Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > छलाक्षरकारिका Chalākṣara Kārikā


छलाक्षरकारिका

दीर्घस्थाने तु स्वरितं पर्वस्थान उदात्तकम्
मात्रास्थाने तु धारि स्यात्प्राकृती छललक्षणम् १
मुद्रया लभ्यते वर्गः पदच्छेकेन चाक्षरम्
विकारैर्लभ्यते मात्रा न मुद्रया हवर्गकम् २
दीर्घस्थाने तु धारि स्यात् पर्वस्थान उदात्तकम्
मात्रा स्थाने तु स्वरितमुत्तराया ऋचस्मृतः ३
मुद्रया लभ्यते वर्ग उद्घातेनैव चाक्षरम्
विकारैर्लभ्यते मात्रा नोद्घातेन हवर्गकम् ४
दशत्या मुद्रया वर्ग उदात्तेनैव चाक्षरम्
धार्या च लभते मात्रा नोदात्तेन हवर्गकम् ५
सूक्तधार्या च वर्गस्स्यात् उदात्तेनैव चाक्षरम्
मुद्रया लभ्यते मात्रा नोदात्तेन हवर्गकम्
मुद्रानदृश्य ते यत्र औकारं तत्र विद्यते ६
मुद्रया लभ्यते वर्गः अवग्रहेण चाक्षरम्
पदैस्तु लभ्यते मात्रा नावग्राहे हवर्गकम् ७
स्वरो विकारस्सर्वत्र पदादिवर्जमेव च
पदान्ते च विसर्गश्च व्यञ्जनः स्थितसंधिताः ८

                                  इति छलाक्षरकारिका समाप्ता