहन्ति १४०
आहारनिद्राभयमैथुनं च समानमेतत्पशुभिर्नराणाम्
ज्ञानं हि तेषामधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः १५१
प्रातर्मूत्रपुरीषाभ्यां मध्याह्ने क्षुत्पिपासया
तृप्ताः कामेन बध्यन्ते जन्तवो निशि तद्वशाः १५२
नादबिन्दुसहस्राणि तथा कोटिशतानि च
सवाता रश्मयो यान्ति यत्र वेदो निरामयः १५३
गवामनेकवर्णानां क्षीरं स्यादेकवर्णकम्
क्षीरं यथा तथा ज्ञानं लिङ्गनस्य गवां यथा १५४
द्वे पदे चैव मोक्षाय न ममेति ममेति च
स ममेति क्षिणन्ती च शत्रूँ रनपव्ययन्तः १५५
अरञ्जनाः पञ्च अर्द्धा अर्द्ध मात्रा भवन्ति च
पूषा मित्रो वसुश्चैव अञ्जनाश्व प्रकीर्त्तिताः १५६
पूषा मित्रो वसून्पञ्चानुरञ्जनाःप्रकीर्तिताः
एकार्द्धमात्रिकाश्चैव पञ्चैते चानुरञ्जनाः १५७
वक्ष्ययक्ष्यकक्ष्यभक्ष्यमाणा इत्येवमादयः
इमे वर्णास्तु तालव्याः परा मूर्धन्यजाः स्मृताः १५८
एवं ज्ञात्वा पठेद्यस्तु स गच्छेद् वैष्णवं पदम्
न मे प्रियो द्विजः कश्चिच्छुद्धपाठी त्वतिप्रियः १५९
इति पाराशरेणोक्तं विप्राणां हितकाम्यया
शिष्याणामुपकाराय परलोकहिताय च १६०
               इति पाराशरीशिक्षा समाप्ता