Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > गौतमीशिक्षा Gautamī Śikṣā

गौतमीशिक्षा

सामवेदीया गौतमी शिक्षा
प्रथमः प्रपाठके प्रथमः खण्डः
अथ त्रयस्त्रिंशद्व्यञ्जनानि भवन्ति
स्पर्शान्तस्थोष्माणश्चेति
तत्र ककारादयो मकारान्ताः स्पर्शाः पञ्चविंशतिश्चत्वारोऽन्तस्थास्ते यरलवाश्चत्वारश्चोष्माणस्ते हशषसाश्चेति
अनेकं व्यञ्जनं यत्रोपर्युपरि संयुक्तं तत्संयोगसंज्ञं भवति । इत्यस्वरं च पूर्वमक्षरम्
अथ त्रिविधः संयोगपिण्डो भवत्ययस्पिण्डो दारुपिण्डस्तथोर्णापिण्डश्चेति
यमसहितमयस्पिण्डं दारुपिण्डमन्तस्थैर्युक्तं
यमान्तस्थवर्जन्तूर्णापिण्डमिति
अन्तस्थयमसंयोगे विशेषो नोपलभ्यत इत्यशरीरं यमं विद्यादन्तस्थः पिण्डनायकः

द्वितीयः खण्डः
अथानन्त्या विंशतिर्भवन्ति ते कचटतपाः खछठथफा गजडदबा घझढधभाश्चेति
अथान्त्याः पञ्च ते ङञणनमाश्चेति
अथानन्त्याश्चत्वारस्ते सयमास्ते कुं खुं गुं घुं इति
अनन्त्यान्त्यसंयोगेऽनन्त्यपूर्वेऽन्त्योत्तरे व्यवधानवर्जिते तत्र यमा वर्त्तन्ते न संशय इति

तृतीयः खण्डः
अथ सर्वेषां व्यञ्जनानां द्विर्भावो भवति द्वादशाक्षरवर्जं ते खछठथफा घझढधभा रहयोश्चेति
हकारस्यैके मन्यन्ते यदि भवति रहयोर्मध्ये
सर्वत्र स्वरात्संयोगादिः क्रामति रेफहकारवर्जम्
ताभ्यां परं क्रामति
न क्रमते परमुपध्मानीयानुस्वारजिह्वामूलीयानां विसर्जनीयपरं च क्षः त्सप्रत्यये क्षः त्सप्रत्यये

चतुर्थः खण्डः
अथ द्व्यक्षराणामुदाहरणं द्वौ तकारौ तस्मात्ते सत्तमाः यथा प्रियवेत्तेव भवति
द्वौ नकारौ यन्नमस्यन्ति शन्नो देवीरुन्नयामि ।
द्वौ जकारौ यज्जायथा उज्जिहानाः अस्थिमज्जेति
द्वौ मकारौ यम्मित्रं तम्मन्ये शम्मघवन्
द्वौ चकारौ यदद्यकच्च परमाच्चित्
यथाशु भार्गवे साम्नि
उच्चाते जातमन्धा३साः
द्वौ सकारौ यस्सुक्षिती पुनानस्सोऽग्निस्समिधा
द्वौ यकारौ यथोभय्यो धानञ्जय्यः सह रय्या निवर्त्तस्वेति
द्वौ दकारौ यद्दूरे यद्दिधृक्षे मोद्दालको हारुणिः
द्वौ लकारौ स्वर्गाल्लोकादूर्द्ध्वमुल्लिखेदेभिरेवैनंल्लोकैः
द्वौ ङकारावृश्यव्रते ऋश्यास इन्द्रभुङ्ङिति मघवन्निन्द्र भुङ्ङिति प्रभुङ्ङितीन्द्रस्तसरपूता २३४५ एवमादीनि ४

पञ्चमः खण्डः
चकारछकाराविन्द्रमच्छेति
तकारथकारौ वेत्थाहीति
दकारधकारौ शुद्धमिति
बकारभकारावब्भक्षस्तृतीयमिति
यण्वे रेफषकारौ अर्षा सोमद्युमत्तम एऽ२
बर्हिरिति रहौ विह्रुतमिति हरौ दर्शेति रशौ स्पर्शेति सपौ
दयौ देयस्थाने द्यौरक्रान्भूमिरततनत्समुद्रं समचूकुपत् इट्
इडा ऽ२३४५ एवमादीनि ५

षष्ठः खण्डः
यानि चान्यानि यथा करणे सर्पसामघर्मरोचनाभीवर्त्तेषु
संयमन्नव्यायमन्वियमन्नसमायमन् उद्यल्लोकानरोचयोहो३ यि तंवो३ दा३ स्मामृतीषहो वा
यलवैर्द्विर्भावस्तैः पूर्वः सानुनासिकस्तुल्यस्थानकरणपरे क्रमप्रतिषेधः क्रमप्रतिषेधः

सप्तमः खण्डः
अथ त्र्यक्षराणामुदाहरणम्
अक्षरमिति ककषास्तमृभ्वसम्भवाः
यच्छिक्षसि चचछास्त्वामिद्धि ददधास्त्रैशोके शशवा विश्वो३हाइ
ब्रह्मेति हहमाः
विष्णुरिति षषणाः
पृश्निरिति शशनाः
सृप्रकरःस्नमूतय इति ससनाः
सार्वकामिके ननकाः सर्वान् कामानशीमही २३४५ एवमादीनि

अष्टमः खण्डः
आम्म्रे ममराः
दीर्घे रगघाः
पादमध्ये दधयाः
पादोपान्तीये ननताः
गौशृङ्गे ततसाः त्तरणिरित्सषासती३
षट्ट्सु टटसाः
खड्गे डडगाः
कुब्जे बबजाः
वज्ज्रे जजराः
ददरा वरुणसाम्नि इन्दुः समुद्द्रमुर्विया विभातीति २३४५ एवमादीनि

नवमः खण्डः
आक्ख्यातं कखयाः
रकखा मूर्क्खम्
ङङखाः शङ्ङ्खम्
पत्थ्यं तथया ञञजाः शार्गेहावाञ्जाता १२३४ ईवियञ्जते स समञ्जते
पूज्ज्यं जजयाः
दूड्ढ्यम् डढयाः
तुब्भ्यं बभयाः
सन्न्षडह इति ननषाः
रकका अर्क्कपुष्पे साम्न्यर्क्को देवानां परमे वियो २ मा २३४५ नर्क्कस्य देवाः परमे वियो मा २३४५ नेवमादीनि त्र्यक्षराणामेतदुदाहरणं यथोक्तं यथोक्तम्

द्वितीयः प्रपाठकः प्रथमः खण्डः
अथ चतुरक्षराणामुदाहरणं सयमायमाभ्यां सयमांस्तावद्यथाग्निरिति द्वौ
गकारौ यमनकारौ
यज्ज्ञौ इति द्वौ जकारौ यमञकारौ युनज्मित इति द्वौ जकारौ यम मकारौ विद्माहित्वेति द्वौ दकारौ यम मकारौ
समन्ते दधयममकारा भरामेद्ध्मं कृणवामा हवींषि तायि
गृब्भ्णीत इति बभयमणकाराः
उन्मृद्नीतानिति ददयमनकाराः
सगिड्ढ्मेति डढयममकाराः
पाप्प्मेति पपयममकाराः
विलम्बसौपर्णे ततयमनकारा इत्यस्य प्रत्नामनुद्युतमी ये इयाहाइ एवमादीनि

द्वितीयः खण्डः
अथ यमवर्जितानां यथोदङ्ङ्न्यञ्चेति ङङनयाः
कार्ष्मान्वाजीति रषषमाः
यद्वीडाविन्द्र यत्स्थिर इति ततसथाश्चन्द्रमा अप्प्स्वन्तरेति पपसवाः
हारायणे गगधयाः शग्ग्ध्यूष्वौहो१२ ईशचीपतायि
कृत्स्नमिति ततसनाः पङ्क्तिरिति ङङकताः
स्थिरप्स्नुमिति पपसनाः
प्राङ्ङ्क्सुरिति ङङकसाः
कण्वरथन्तरे रजजया मार्ज्ज्यमानस्सुहस्तिया एवमादीनि

तृतीयः खण्डः
प्रेङ्खांस्तर्ह्यारोहन्तीति रहहयास्तथा ब्व्रत इति बबवराः
सम्राज्ञीश्वराश्श्र्वामिति शशरवाः
मत्स्येक्षेति ततसयाः
श्रौतकक्षे ननदराः इन्द्रायमद्वने सुतमिन्द्रायामो वा
अयज्ज्व्यघटत इति जजवयाः
कण्ण्ठ्य इति णणठया वर्गान्त्य इति ननतयाः
सुनिक्क्त्सीति ककतसाः
रथन्तरे रशशयाः प्राप्नुवदर्श्श्यायतो३वा एवमादीनि

चतुर्थः खण्डः
अथ पञ्चाक्षराणामुदाहरणम्
यथा ज्योतिर्ग्गौरायुस्त्र्यह इति ससतरयाः
सङ्ङ्क्ष्णुत्येति ङङकषणाः
तस्मिन्न्त्स्वतन्त्रेति ननतसवाः
विश्वप्प्स्न्या इति पपसनयाः
ङङकषवाः पयस्यग्ने युङ्ङ्क्ष्वाहि १ ३ येतवा
पार्ष्ष्ण्योरिति रषषणयाः
शग्ग्ध्व्यांरोह इति गगधवयाः
पूर्णाञ्ञ्ज्व्योत्याविति ञञजवयाः
हुवेजसिक्रयण्ण्ट्स्वतामिति णणटसवाः
तार्क्ष्यसाम्नीति र क क ष याः तार्क्ष्यमिहा ३४३ हू ३ वा ५ यिमा ६५६ एवमादीनि

पञ्चमः खण्डः
अथ सयमान्
यथा सबुद्ध्न्या इति दधयमनयाः
दुःष्वप्प्न्यं स्विति पपयमनयाः
सार्पराज्ञ्या इति जजयमञयाः
माट्ट्ण्या इति टटयमणयाः
शुग्घ्न्ये गघयमनयाः पतिं वो अग्घ्न्यानां धेनुनामिषूऽ२३ध्यसा उ वा
सक्थ्न्या इति कथयमनयकाराः
प्रथमवृद्धिस्त्नुमूतय इति ससतयमनकाराः
प्राग्ग्ध्माखपिबामेति गगधयममकाराः
मूर्द्ध्नो विशश्वस्येति रदधयमनकाराः
कावेरजजयममकाराः
इत्यबोधाधियग्निर्ज्ज्म उदा३इति सूरो १३या २ एवमादिनि

षष्ठः खण्डः
अथ षडक्षराणामुदाहरणम्
अङ्गे चक्क्म्व्यादाविति द्वौ ककारौ
यममकारवकारयकारा इति
सत्रकार्त्स्न्या इति रततसनयाः अप्साध्यर्ग्ग्ध्मवाहमिति रगगधयममकाराः
अथ सप्ताक्षरमेकमुदाहृतं मङ्के प्रातिशाख्ये हि न हि न
घुञुघुञुक्षुङ्ङ्क्ष्क्ष्वाविति ङङकषकषवाः
गौतमेनोक्तं न सप्ताक्षरात्परः संयोगो भवत्येषा सहस्रवर्त्मात्मा नानावर्तिविभूषिता संयोगशृङ्खला नाम सामवेदनिबन्धनात्
इति द्वितीयप्रपाठकः
इति सामवेदीयगौतमीशिक्षा समाप्ता