-
सामवेदीया लोमशी शिक्षा
लोमशीयां प्रवक्ष्यामि गर्गाचार्येण चिन्तिताम्
साभिधानां यथोक्तं तु स्वाचार्यवचनं तथा १
ह्रस्वं दीर्घं तथा वृद्धमभिगीतं तु सामगाः
मुहुर्मृदङ्गवत्कुर्युः सम्पातोत्थानसञ्ज्ञवत् २
केन कम्पातितः कम्पः संयोगो येन कम्पते
किं वा कम्प इति प्रोक्तो येनासौ कम्प उच्यते ३
पूर्वाङ्गेण हतं पूर्वं पराङ्गेण तु धारितम्
व्यञ्जनेन द्विधा भिन्नः स्वरो भीतस्तु कम्पते ४
दीर्घकम्पेऽध्यर्धमात्रा तृतीये परिकीर्तिता
द्वितीये अर्द्धमात्रा तु प्रयोगो घण्टतालवत् ५
रङ्गस्तु द्विविधो ज्ञेयः स्वरपरो व्यञ्जनः परः
पारावतः सवर्णाभो विहितोऽक्षरचिन्तकैः ६
तस्य मात्रा तु हृदये अणुमात्रा तु मूर्द्धनि
नासाग्रे त्वणूनां मात्रा रङ्गस्य परिकीर्तिता ७
रङ्गे चैव समुत्पन्ने न ग्रसेत् पूर्वमक्षरम्
स्वरे दीर्घं प्रयुञ्जीत तस्य नासिक्यमुच्चरेत् ८
द्विमात्रो मात्रिको वापि नसिमूलं समाश्रितः
अन्ते प्रयुज्यते रङ्गः पञ्चमैः सर्वनासिकः ९
  इति प्रथमखण्डः
ककारार्द्धं टकारार्द्धं हन्वां तिष्ठति दक्षिणे
जिह्वाग्रेण तु आभाष्येत्किट्कीडाकार एव च १
करेणुः कुर्विणी चैव हरिणी हारितेति च
तथा हंसपदा नाम पञ्चैताः स्वरभक्तयः २
करेणुं त्सहयोर्विद्यात्कुर्विणीं ऋद्धिकरयोः
हरिणीं दृशयोर्विद्याद् हारितां ऋशकारयोः ३
तथा रेफषकारे तु हंसपदां प्रकीर्त्तयेत्
या तु रेफषकारी स्यात्काकिनीं तां विनिर्दिशेत् ४
रहाभ्यां तु परं नित्यं कामयन्ति विचक्षणाः
हरौ तु यत्र दृश्येते न क्रमस्तु तयोर्भवेत् ५
रयोर्यदिहकारस्तु दृश्यते मध्यमः क्वचित्
द्विर्भावं तत्र जानीयात्प्रेङ्खांस्तर्ह्ये निदर्शनम् ६
  इति द्वितीयः खण्डः
नैतत् स्वरति पूर्वाङ्गे न पराङ्गे कदा चन
न व्यञ्जने न मात्रायां कथं योगो विधीयते १
स्वरस्यैव तु पूर्वार्धे व्यञ्जनार्द्धार्द्धपश्चिमे
तयोरर्द्धार्द्धसंयोगे स्वरं कुर्याद्विचक्षणः २
अन्तोदात्तं मध्योदात्तं विरतं संशये पदे
अन्तोदात्तं विजानीयादुदात्तः प्रत्ययो यदि ३
अन्तोदात्तं नीचस्वरितं विरतं संशये पदे
अन्तोदात्तं विजानीयादुदात्तः प्रत्ययो यदि ४
अवक्षेपः प्रमाणं च रवो यश्चाप्युपद्रवः
यमकः स्वरितं चैव दोषाः पञ्चार्च्चिके स्मृताः ५
वर्णा विंशतिरेकश्च येषां द्विर्भाव इष्यते
अथ मान्त्यास्तृतीयाश्च यलवाः शषसैः सह ६
अनुस्वारे विवृत्यां च विरामे चाजरद्वये
द्विरोष्ठ्यौ तु विनिर्गच्छ तथौकारयकारयोः ७
 इति तृतीयः खण्डः
बहूनामप्युकाराणामेकं करणमिष्यते
ह्रस्वे दीर्घे च वृद्धे च नानाद्यं करणं भवेत् १
बहूनामप्युकाराणां मध्यदीर्घं भवेद्यदि
आदावन्ते च करणं मध्यमः पृथगेव तु २
बहूनामप्युकाराणामन्ते दीर्घं भवेद्यदि
आदावन्ते च करणं मध्यमः पृथगाश्रितः ३
आदौ द्विःकरणं यत्र पश्चादुवर्णमेव च
आदिमध्यान्तः स विज्ञेयो वायोक्तो यो निदर्शनम् ४
आदौ सकृत्यकरणं यत्र पश्चादुवर्णमेव च
आदावन्तः स विज्ञेयो वायो शुक्रो निदर्शनम् ५
असंयुक्तः पूर्ववर्णः स्याद्युत्तरस्तु परतो यदि
उकारेण तु संयुज्यते करणाभ्यासस्तथा भवेत् ६
व्यञ्जनान्यनुवर्णानि यान्युवर्णान्त्यान् हितानि च
विद्यादिह करणमेतेषामथौकारडकारयोः ७
ओष्ठ्यस्वरावनन्तरौ यत्र यत्र सयोगसंयुतौ
तत्र सकृत्करणं स्याद्रिद्धः करणमतोऽन्यथा ८
ओष्ठ्यौ वर्णौ यदि स्यातामसंयोगपरावपि
द्विरोष्ठ्यतामेतैः कुर्यादोजिष्ठं पुपुदर्शनम् ९
 इति चतुर्थ खण्डः
यः स्वरान्तात् पूर्वपदात् परः षणकारमापद्यते
तव पदवह्विरते सामसु सन्धिवत्प्रत्यारम्भः १
नमौ गुरू नादसञ्ज्ञौ लघुचैवानुनासिकौ
संयोगौ सविसर्गौ च नादावेव प्रकीर्तितौ २
विवृत्तौ च विरामे च सवर्णे प्रत्यये परे
अनुनासिकास्तु विज्ञेयाः शेषा नादाः प्रकीर्तिताः ३
मात्रिका नासिका ज्ञेया द्विमात्रा नादसंज्ञकाः
सविसर्गास्तु नादाः स्युः सानुस्वारास्तु पूर्वशः ४
अनुनासिकास्तु ये वर्णा घोषास्तु प्रत्यया यदि
नादं तत्र विजानीयाद् अनुधेति निदर्शनम् ५
नासिकेष्वपि वर्णेषु यो यत्र भजते स्वरः
तन्तमेवोपजीवन्ति नासादोषांश्च वर्ज्जयेत् ६
अणुमेकमङ्गुष्ठे तु प्रदेशिन्यां तथैव च
तृतीये चैव कर्तव्ये प्रणतैवं प्रयुज्यते ७
द्वे अण्वन्तरेङ्गुष्ठस्य प्रदेशिन्यां षट्स्मृताः
अर्धमात्रतृतीयस्यां प्रणतैवं प्रयुज्यते ८
हकारं पञ्चमैर्युक्तमन्तस्थैर्वापि संयुतम्
औरसं तं विजनीयात्कण्ट्यमाहुरसंयुतम् ९
हकारं रेफसंयुक्तं कदा चिद्वलसयुतम्
उच्चारणीय कण्ठस्थमेवमीप्सन्ति पण्डिताः १०
हकारो यस्य पूर्वस्थो ह्यन्तस्य द्यो भवेत्परः
यदकाले वियुज्येत संहितायां न सौरसः ११
 इति पञ्चमः खण्डः
व्यञ्जनं शिरसि निर्विष्टो रेफ ऋवर्णतां याति
स तु सर्वत्र न कार्यः शषसहकारेषु कार्यः १
अक्षरं शषसं चैव यत्र तिष्ठति संयुतम्
ऋवर्णं तत्र विद्येत व्यञ्जनं तु विनिर्द्दिशेत् २
अक्षरं यत्र दृश्येत व्यञ्जनं विरते पदे
पूर्वाङ्गं तद्विजानीयाद् यत्स्थितं तत्पराङ्गवत् ३
रेफस्य च ऋवर्णस्य स्वरभक्तेस्तथैव च
अवर्णवत् प्रयोगः स्याद्द्विवच्च व्यञ्जनस्य तु ४
मध्यमां श्रुतिमासाद्य द्विविधं दर्शयेत्स्वरम्
अधस्येनिषिवत्कुर्याद् ब्रह्मजज्ञानमूर्ध्वगे ५
सष्टाङ्गत्वा प्रणतं स्यादसकृन्नीचमुच्यते
आयाहि प्रणतं नीचं परिप्राणचतुर्थयोः ६
आकारान्तं यदूष्मान्तं घोषं च परतः स्थितम्
स घोषवति लोपस्तु विदागाधं तु दर्शनम् ७
 इति षष्ठः खण्डः
अस्थ उस्थे च रङ्गे च गतिलोपे तथैव च
एकारौकारलोपे तु विवृत्तिर्व्यञ्जनोदया १
अप्रत्यया उवर्णा धढतपराः पक्विवर्जम्
उवर्णेषु तु संवृत्ता ज्ञेयास्ते हरीतवर्जम् २
द्वितीये विरता या तु चतुर्थे न प्रवर्तते
दीप्तामघोगमे विद्यादुपरिष्टात्तु आयतीम् ३
ऊताप्रहूमसा चैव त्सिवावारा तथा मही
नित्यायताः प्रयोक्तव्या निर्दिशन्ति विचक्षणाः ४
प्राणापाननिगारे च संस्वाद ऋषभे तथा
प्रथमस्वरे तु कर्तव्याः कीटिकडाकार एव च ५
प्राणसान्नित्यजेत् प्राणं प्रथमं दक्षिणं भवेत्
सव्येन तु ग्रहणं स्यात्प्राणस्य उच्चयाथवा ६
दक्षिणे निसृताः प्राणाः अमानात्त्वन्यथा भवेत्
सव्यं पीत्वा अमानस्य तुस्वरोऽस्य मतं यथा ७
पादपूर्वा ये उकाराः पदपूर्वास्तथैव च
ड-इति चेति विज्ञेया डढकारेऽप्ययं विधिः ८
मथ्यमाने यथा दघ्नि नवनीतं विजायते
तद्वदिष्टमधः ताभ्य पृथग्युक्तौ च भावयेत् ९
शषसहरा दृश्यन्ते तेषु चोदयवर्तिषु
दीर्घानुस्वारं जानीयात्संयोगे ह्रस्व एव वा १०
असंयोगादनुस्वाराल्लघूनासुपयास्यति
संयोगात्तु परं नित्यं संशयो विनिवर्तते ११
संयोगः परतो यच्च अनुस्वारस्तु पूर्वशः
ह्रस्वं तं तु विजानीयात्संस्थे इति निदर्शनम् १२
अनुस्वारस्योपरिष्टात्संवृतो यदि दृश्यते
स दीर्घ इति विज्ञेय उभयं शृणु तच्च नः १३
मात्रादिद्विमात्रोऽनुस्वारो द्विमात्रान्मात्रा एव च
मात्रिकादपि संयोगे मात्रिकस्तु द्विरूपवत् १४
 इति सप्तमः खण्डः
यवौ तु रेफसंयुक्तौ रेफ आद्यो भवेद्यदि
पूर्वाङ्गं तद्विजानीयात्सूर्यपूर्वनिदर्शनम् १
यवौ तु रेफसंयुक्तौ विरते च भवेद्यदि
पराङ्गं तद्विजानीयातरो हर्येति लक्षणम् २
आसन्नाच्च महानाच्च यातुधानाच्च यो यथा
न एते नकारपूर्वास्युर्निर्द्दिशन्ति विचक्षणाः ३
हकारो यत्र दृश्येत वर्गान्तैः संयुतः क्वचित्
उदादयस्तु विज्ञेयाः पृथग्युक्तौ च भावयेत् ४
रेफपूर्वो हकारस्तु रेफात्परमथापिवा
अनुस्वारात्परो यत्र हकारः क्रमति त्रिषु ५
अनुस्वारपराः शषसा न क्रमन्ति कदा चन
तत्र क्रमन्ति शषसा अन्त्यस्थैः परतो यदि ६
सूर्यरश्मिप्रतीकाशः कणिकः यत्र दृश्यते
अणोस्तु तत्प्रमाणं स्यान्मात्रा तु चतुराणुवत् ७
हृदयस्थमणु विद्यात्कण्ठे विद्याद्विराणुवत्
त्रिराणवन्तु जिह्वाग्रे निसृतं मात्रिक भवेत् ८
चाषस्तु वदते मात्रां द्विमात्रां वायसोऽब्रवीत्
शिखी त्रिमात्रो विज्ञेयः एष मात्रापरिग्रहः ९
एकमात्रो भवेद्ध्रश्वो द्विमात्रो दीर्घ उच्यते
प्लुतस्त्रिमात्रो विज्ञेयः व्यञ्जनं चार्धमात्रिकम् १०
सर्वमत्रचतुर्थन्न वर्द्धन्त एतानि वर्द्धन्ते
यथा दश्चरति रान्द्रस्विन्द्रसच्छू अतपसात्वासूगोलारात्पतन्तीच रहस्ये
वर्हिर्ष्यादीनामपरिस्वारो व्यञ्जनलोपो व्यञ्जनलोपः ११
 इति लोमशी शिक्षा समाप्ता
 ग्रहवेदाङ्गयुते इषे मास्यर्जुने दले
 गौतमीलोमशीशिक्षे विहिते सामगे मुदे १
 युगलप्राक्किशोरेण पाठकेन दयालुना
 सामगानां हितार्थाय वेदविद्यालयेऽङ्किता २