Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > केशवीयशिक्षा Keśhavīya Śhikṣhā


केशवीय शिक्षा

अथातः केशवीशिक्षां व्याख्यास्यामः
पदादौ पूर्व्वाहल्वोर्द्विर्व्योच्चारौ सम्पूर्व्वयोश्छन्दसि १
पदान्तमध्यऋहरेफयुग्यस्य यश्च २
षः खष्टुमृते च ३
अहल्शल्यूर्द्ध्वरेफस्य सैकारः प्राक् च ४
अनुस्वारस्य र्ठ० शलि रेफे च परे
ह्रस्वाद्दीर्घो दीर्ग्घाद्ध्रस्वः सँयोगे गुरुश्च ५
शर्पूर्व्वाणामृद्धीनकादिपञ्चवर्गाणां द्वित्वं विसर्गाद् रेफयुक्तानाम् ६
न सोव्योश्च ७
हल्युतायुतस्योः सैकारश्च ८
ह्रस्वं किञ्चिद्दीर्ग्घं हल्युताकारे हहल्विसर्गयुग्वर्णे च न संहितायाम् ९
सूत्रार्थे कारिकाऽपि ।
ह्रस्वं दीर्घं भवेत्किञ्चित्संहितायां परो न चेत्
हल्संयुतायुताकारश्चावर्णो हल्विसर्गयुक् १०
नवानामपि सूत्राणां षण्मिताः कारिकास्त्विमाः
केशवेन कृतास्ताः स्युर्वेदाध्ययनबोधिकाः ११
परिभाषाङ्कसूत्रं च याजुर्वेदं सकारिकम्
दैवज्ञकेशवेनेदं कृतं हस्तस्वरान्वितम् १२
ह्रस्वोदात्तादिभिर्भेदैः सहस्तस्वरलक्षणम्
शिक्षादिभिः षडङ्गैश्च विज्ञेयं वेदपाठकैः १३
        इति श्रीदैवज्ञकेशवकृता प्रतिज्ञासूत्रानुसारिणी केशवीशिक्षा समाप्ता