Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) >लौगाक्षिशिक्षा Laugākṣhi Śhikṣhā

लौगाक्षि शिक्षा

महेन्द्रो मलय सह्यः शुक्तिमान्वृक्षपर्वतः
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः १
वेदवैष्णवरौद्रार्हच्छैवसौरविभेदतः
षड्दर्शनमिति ख्यातं मुनिभिर्ज्ञानकोविदैः २
ओं स्वयम्भुवे नमस्कृत्वा ब्रह्मणे वेदमूर्तये
वेदेभ्यो देवताभ्यश्च मंत्रकृद्भ्यस्तथैव च ३
आर्षं छन्दोदैवतं च विनियोगं तथैव च
प्रवक्ष्याम्यनुपूर्वेण कृत्स्नं चारायणीयके ४
आयुर्यशोधनं पुत्राः पुण्यं स्वर्गस्तथैव च
प्राप्यते सर्वमेतेन यथावद्विदितेन तु ५
अविद्वान्ब्राह्मणश्चैव ऋत्विग्भ्यो याज्य एव च
कुर्यात्कारयते यज्ञं कर्ममात्रेण केवलम् ६
छन्दसां यातयामत्वात् पापीयान् जायते तु सः
सर्वज्ञातिं प्रमीतश्च गर्भस्थनुपपद्यते ७
मन्त्रे मन्त्रे तु यो वेद ऋषीं छन्दांसि तस्य तु
दिव्यमन्दसहस्राणामेकैकस्याविनिन्दितः ८
प्रतितन्दिंति सर्वे तं पूजितो धनवांस्तथा
निरातंको देवतायास्तस्या तद्भयमाप्नुयात् ९
यो मंत्रो येन वै दृष्टस्तपसा भावितात्मना
सतस्यैव ऋषिः प्रोक्तो ब्रह्मा सर्वस्य चैव हि १०
ऋषिः सर्वस्य चिद्ब्रह्मा कस्मादन्योयमुच्यते
क्षेत्रज्ञपरतात्मानौ तस्माद्वेद्यौ तु तावुभौ ११
अग्निः पुनर्नवो जीर्णः छन्दोभिः क्रियते न्वहं
वरेण ब्रह्मणश्छेज्यः पूर्वमेतच्छ्रुतिर्जगौ १२
छन्दोविशिष्टस्संयाज्य उक्तः काम्यासु चेष्टिषु
होतुस्तद्रूपतः चोक्तः प्रवेशो ब्रह्मधर्मसु १३
छन्धोभिछादिता मर्त्या देवत्वं वै यतो गताः
यज्ञस्सर्वस्तु छन्दांसि तस्माद्वेद्यानि तानि तु १४
अविदित्वात्तु यच्छन्दो यज्ञं जप्यं स्वरं तथा
कुरुते त आयतति वाग्वज्रश्शक्रशत्रुवत् १५
वक्ष्यामि लक्षणं येषां यजुषामादितस्त्विदम्
विद्वानेतान्विदित्वा तु सर्वत्रैव प्रकल्पयेत् १६
एकाक्षरादि क्रमशो मा प्रमा प्रतिमा तथा
अस्त्री वयोक्षरपंक्तिर्गायत्र्युष्णिक्तथैव च १७
अनुष्टुप् बृहती पङ्क्तिर्विराट् त्रिष्टुप् तथैव च
जगत्यतिजगती च शक्वर्यतिशक्वरी तथा १८
अष्टिरत्यष्टिश्च धृतिश्चातिधृतिस्तथा
कृतिः प्रकृतिश्चाकृतिश्चैव विकृतिः संकृतिस्तथा १९
अतिकृतिश्चोत्कृतिश्च षट्त्रिंशतिरनुक्रमात्
अत ऊर्ध्वमतिछन्दो यजुषे तां विकल्पयेत् २०
छन्दांसि ऋक्षु वक्ष्यामि पूरयेच्च यवैः पदम्
पादैश्चतुर्भिरात्मीयैर्भवन्त्येतानि सर्वदा २१
एकद्वित्रिचतुष्पादं पंक्त्यादं सर्वमेवमेव हि
चतुष्पदीत्वक्षराण्युत्कृतिस्स्याच्च तदा २२
सदैकेन हीनेन तु दक्स्यादधिकेन च
विराट् स्वप्रगृह्या प्लुतास्सर्वत्र उदात्तो ब्राह्मणो वासिष्ठो गायत्रः
अनुदात्त क्षत्रियो भारद्वाजस्त्रैष्टुभः स्वरितोः वैश्यगौतमौ जागर्तः २३
अग्निरुदात्तस्य देवता
अनुदात्तस्य वायुः स्वरितस्य सूर्यः
ज्वालाखचृद्वायुवज्रस्तु शूद्रा ह्येतेन संशयः २४
षड्जश्च वृषभश्चैव गान्धारो देवतस्तथा
पञ्चमो मध्यमश्चैव निषादस्सप्तमस्स्वरः २५
उच्चे निषादगान्धारौ नीचे ऋषभधैवतौ
शेषास्तु स्वरितो ज्ञेयाः षड्जमध्यमपञ्चमाः २६
शुक्लमुच्चं विजानीयान्नीचं लोहितमेव च
श्यामं तु स्वरितं विन्द्यादग्निरुच्चस्य देवता २७
नीचस्य वायुः सविता स्वरितस्य विधीयते
उदात्तस्तालु गर्भश्च स्वरितः प्रचयस्तथा २८
नीचः सर्वानुदात्तश्च स्वरः सन्नतरस्तथा
प्रचयस्तालुगर्भश्च सन्नतरस्तथैव च २९
वाक्पृशति न पाणिस्तु ज्ञेयं चारायणीयके
रज्ञस्तद्विविधो ज्ञेयो स्वरे च व्यंजने परे ३०
पारावतस्य वर्णाभ्यां विहिताक्षरचिंतकैः
तस्य मात्रा तु हृदये अनुमात्रा च मूर्धति ३१
नासाग्रे त्वणुमात्रस्य रङ्गस्य परिकीर्तिता
यथेन्द्रनीलप्रभयाभिभूतः मुक्तामणिर्याति हि नीलभावम्
तथैव नासिक्यगुणेन युक्तस्स्वरोऽपि रंगत्वमुपैतिकृत्स्नः ३२
हृदयाज्जायते रंगः कांस्यवत्तस्य निःस्वनः
लघुश्चैव द्विमात्रश्च सखीं रछ्वा निदर्शनम् ३३
टपरे रंगमित्याहुरघोषे मुखनासिकम्
अन्यस्वरोऽनुनासिक्यमृँ भूरिति निदर्शनं ३४
हकारं पञ्चमैर्युक्तमन्तैश्चापि संयुतम्
उरस्य तं विजानीयात्कण्ठ्यमाहुस्तु केवलम् ३५
अनुस्वारे पदे पूर्वे संयुक्ते पुरतः स्थिते
तदा ह्रस्वं विजानीयात्संस्थाप्येति निदर्शनम् ३६
अनुस्वारोपरिष्टाच्च संवृत्तं दृश्यते क्वचित्
सदीर्घमपि विज्ञेयाद्यज्ञं शृणोति दर्शनम् ३७
न करालो न लम्बोष्टो न च सर्वानुनासिकः
गद्गदो बद्धजिह्वश्च प्रयोगं कर्तुमर्हति ३८
वर्णहीनं तु योऽधीते कृतिस्वरविवर्जितं
ऋग्यजुःसामभिर्दग्धो वियोनिमधिगच्छति ३९
प्रहीणः स्वरवर्णाभ्यां यो वै मन्त्रः प्रयुज्यते
यज्ञेषु यजमानस्य रुषत्यायुः प्रजां पशून् ४०
सुतीर्थादागतं व्यक्तं स्वस्नातं स्वप्रतिष्ठितं
सुस्वरेण सुवक्त्रेण प्रयुक्तं ब्रह्म राजते ४१
यलवा यत्र दृश्यंते शषसैः सह संयुताः
लोमशांस्तां विजानीयाच्छेषाच्चान्ये ह लोमशाः ४२
प्रथमानूष्मसंयुक्तानेकपादे द्वितीयकाः
स्वन्तपं द्विपदे कुर्यात्मत्स्यस्तत्सवितुर्यथा ४३
ङणनाः पूर्वपदान्तशषसेषु परेषु च
कटतैर्व्यवधीयेत्तु वर्जयेत्तच्च संयुतम् ४४
ह्रस्वादिवत्सानुसृतिर्वत्सानुसारिणी चाग्रे
पाकभृत्प्रभय ह्रस्वाद्विदीर्घा तु पिपीलिका ४५
एताविवृत्तयो ज्ञेयाश्चतस्रोक्षरचिन्तकैः
पिपीलिका त्रयामात्रा स्थानं वत्सानुसारिणी ४६
वत्सानुसृत्यो द्व्याणुः पावकवत्याम् अणुः पादस्याणुः स्थानमवर्चस्य द्व्यणुः
ऋचो मात्रानुवाकस्य तिस्रः स्थानकस्य गोदोहमात्रं ४७
अनुस्वारो यत्र पूर्वो यवां च परतः स्थितौ
परसवर्णं तं विद्याद्द्वित्वं तत्र विनिर्दिशेत् ४८
स्वरभक्ती प्रवक्ष्यामि चतस्रस्तु यथाक्रमम्
रहयोर्करिणीं विद्यात्कर्विणीं लहकारयोः ४९
रशयोः हरिणीं विद्याद्धारितां लशकारयोः
या तु हंसपदानाम सा स्याद्रेफषकारयोः ५०
स्वरभक्तीः प्रयुंजानस्त्रीन्दोषान्परिवर्जयेत्
विस्वरं विरसं चैव ग्राह्यदोषस्तथैव च ५१
अनुस्वारो तु कर्तव्यमंगुष्टाग्रे प्रकुंचनम्
मान्ते मुष्ट्याकृतिं कुर्यात्पांते त्वंगुलिपीडनम् ५२
कर्णान्ते योस्तु कर्तव्यं प्रदेशिन्याः प्रकुंचनम्
गणांतयोस्तथैव स्यादूष्मांतेऽङ्गुलिमोक्षणम् ५३
तलयोस्त्वथसंश्लेषे अंगुल्यंगुष्टयोर्विदुः
प्रसारणं स्वरांतस्य नान्तस्यापि नखे नतु ५४
यथा सौमत्तनागेन्द्रः पदात्पदं त्रिधाविधा
एवं पदं पदाद्यन्तं दर्शनीयं प्रयत्नतः ५५
अनुदात्तादिसर्वेषां वर्णादौ सारणाभवेत्
द्विरुदात्तो तथाद्ये च द्वितीये चैव निर्दिशेत् ५६
मोक्षग्रहणसन्धाने स्पर्शनं दृश्यते यदि
स्पर्शने सारणां कुर्यात्तत्पूर्वे मोक्षणं भवत् ५७
अन्तोदात्तमाद्युदात्तमुदात्तमनुदात्तं नीचस्वरितं
मध्योदात्तं स्वरितं द्विरुदात्तं त्रिरुदात्तमिति नवपदशय्याः ५८
अग्निः सोमः प्र वो वीर्यं हविषां स्वर्वनस्पतिः
इन्द्राबृहस्पतिभ्यामित्युदाहरणान्यत्र क्रुद्धो गुरुर्वदति यानि इति ५९
ह्रस्वप्लुतान्प्रयुंजीत विरामेष्वनुनासिकम्
स्वश्लोकप्रभृतीनां तु न तु व्यञ्जनचोदिशेत् ६०
पदानि पुनरुक्तानि सप्तचारायणीयके
विहाय पंच द्वे वाच्ये शाकल्यो मुनिरब्रवीत् ६१
अनुदात्तात्कम्पनं यत्र द्व्यङ्गुलं तत्र पृष्टगम्
हस्तस्वरसमायुक्तं कम्पयेत विचक्षणः ६२
अवरुह्य तथोदात्तादङ्गुलं सार्द्धमेव च
कम्पं कुर्यात्ततः पश्चाद्धस्तस्तत्रैव तिष्टति ६३
स्वरितात्कंपनं यत्र तत्रैकांगुलमूर्ध्वगम्
हस्तं श्रुतिगतं कम्पेत् वांगुलाद् अर्तिरेचयेत् ६४
उभयोः कम्पयोर्यत्रत्वेकस्त्रारं कदाचन
सार्धास्यादंगुलादेकाद्द्वितीयं चांगुलोर्ध्वगम् ६५
ग्रहावंत्यादयो प्रचयो तदत्याभावेरुक्ता पुनरुक्तयोरुच्चनीचयोः
उच्चादेन पुनरुक्तस्याद्ययोः प्रचये तदन्याभावे पुनरुक्तस्य ६६
अविद्यमानवत्प्रचयः विसन्धादीनां नेष्टमेव ६७
अग्निष्टोमप्रणीती प्रणीतात्त्रिशिं चिन्ननुष्टुप्त्रिष्टुभादीनां पदवल्लोपेवेष्टानम्
ज्योतिष्कृत्स्वर्यत्यादीनां पूर्वौ सजिह्वामूलीयोपध्मानीयौ दूष्यदूष्यदुभयोः पूर्वौ सरेफौ ६८
अहोरात्र सदोहविर्धानादीनि द्विवचनात्पृक्तमवर्णमखण्डितानि चतुर्थां वर्जं
नवधादीनि च भृणहाविश्च हासंस्कृतमित्यखंडितरत्येव ६९ अक्षिपत्कुकुभ्मानस्वप्रचौ जागृवां स
इत्यखण्डितानि चारायणीये समद्वेतिशब्दशब्दशब्दःपरः ७०
समद्विति बह्वृचां
उत्तमे दिग्वाचमखण्डां परस्यापि टकारः दमुतोन्तुरस्मादुत्तरस्य पक्षस्थ विष्णोर्त्तुकं वीर्याणि प्रवोचमित्युत्तरस्य भ्रातृव्यह्वोक
उत्ताराणीत्ये वमादीनिदिरवाचकात्यखण्डितात्येव यानि दक्षिणानि छन्दींषि
तान्युत्तरान्युत्तरमेवमेवमाद्युत्तरं खंडितं निषसा च ७१
निषसूषणा
दृषूणावीतां पूर्वपदसा बन्धानेषत्वणत्वौ स्वस्स्वर्गवाचकं जात्यम् ७२
श्रैष्ट्याय समसूषत्ये ते तस्य लोपो नास्ति
अग्निस्वेतत्वं प्राहिं सीदग्निस्त्वामात्रयादितिस्त्वायस्त्वासदन ७३
आयुस्ते विश्वतो दधदित्येवमादीनां न व्येपैराणामपि टकारोनाखि
अकष्टवावा पृथिवीत्यनामि परस्यापि टकारः स्वर्णघर्मस्वर्णज्योतिरित्यत्र संहितायां न त्वं चारायणीयके इन्द्राणी वा विधवात्वष्ट ७४
तृशमीन्द्राण्या एकादशीत्येतावेनुभयह्रस्वावपिष्टश्लिष्टावेवरेषधिवनस्पत्यग्निबहुमित्रादयो ह्रस्वाः तु भिस्मपरा खण्डिताः स्वपिषत्ववर्जेति खंडितम् ७५
ओषधिपदं ह्रस्वान्तं मंत्रेजुष्टमाद्योदात्तमन्त्रे इति शिक्षापाठः ७६
घश्चेति सप्तमः नोदितावलगातारा
केशिनी धातृ रेवच स्वमतिः पिपीलिका त्वाष्टा वायव्या नववृत्तयः ७७
तिस्रः तिस्रः क्रमेणासां पूर्वे मध्ये तथोत्तरे
सवनेषु प्रशस्यन्ते द्रुतमध्यविलम्बिताः ७८
यथा हि सौवत्सरुतं निशा हित्वा त्यं वत्साभिमुदे
प्रयाति ब्रह्मापि तद्वत्प्रणावोपि हूतो वक्तारमागछति ७९
चाशुवक्त्रे सामविक्रमसम्पन्नासद्रुतामविलम्बिनीम्
उच्चारयेत कल्याणीं वाचमाम्नायसारिणीम् ८०
सामशब्देन वास्येत आपः प्राणाः
अष्टौ स्वरान्प्रवक्ष्यामि तेषामेव तु लक्षणम् ८१
जात्योऽभिनिहितश्चैव क्षैप्रः प्रश्लिष्ट एव च
तैरोव्यंजन संज्ञाश्च तिरोविराम एव च ८२
च तथाभाव्यास्तथोस्वारः पादवृत्तस्तथाष्टमः
तिर्यग्वाद्यास्तु चत्वारो गच्छेयुर्सजवौ परे ८३
यथा धनुष आदाय शरक्षिप्ते पुनर्गुणः
स्वस्थानं प्रतिपद्येत तद्वद्धस्तगते स्वरे ८४
गुणवतः परे नीचे जात्यादीनामशेषतः
हस्तो पुनरागच्छेदुच्चैर्यत्र परं पदम् ८५
स्वरितं त्र्यंगुलं विद्यात्प्रचये पुरतस्थिते
एकांगुलं परी नीचे उदात्ते तु षडंगुल ८६
गम्यते त्रिविधे स्वारे तिर्यक्पदं समाहरेत्
यद्यकारो परिष्टात् स्याद्गतोप्यगतिवद्भवेत् ८७
तीक्ष्णोभिनिहितस्वारः तस्मात्किंचित्मृदुर्भवेत्
प्रश्लिष्टोथमृदुः किंचित्क्षैप्रस्तस्माद्विधीयते ८८
क्षैप्रान्मृदुतरो जात्यो जात्यान्मृदुतरो भवेत्
तिरोविरामस्तस्मात्तु तैरोव्यंजन उच्यते ८९
पादवृत्तस्य सर्वेषां मन्दयित्वा विशिष्यते
स यकारं सवं वापि अक्षरं स्वरितं पदम् ९०
नीचपूर्वमपूर्वं वा सजात्यः स्वर उच्यते
एओ आज्यमुदात्ताभ्यामकारो यत्र दृश्यते ९१
अनुदात्तोभिनिहितस्सहन्तस्सैवाजमिति त
इउवर्णो यदुदात्तावा यद्येते यवौ क्वचित् ९२
नीचे तु प्रत्यये नित्यं विद्यात्क्षैप्रस्य लक्षणम्
इकारे यत्रलोपस्स्यादिकारेणैव सन्धितम् ९३
उदात्तमनुदात्तं च प्रश्लिष्टोभीत्थतामिति
उदात्तपूर्वं यत्किंचिद्दृश्यते स्वरितं पदम् ९४
एषसर्वबहुस्वारे तैरोव्यंजन उच्यते
अवग्रहात्परं यत्र स्वरितः स्यादनुत्तरं ९५
तिरोविरामं तं विद्यादुदात्ते यद्यवग्रहः
उच्चनीचौ स्वरौ यत्र नीचे यस्याप्यवग्रहः ९६
तथाभाव्यं विजानीयात्तनूनप्त्रे निदर्शनम्
स्वरस्य स्वरितो यत्र विवृत्ता यत्र संहिता ९७
पादवृत्तं विजानीयादेवमाहुर्मनीषिणः
पादान्ते तु विरामः स्याद्बलाहक इति स्मृतः ९८
अर्धर्चेवैतृता नाम ऋगन्ते तु भुजङ्गमः
दूतायां वृत्तौ त्रिकलात्रामध्यमायां चतुष्कला पंचकलायां विलम्बितायाम् ९९
शुक्लागायत्रीरूपेण सारंगं रूपमुष्णिहाम्
पिंगलं ककुभां रूपं कृत्स्नमानुष्टुभं तथा १००
रोहितं बृहतीनां तु तीलं पांक्तं ततः पुनः
सौरभं त्रिष्वभां रूपं गौरं जागत उच्यते १०१
अतोयान्यानि छन्दांसि श्यावदं तेषां ततः पुनः
नकुलं त्वेकपादानां द्विपदां वभ्रुरेव च १०२
सारंगं शुक्लकृष्णरूपमुच्यते
प्रथमांत्यातृतीया च यरलवाश्शषसैः सह १०३
एकादिकां विंशतिं च द्विर्भावेन नियोजयेत्
परे स्वरविवृत्तिः स्यादौंताश्चारायणीयके १०४
सर्वत्र सन्धिमत्विछत्वकारेत्वन्यशाखिनः
ता एतौ अंगशब्दस्य मंत्रे प्रकृति भावो न ब्राह्मणे १०५
उत्सादतो अंगादंगादिति वर्जम्
अयवथा शब्दोपर ओकारः प्रकृतिन्यान एकारः १०६
अज्वानामादिषु परेषु प्रकृतिभावः
उरोजुषाणो वृष्णिश्च असिशब्दे विवृत्तिर्न १०७
भवति गर्भभद्र --
चतुरुत्तराणि सर्वाण्युत्कृतिः स्याच्चतूशतं
निमृदेकेन हीनेन भुरिक्स्यादधिकेन च १०८
विराट् द्वयो न हीनेन रेपेतितोन् स्वरा स्यादधिकेन च
विराट् द्वयो न हीनेन पंचकेनाथ पादेन भवेच्छंगुसतीतुसा १०९
नवाक्षराभ्यां षट्केन ऋङ्नागी सा प्रकीर्तिता
वाराही सा तथैव स्यात् षट्काभ्यां नवकेन च ११०
हीनाक्षरा मध्यापादे गायत्री वै त्रिपाद्यदि
पिपीलका तु सा ज्ञेया यवमध्याधिकेन च १११
एतत्समानं सर्वेषां एकैकस्य ब्रवीम्यथ
षडक्षरा स्याद्गायत्री तथैवाष्टाक्षरैस्त्रिभिः ११२
उष्णिग्गर्भा तु सा ज्ञेया षट्सप्तैकादशाक्षरैः
अष्टद्वादशकाभ्यां तु विराण्रामद्विपादियम् ११३
दशाक्षरैस्त्रिभिः पादैस्तथैवैकादशाक्षरैः
अष्टद्वादशकाभ्यां तु । नवकायोस्तु मध्ये स्याजग ११४
नवकायोस्तु मध्ये स्याज्जगत्याः पदम् एव गु
नष्टरूपात्तु सा ज्ञेया गायत्र्यैव विराडियम्
सप्ताक्षरैस्त्रिभिः पादैः सैव पादनिचृद्भवेत् ११५
षट्कं द्वस्य मध्ये स्याद्भवेदतिन्द् अनृमृत्तु सा वर्धमानातु
सा ज्ञेया षट्सप्तावाक्षरैस्त्रिभिः ११६
एतैरेव विपर्यैस्तैः प्रतिष्टा सा प्रकीर्तिता
उष्णिक्सप्ताक्षरा ज्ञेया एकश्चेद्द्वादशाक्षरः ११७
चेद्द्वादशाक्षराः
आदिमध्यावसानेषु भवेदष्टाकयोर्यदि
पुरःककुं परा पूर्वा उष्णिगेव प्रकीर्तिता ११८
उष्णिग्गर्भा तु सा ज्ञेया पंचकेनाष्टकैस्त्रिभिः
एकादशद्वादशकौ चतुष्कश्चैव एव तु ११९
उष्णिगेव त्रिभिः पादैः ककुब्द्व्याङ्कुशिरास्तथा
तत्र शिरात्तु सा ज्ञेया द्वौ यत्रैकादशाक्षरौ १२०
षडक्षरस्तृतीयः स्यादेवमुष्णिगुदाहृता
अष्टाक्षरात्वनुष्टुप्स्यादेकस्त्वष्टाक्षरो यदि १२१
द्वादशाक्षरयोस्तु स्यादादौमुख्ये तथांततः
पुरः ककुप्परा पूर्वा ज्ञेया सानुष्टुभेव तु १२२
द्वौ तु द्वादशकौ स्यातामष्टकश्चकृतिस्तु सा
अनुष्टुबेका गायत्र्यात्रि च आनुष्टुबस्तु सः १२३
अनुष्टुभ्मुखो वा क्वचित्प्रगावः स प्रकीर्तितः
नवाक्षरास्याद्बृहती त्वष्टकानां भवेद्यदि १२४
पुरः पथ्यो परिष्टा स्यात्पूर्ववद्द्वादशाक्षराः
पुरस्तान्न्यङ्कुसारिण्युपरिष्टादतः पूर्विका संज्ञा विकल्पिता कैश्चित्स्कन्धोग्नीवीचमध्यमा १२५
सतः पूर्वा तु सा ज्ञेया त्रिभिर्वै द्वादशाक्षरैः
अष्टकौ दशकौ चैव विष्टाराद्या तु सा स्मृता १२६
अष्टका चैव चत्वारो जगतिश्च महाधिका
त्रयोष्टका द्वादशकौ महासतस्तु पूर्विका १२७
नवकश्चाष्टकश्चैका दशका चाष्टकस्तथा
बृहती विषमपदा प्रोक्ता सा वेदवादिभिः बृहती १२८
गतो बृहत्या प्रगाथो --
न स्मृतः ककुप्सतो बृहत्यौ तु प्रगाथाः काकुभाः स्मृताः
बृहतीगतौ बृहत्यौ महापूर्वे उभे यदि १२९
पङ्क्तिर्दशाक्षरा ज्ञेया पंचपंचाक्षरा अपि
दशाक्षरैश्चतुर्भिस्तु विराडुक्ता तथैव च १३०
स्यातां द्वादशकौ यत्र पादयोरष्टवर्णयोः
युग्मतो युग्मतो वाह्य आदौ मध्ये तथा तु तः १३१
सतो सतश्च संस्तारः प्रस्तारश्च तथैव च
विष्टारस्तारपूर्वा सा पंक्तिर्ज्ञेया तु षट्विधा १३२
चत्वारः पंच वा द्वौ वा पंक्तिः पूर्वाक्षरा तु सा
चतुष्केनाथ षट्केन त्रिभिः पंचाक्षरैस्तथा १३३
पदपंक्तिस्तु ज्ञेया पंचपंचाक्षरा तथा
चत्वारः पंचकाष्षट्कं महापूर्वा तथैव सा १३४
अष्टका सप्तकः षट्को दशको नवकस्तथा
दशपंक्तिमहापूर्वा छन्दोविद्भिरुदाहृता १३५
पंक्त्या पंक्तिस्तु सा ज्ञेया पंचैवाष्टाक्षरा यदि
षट्भिरष्टाक्षरैर्ज्ञेया पंक्तिविष्टारपूर्विका १३६
विराड्रूपा तु दशकावष्टकौ पंचकस्त्रयः
अष्टाक्षरस्तु चत्वारपश्चाच्चिद्द्वादशाक्षरः १३७
त्रिष्टुभेव तु सा ज्ञेया शुद्धा चैकादशाक्षरा
दशकौ द्वादशकौ चैवोच्यते साभिसारिणी १३८
नवकौ दशकौ स्वश्च विराट्स्थाना तु या भृता
अष्टाक्षरत्रयः पश्चाद्द्वादशाक्षरयोर्यदि १३९
जगत्येव तु सा ज्ञेया शुद्धा सा द्वादशाक्षरा
जगत्यास्त्रिष्टुभश्चादौ मध्ये चान्तेष्टकौ यदि
ज्योतिष्मत्यान्ततो विद्यात्पुरस्तादधिपूर्विका १४०
चतुष्पदान्येवै सर्वाण्यत्कृत्यान्तानि चैव हि
चतुराक्षरवृद्धान्येन्यतिछन्दस्ततः परम् १४१
गायत्र्याद्यानि सप्तैव छन्दांसि स्युः प्रजायते
चतुराक्षरवृद्धानि क्रमाक्षरात्परं पदम् १४२
यजुषामेकवृद्धानि षट्स्युः प्रभृतिभिः
क्रमात् हीनाभ्यधिकवर्णानि प्रोक्तानि दश पंच वै १४३
एकादिकान्येकविवर्धितानि दैव्यानि सप्तैव यथा क्रमेण
तथैव मत्स्यो यजुषा क्रमेण हानिं विदध्यादसुराणां तथैव १४४
धातुक्रमेण वृद्धानि चतुर्भिरेव साम्नां द्वाभ्यां द्वादशानि विद्यात्
अष्टादशाद्यानि ऋचां क्रमेण त्रिभिर्वृद्धानि तथैव विद्यात् १४५
चतुर्विंशत्याद्यानि चतुर्भिरार्षं तथा ब्राह्मं षट्त्रिंशच्चापि षट्भिः
अग्निसोमस्सविता बृहस्पतिर्मित्रावरुणाविन्द्रो विश्वेदेवाः १४६
सप्तानां दैवतमादित्याः पुंसां ब्रह्मविराट्स्वेकपदां तु नित्यम् १४७
वायुर्विच्छन्दवायुर्वै छन्दसोन्ये धाता शुक्लं सांगंकं कृष्णं रोहितम्
नीलं स्वर्णं शौचसप्तानावर्णाः स्युः पृश्लयो वभ्रुः नकुलाः विरा १४८
ट्स्वेकपदाः शावन्यन्यानि छन्दसामेतत्प्रजायतेरार्षम् देवश्छन्नामृत्युभीता
यस्तैः दुर्मृत्युदेशं नामछन्दोविसृतिस्तृतीया १४९
मन्त्रस्वरूपं मननादथैतेत्रायंते ते विधिवद्यशोक्ताः यथोपदिष्टान्विधिवत्सयगन्
युक्तीश्च ब्राह्मणश्चाप्यर्थवादान् १५०
पापण्यसिद्धिं पदवाक्यसारक्रमेण वक्ष्ये द्विविधा यथोक्ताः १५१
द्रव्यं संस्कारकास्तु केचिद्बहुशो दैवतस्याभिधाक्षयकाः विष्णुर्मनस्येत्यग्निर्भवेति
च यथा क्रममीदृशा वेदितव्याः ते तु त्रिविधाः परोक्षेण कृताः प्रत्यक्षेण तथाप्यात्मिकाश्चाल्पाः १५२
आख्यातस्य प्रथमपुरुषेण सर्वाभिर्नामविभक्तिभिर्युक्ताः सूर्य
आत्मा दृशे विश्वाय सूर्यं यतते सूर्येण पयस्सूर्याय १५३
यो वस्सूर्याश्च रश्मे यस्सूर्यस्य प्रियस्सूर्य इति
परोक्षकृतः मध्यमपुरुषयुक्ताः त्वमिति सर्वनाम्ना १५४ प्रत्यक्षकृता वद्याः
यथा त्वमयो अजय इत्येवमुत्तमपुरुषेण त्वाध्यात्मिकाः
अहमित्येतेन सर्वनाम्ना यथा अहमपस्तत्त्वत्रापि १५५
इत्येदमाद्याः चतुर्विधास्तु पर्यायात्प्रवादोग्रेयत्तु वाक्यसमाप्तिश्चर्यञ्चतिवेद्याः १५६
राज्ञसीति पर्यायश्चिदसीतिपूर्वादौग्रे यत्ते वाक्यसमाप्तिः
स्वछन्दोछन्दश्छन्दो द्विविधैकद्वित्रिचतुष्पंचाषट्पाद्याः १५७
द्व्यवसाना स्त्र्यवसानः समं तास्सच्छन्दां
विषमाक्षराविच्छन्दाः
ताः प्रसिद्धाः पंचविधाः सौम्या मूढाश्चतुर्होतारश्चान्तास्स्वप्त्यवदानेति १५८
घोराघोरतराश्च सौम्याग्नि आयाहीत्याद्या मूढश्चतुर्होतारश्चातुस्तृप्तवदाशीति
घोराघोरतमस्तुकीमीत्याद्या आभिचारिका १५९
एव एकाशीतिस्तेषामिमेभिधेया अधिब्रह्माधियज्ञश्
चाधिदैवतमप्यात्मस्तु
तिराशीश्च शपथो अभिशापोभिचारश्च विधिः शांतिः अचिख्यासा १६०
निर्वचनं विभागः प्रश्नोत्तरा व्याख्यानं प्रैसाक्रोशो अन्वारोहणं स्वाध्याय
प्रशंसा निन्दा प्रशंसे परिवादेनाचकत्थना शुद्धिर्विकल्पसंकल्पौ संख्यानुबन्धः कर्माह्वानं याच्ञा संवादः प्रसवस्समुच्चयश्च परिवारो व्रीडः १६१
आमन्त्रणं च संशयप्रलायः प्रवह्निकश्च नियोगः
नियोगावुपधावणं च क्षणस्पृहा संलापो विलापः १६२
प्रतिषेधो पदेशात्मश्लाघानमस्कारस्सज्वरः प्रमोदा विस्मयो विसर्जनमभिप्लवः १६३
संविदुपप्रैषश्च प्रत्याख्यानं स्वकर्मकथनं प्रतिराधश्च
अपह्नवश्चाहनस्यं भद्रं चाचार्थे पसमृद्धिश्चालंकारश्च मे १६४
उपमार्थयकं दीपकं चैव यमकं च समर्थौ दशमे लिंगत्रयं च त्रिविधश्च
कालः पदं चतुर्विधं चैवम् ईकाशीतिस्ते द्वात्रिंशदेषां १६५
निर्वक्तुं युक्तयस्त्वधिकरणं योगपः पदार्थश्च हेत्वर्थ उद्देशो
निर्देशश्चैवोपदेशोप्यपदेशप्रदेशश्च अतिदेशोपवर्गो १६६
वाक्यशेषोर्थापत्तिः प्रसंग एकान्तश्च अनेकान्तः पूर्वपक्षो निर्णयो विपर्ययो तिक्तां ता वेक्षणं च अनागर्ता वेक्षणं विधानं च संशयो १६७
व्याख्यानमनुमतां च स्वं संज्ञानिर्वचनं दृष्टान्तिश्च नियोगो विकल्पः
समुच्चयो ह्यहम् १६८
आसांद्वावुपायौ नैरुक्तो तु तौ गीतमार्षोर्तिकं चार्थसिद्धये
पुरुगौरित्युत्पत्तिकं सर्वं दशधा गीतं गौणौ नैमित्तित्तिकाः १६९
भक्तास्संवादः कान्नकस्तशोपवारश्च सस्बन्धः
क्रव्यश्च सो योगिकश्चैच्छिकश्चैतेषां षट्प्रमाणानि सिद्धये ज्ञेयानि प्रत्यक्षमनुमानं स्मृतिं चोपमानमर्थापत्तिरुपमा चैव अतिस्मृति १७०
प्रतिभाषं संभवश्च भावोर्थापत्तिरुपमानं चेष्टा अष्टावन्ये दशचान्येन्यधान्ये
चत्वार्ये वेमह श्रुतिचोदितानि स्मृतिः प्रत्यक्षमैतिः पह्यर्थमनुमाने चतुष्टयमिति श्रुतिरेषामनुस्वरूपं चतुर्थी १७१
वदज्ञाने सर्व एते उपायावक्ष्याम्यथोदाहरणानि तेषाम् दीप्तब्राह्मं प्रत्यक्षं च परोक्षं च लिंगमात्रं द्वैधं ब्रह्मजज्ञानं च १७२
ऋषितमानामेकपदेनैव बहुदेवत्यख्यातं ब्रह्मादेवानां ऋषिगणानां प्रवलिहितं यन्त्रामविभक्तियुक्तं पृछामि १७३ त्वामृषिपुत्राणां नियतबहुलं नैगमावर्तयेदेवमादिमिश्राणां भूतभव्यभवज्ञानं पूर्वे वाजन्येषां स्वाभिप्रयन्तु १७४
अग्निर्ब्रह्मसावित्रीव्याहृतयोधियज्ञ उक्ताः पुरुषसूक्ते अधिदैव्यं हंसो
वल्यश्चाध्यात्मं स्तुती रुद्रा आशीर्यजमानं शपथं सन्यसि दरानावृष्टं च योनो द्वेष्टीभ्यभिशापाभिचारौ विधेर्देवस्यतेनांति स्वस्ति नो न तं वेदथेत्यादिख्यामैवं यदधौ
निर्वचनं तथोविभागः पृच्छामीयमिति प्रश्नोतुरव्याख्याने इमां प्रैष इमिता मा क्रोशो माता च त इमा नारीः अन्वारोहाणां पत्नी स्व
रोहावपावमानी स्वाध्यायप्रशंसा नता अर्वेत्यस्यानिन्दा प्रशंसेन नूनमस्तीति परिदेवना कनूसृना बन्धीवृत्तमित्याद्यैवं शुद्धिर्द्रुपदा विकल्पौ देवोवास्सत्याशीसंकल्पः संख्या इमा मेयन्ते यमित्येवमनुबन्धः कर्मेन्द्रौदधिचोग्न आयाहीचात्वाह्वानं याच्ञा प्रजयाजन्म इत्याद्यास्संवादस्तु कया आभीयं सूक्तं प्रशवस्तवप्रयाज इत्याद्याः सोमं राजानमिति समुच्चयं केतुं कृण्वन्तीति १७५
परीवादः व्रीडे यत्किन्देदं कामयंतु वा आमंत्रणमग्नेसहस्राक्षः संशयः किंस्वित्व
नमवस्विश्च प्रलापोच्चैको अद्य प्रवल्लिका वियोग इमं
मन्त्रं उत्तमे पादे नियोग इदं ब्रवीत्यादिकः कदाचनोपधावनं कस्य स्त्यस्पृहात्वाभूरुरेतिस्वदेवोवा विलापं नदस्यमित्यादिसंज्ञायो
पश्यन्तौ यो यमे तथा प्रतिथधोपसंदेशावादित्यङ्गार्भं आत्मश्लाघाशिरोमेवीनां वानमस्तेकृद्रेत्येषनसहताहं ज्वरो न विजानामीत्येव वेद्यः प्रमुदोमयो गृह्णामि हन्ताहं वतो वेभातिविस्मयकौ को अद्धाविसर्जनं परि उदेवागातु त्रमस्व इत्येवमभिप्लवस्तु
संविदहं च त्वं चेति विज्ञेया त्विन्द्रा भरेत्यपप्रैषस्तथैव प्रत्याख्यानमाघातेति न ते वै वेद्यं स्वकर्मकथनं किंतवामस्तु प्रतिराधो भुगिति माख्यमपह्नवो महो नाल्पाहनस्यमीभद्रं भद्धो रूपसम्पदे वायुरुपमा हीवासमादोत्तुमां चतनुत्यजे वतस्करेतिहीना सोमो
देवो न सूर्या इति समा पर्जन्य एव उत न दुत्कृष्टा
ब्राह्मणा व्रणचारिणस्त्वलुप्ता सांगविधविधोपमार्थं रूपैकं तु वेदिदेश्लक्ष्णन्तश्च १७६
दीपकं यमकं बह्वर्थे महरूपकमभ्यस्तकं च सचित्र स्त्रीपुंनपुंसकलिंगजयं
तु भूतं भवद्भविष्यदितिकालाः यज्ञेनयज्ञमिति भूतं भवत् गां नीयते आघातागच्छन्तित्येवमेते नामाख्यातो निपातोपसर्जं पदं तु तद्द्विविधं केवलं समस्तं च द्रव्यस्य शब्दस्त्वभिधायको यो योग्यस्तथैवाष्टाविभक्तिकार्येभ्यो लिंगेषु भिन्नो वचनेषु चैव तत्रामवेद्यं नमनाग्यथावत् प्रारम्भपर्यन्त आगता तु यस्मात्प्रतीयते शब्दरूपात्क्रियैव पौरुषे लिंगतश्चापाभिन्नतदाख्या दाश्योतत्कालतश्चापि भिन्नम् १७७
स्वभावतस्त्वर्थयुक्तास्तयोस्तेद्योतयन्त्यर्थं प्रादयो विशिष्टम् १७८
उपसर्गश्चादयो वै नियाताः समुच्चयादौ पादपूरणाश्चेचतुर्विधं निर्वचनं तदर्थमुक्तार्थं परिषेध्ये निरुक्तम्
व्यंजनोपनयतस्सिद्धमुक्तार्थं वीभुसूर्यवन्तथा मनियम्यम् १७९
व्यवहितमेकं शुनचिछेपो निरुक्तं कारणेन तस्मादापः
व्यंजनोपनयस्त्विन्द्रतारादृणातिददाति ख्येवं तु ख्येवेद्यम् १८०
धैर्यंतु दैत्यम् निघत्वादिस्त्वतिर्वरोक्षवृत्तिः परोक्षतामाया
द्याथप्रत्यक्षं तु वाचो विघण्टन्निगंतु तिनिगमो दशधानवगतं नैगमम् पदजात्यत्व इत्यभिधेयेन सितमिते वने न चायं स्वरात् १८१
संस्कारेणेन्मान्यसः ककुडती गुणनं मोहेनेति विभागेन क्रमेणोपरमध्वं
विक्षेपेणं द्यावा नः पृथिवीत्येतत्रनस्तु अव्यहारेण वायुः
पूषो मेत्येतद्व्यवधानाः द्व्यात्वादिशेषः प्रोक्तमादिलोपो स्तो जग्मुरुपाधायालोपे त्वन्तालोपे गतं भवेद्वै १८२
उपधाधिकारिराजेति यामि लुप्तेक्षरत्यचोद्विवर्णलोपे ज्योतिरादिविपर्यये च
स्तोकाद्यन्तविपर्यये गुर्व्यापन्यौघः पुरुषानदनायेत्येकस्माद्वेचका नगर्भामिति द्वयोरेकम् नामवदाख्यानं विभक्ष्यमरणाविभक्तिविपर्ययो हत्स्वश्लोकैः १८३
उदाहरणं पंचमी समाप्तमिति
                                  इति लौगाक्षि शिक्षा समाप्ता