Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > मात्रालक्षणम् Mātrā Lakṣaṇam


मात्रालक्षणम्

प्रथमा खण्डिका
अथातो ह्रस्वदीर्घप्लुतमात्राण्यक्षराणि व्याख्यास्यामः १
सामस्वर्धमात्रमणुमात्रं च २
ह्रस्वं मात्रा । दीर्घं द्वे ।
प्लुतं वृद्धं चेति त्रिमात्रमभिधीयते ३
ह्रस्वं द्विमात्रसंयुक्तं प्लुतमाहुर्मनीषिणः ।
दीर्घं तु मात्रासंयोगाद्वृद्धमित्यभिधीयते ४
मात्रार्धमात्रा चाध्यर्धा नाम ।
द्वे मात्रे अर्धं चार्धतिस्रः । तिस्रो मात्रा अर्धं चार्धचतस्रः ।
प्रणवेऽर्धचतस्रो मात्राः ।
मात्रायाश्चतुर्थोंऽशोऽणुमात्रा नाम ५
अ इ उ ऋ इत्येते ह्रस्वाश्चत्वारः ६
एत एव सवर्णे प्रत्यये दीर्घा भवन्ति ७
अत एव संध्यक्षराणि ८
स्वरस्य वैस्वर्यं न व्यञ्जनस्य ९
स्वरश्च स्वर्यते १०
तिस्रो वृत्तयो भवन्ति । द्रुता मध्यमा विलम्बितेति ।
द्रुतायां वृत्तौ त्रिकला मात्रा भवति । चतुष्कला मध्यमायाम् । पञ्चकला विलम्बितायाम् । द्रुता रोहिणी । श्यामा मध्यमा । श्वेता विलम्बिता ११
तासां देवताः । वायव्या द्रुता वृत्तिः ।
बार्हस्पत्या मध्यमा । सौरी विलम्बिता १२
तासु मात्राकालस्तिसृष्वेकः १३
वृत्तिसमं च गीतं सामसु १४
दीर्घे वृद्धे चोपधौ गत्याः पृथक्कालः १५
विस्वरमक्षरं स्वरे स्वरे त्रिमात्रं भवति १६
प्रत्युत्क्रम-अतिक्रम-कर्षणाः-स्वारेषु १७
प्रत्युत्क्रमोऽष्टविधः १८
अतिस्वारो मन्द्रं प्रत्युत्क्रामति परिस्वारे ।
वा ६५६ कया३स्थाऽ५यिरा ६५६ न् १९
मन्द्रश्चतुर्थम् “श्रायन्तस्तरोभिः पुरः” २०
चतुर्थस्तृतीयं “दूतं देवो माना” २१
तृतीयो द्वितीयं “हीष्यादौ” २२
द्वितीयः प्रथमम् “औहो अग्न” इति २३
मन्द्रश्चतुर्थमतिक्रम्य तृतीयं प्रत्युत्क्रामति संधौ सुनोतसोम पाव्ने २४
मन्द्रश्चतुर्थतृतीयावतिक्रम्य द्वितीयं प्रत्युत्क्रामति “षिभाभिप्रि” २५
तृतीयो द्वितीयमतिक्रम्य प्रथमं प्रत्युत्क्रामति “पुनानायाम्” २६
चतुर्विधोऽतिक्रमः मो षुत्वा-रोहन्-यज्ञादीनि । त्र्यन्तरोऽश्विनोर्व्रते २७
क्रुष्टः प्रथममतिक्रामति ।
“ऊ २^ । न आ^ गा २३४ ही” ओषुत्वा साम्नि २८
प्रथमो द्वितीयम् । “आरोऽ३हां” आरोहन् साम्नि २९
तृतीयश्चतुर्थं । “यज्ञा५य” साम्नि ३०
प्रथमस्त्रीनतिक्रामति-अश्विनोर्व्रते ।
“ई५ही हीही ही हि” अश्विनोर्व्रते साम्नि ३१
पञ्चविधं कर्षणम् । आद्वितीयकर्षणमातृतीयकर्षणमा-चतुर्थकर्षणमामन्द्रकर्षणम् ।
मन्द्रश्चातिस्वार्यात् कृष्यते ।
“बोधा२” । “आऽ२३इन्द्रा” “न्माऽ२३४भाइ” ।
“ओऽ२३४५इ” । “त्व न्त्वाऽ६मे” ३२
इति मात्रालक्षलणे प्रथमा खण्डिका समाप्ता १

द्वितीया खण्डिका
त्रिविधः स्वारः प्रथमादिर्द्वितीयादिस्तृतीयादिरिति १
प्रथमादिर्नवमात्रः । द्वितीयादिः षण्मात्रः । तृतीयादिरष्टमात्रः ।
“हरीऽ३श्रीऽ२३४५” । “रयाऽ३४५यिम्”“ईऽ२३४५”२
यन्मन्द्रद्वितीयतृतीयैः स्वरैरकृष्टं प्रत्युत्क्रामति अनन्तरोच्चे प्रत्यये तद्द्विमात्रादिः ३
यथा “श्रायन्तस्तरोभिः” “पुरोहीष्या” दिः । वैराजनिधनम् “औ हो अग्न” इति ४
न- घ्नतावामा गायत्रे चावनर्दे ५
पाव्ने द्विमात्रौ मन्द्रतृतीयौ ६
ह्रस्वो मन्द्रो-अच्छा उ वा याम् ७
दीर्घकर्षणे द्विमात्रौ प्रथमद्वितीयौ — प्रप्रा ८
द्वितीयतृतीयौ च — भरतायत्सोमे; नर्यो३ ९
स्वारे त्रयोऽन्त्याः पृथगेकमात्राः १०
ह्रस्वकर्षणे पृथङ्मात्रिकौ स्वरौ । सुवितम् तुरय सहस्रधारम् ११
त्रिविधोद्घातो — व्यदा-मतौ-ऋचौ हो-प्रभृतीनि १२
पञ्चस्वरैर्युक्तं धार्यम् । “गृणानोह”; “द्रविणस्युर्विपन्यया२” ; “विपां ज्योताइ” ; “आदित् प्रत्नाऽ५स्य रेतसाः” ; “अग्निं वो वृधान्ताम्” १३
सप्तविधार्धमात्रा । “ओ ग्ना इ”; “प्रेष्ठं वो हाउ” ;
“षु प्रावोऽ२३चाऽ३४३:” ; “नायक्रमीऽ२त्” ।
“वो अग्न्याया२इ” ; “तिया३ञ्चा५रा६५६न्”
“विशो विशो हुम् स्थि वो ६ अतिथाइम्” १४
इति मात्रालक्षणे द्वितीया खण्डिका २

तृतीया खण्डिका
द्विविधा गतिरिगतिरुगतिश्च ।
कण्ठ्योष्ठ्या कण्ठ्यतालव्या १
तयोर्मात्राकालः अर्धमात्रा मात्रा वा [इति] गार्ग्यश्चाचार्यो ब्रवीति । षण्मात्राः सामिके भवन्ति । मात्रिकश्च द्विमात्रिकश्च त्रिमात्रिकश्चार्धमात्रिकश्चाध्यर्धमात्रिकश्चाणुमात्रिकश्च संपाद्या भवन्ति । यः संपादयते स आचार्यः । स च स्वरविशेषेण सामगो भवति । स्वरस्याष्टादशदोषान् प्रच्छादयति २
स्वरितविनतप्रणतोत्स्वरिताभिगीतानाम् आर्चिकोऽक्षरकालः ३
विनतं प्रथमादिर्द्वितीयान्तम् । द्वितीयादिस्तृतीयान्तं प्रणतम् । उत्स्वरितं चतुर्थादिर्मन्द्रान्तम् । अभिगीतं द्वितीयादिः प्रथमान्तम् ४
विनतप्रणतयोरन्त्येऽर्धमात्रा नीचेन स्वरेण भवति । उच्चेऽध्यर्धा । दीर्घे ह्रस्वेऽर्द्धम् ।
“यं यं य २ म् याम्” । स्ये बहुलं संमील्ये;
“पिबा सोमम्” ; “अभीनवन्ते” ; “उद्ब्रह्माणि” ।
“इन्द्रस्य नु वीर्याणि” ; “कश्यपपुच्छे;
महादिवाकीर्त्ये; आनन्दे” । आया हि ३वोई ।
तिग्मेना ३शो । मन्ये३ । शुक्रियेषु ओषधीना३म् ५
आयाहिऽ१वो३इ । तिग्मेन१शोऽ३ ।
रम्मन्येदाऽ३ । शुक्रियेषु – “ओऽ२ष धीऽ२नाऽ२म्” ५
उत्स्वरितेऽर्धमात्रा चतुर्थे । मन्द्रेऽध्यर्धा ।
मनुष्ये५भिः । कईं व्य१क्ताः३ः ६
अभिगीतेऽर्धमात्रा द्वितीये । प्रथमेऽध्यर्धा । स्तोमां रुद्रापिन्वो अर्कैः ७
अभिगीतकृष्टादिरर्धमात्रा नीचेन स्वरेण भवति । उच्चेऽर्धतिस्रः । तोध्वाराइ । तोक्षरान् ।
इन्द्रं वृधा ४ तो २ ध्वा २३ रा इ ।
तो २ क्षा २३४ रा न् ८
उत्तरो यकारोऽणुमात्रो रायायाम् ।
रा योयाऽ२३ग्ने महे त्वा हाउ । ऋकारादिरणुमात्रा । रेफोऽर्धमात्रा । मध्ये शेषा स्वरभक्तिरर्धमात्रा । स्थितसंधितं च । न च स्वरस्य विकारश्चेति वक्ष्यति । हरेफोष्मसंयोगे रेफपरा स्वरभक्तिर[र्ध] मात्रा इति मात्राणुमात्राणां संपाद्यः कालः ९
प्रतिज्ञा खलु वर्तते । प्रतिज्ञा खलु वर्तते १०
इति मात्रालक्षणे तृतीया खण्डिका समाप्ता ३

                                  मात्रालक्षणं समाप्तम्