Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > छलप्रक्रिया Chhala Prakriyā


छलप्रक्रिया

पञ्चविधाष्टविधयोश्छलयोः कथ्यतेऽधुना
संदेहमोचनी साम्नां प्रक्रिया निधनस्य च १
कचटतपा ये वर्गा विज्ञेया ग्रहणेन ते
हयरलव इत्युक्तो वर्गो यत्र न गृह्यते २
वर्गाक्षरं पदैर्विद्यान्मात्रां विद्याद्विवृत्तिभिः
पाणिना दक्षिणेनैव लेखनीयं पदं ततः ३
अनुस्वारो विसर्गश्च व्यञ्जनं स्वरवर्जितम्
स्वराश्च सर्वे कथिता विवृत्तय इति ध्रुवम् ४
लेखनीयाश्च वामेन पाणिनात्र विवृत्तयः
विवृत्तयः पदादौ च न लेख्यास्ताः कदाचन ५
लेख्यास्सर्वाः पदान्ते च स्वरा एवात्र मध्यतः
पदमध्ये पृथक्प्राप्य स्थितसंधिः प्रकीर्तितः ६
यस्मिन्वर्णे पृथक्त्वं सा विवृत्तिः पदमध्यगा
कथितं चात्र सर्वेषामिट् इडेति निदर्शनम् ७
करन्त इन्द्रश्रवसेऽत्र स्वरे परिकीर्तितम्
सामाक्षरनिबद्धं च निधनाक्षरमुच्यते ८
रेफेणाधस्थितेनोर्ध्वस्थितेन च यथाक्रमम्
अकारो निधनं प्रोक्तं तत ऊकारसंज्ञिकम् ९
वृद्धोपां च लकारेण वकारेण च मध्यमाम्
दण्डोपां च यकारेण विद्यादष्टविधेष्वपि १०
ककारादि दशीं यावत्साम्नां संख्याक्षरं भवेत्
ककारादि समायुक्ताः स्वराः कर्षणसंज्ञया ११
प्रत्युत्क्रमो भवेद्यत्र यकारस्तत्र भाषितः
प्रत्युत्क्रमस्संग्रहणो न लेख्योऽष्टविधे क्वचित् १२
यत्राभिगीतं भवति लकारस्तत्र कीर्तितः
प्रत्युत्क्रमोऽभिगीतं वा भवेद्यत्र तु कर्षणम् १३
तयोस्तत्राक्षरयुतं सामसंज्ञाक्षरं भवेत्
प्रत्युत्क्रमोऽभिगीतं च कर्षणं च भवेन्न चेत् १४
एकारस्तत्र कथितः सामसंख्याक्षरैर्युतः
एतदष्टविधे प्रोक्तं मूहगानेऽथ कथ्यते १५
उद्घातश्च पदस्थाने सर्वमन्यत्तु पूर्ववत्
तर्जनीतस्समुक्षिप्त उद्घातः परिकीर्तितः १६
लेखनीयस्स एवैको निघातादुत्थितो न हि
पृथक्पदे निघाताग्रे यस्सोप्युद्घात उच्यते १७
ऊहे निदर्शनं प्रोक्तं मरायेऽग्निं नरो यथा
मध्यायास्तर्जनीं प्राप्य समुत्तिष्ठति यः पुनः १८
उद्घातस्सनविज्ञेय एतदूह्ये विबुध्यताम्
उद्घातो न भवेद्यत्र हवर्गस्तत्र कीर्तितः १९
सुता इन्द्रा सोमसामग्रहणोद्घातवर्जितः
हकारमक्षरं वात्र विवृत्या परिकीर्तितम् २०
ससंज्ञमक्षरं प्रोक्तं परिप्राधसकस्य च
विवृत्युद्घातयुक्तस्य ग्रहणै रहितस्य च २१
विधर्मसामचोत्तरं विवृत्त्या हीनमुच्यते
पवस्व सोमसंज्ञकं कमित्युदीरिताक्षरम् २२
                                  इति छलप्रक्रिया षड्वर्गिकं समाप्तम्