Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > अवग्रहसूत्र Avagraha Sūtra


कौथुमसामगानामवग्रहसूत्रव्याख्यानम्

अथावगृह्यमतिचतुरक्षरं पदम्
अथेति मंगलार्थो यदवगृह्यं तदुपदेक्ष्यामः
एवं जातीयं पदमवगृह्यते ।
हव्यदातये विश्ववेदसमौर्व भृगुवत् । अथावगृह्यमतिचतुरक्षरं पदम् १ विभागे च ।
विभागे च यस्याति चतुरक्षरता भवति तदवगृह्यते ॥
नर्यापसंदध्या शिरः वाताप्याय । विभागे च २
अनीचमतदन्त्यमशक्वरीष्वेवयामरुत् ।
न तु खलु सर्वनीचं वा पदमवगृह्यते ।
तदकारादि स्यान्तमक्षरं भवति । वर्त्तयामसि योपयामसि अपूपवन्तमिन्द्रापर्वतोभयाहस्ति द्रविणस्वन्तः अशक्वरीष्वितिकस्मात् शक्वरीषु प्रयोजनमतो एवयामरुदित्येतत्तदन्त्यं पदमवगृह्यते । कस्मात्तृतीयपदप्रकृतिः ।
अनीचमतदन्त्यमशक्वरीष्वेवयामरुत् ३ अभ्यस्तश्चानेकाक्षरः । अभ्यस्तशब्दोऽवगृह्यते ।
नचेदेकाक्षरो भवति । प्रप्र श्वःश्वः यज्ञायज्ञा गिरागिरा योगेयोगे सोमेसाम इदमिदमहरहः ।
अभ्यस्तश्चानेकाक्षरः ४ एकोनीचे । एकश्च शब्दोऽवगृह्यते नीचे प्रत्ययेभ्यस्तं । यद्यत् तन्तं । एकोनीचे ५ कृद्वित्सा तौ प्रतिवसोऽन्तञ्च । एवमन्तं पदमवगृह्यते । खजकृत्ज्योतिष्कृत् नभोवित् क्रतुवित् वाजसातौ शूरसातौ विभावसोधियावसुः ।
कृद्वित्सातौ प्रतिवसोऽन्तञ्च ६ वीर्दाहा क्रतुं बाहुम् । एवमन्तं पदमवगृह्यते । पदवीः देववीः । द्रविणोदा रप्सुदा सत्राहा अमित्रहा शतक्रतो कविक्रतुं सहस्रबाह्वे वज्रबाहुम् । वीर्दाहाक्रतुं बाहुम् ७ उपसर्गादिः । उपसर्गादिश्च पदमवगृह्यते । प्रमृषे प्रचेताः उपमाते उपमां अपात् अपघ्नन् अवक्रक्षिणं अवस्वरत् आसदं आहुत पराददिः पराभृतं विवस्वत् विप्रासः निहितः निपूतः सुक्रतुं सुवीरं निष्कर्ता निर्णिजं उज्जिहानाः उदारुहन् अभिज्ञुत् अभिश्रियः प्रतीव्यं प्रत्यङ् परीणसि परिमंसते अतिरोहति अत्यविः अन्वेति अनुमाद्यस्य दुरोणयुः दूरेसमिद्धः संराजम् ।
उपसर्गादिः ८ चन्द्रशतसधहव्यम् । एवमादिच पदमवगृह्यते । चन्द्रमसः चन्द्रमाः शतवाजया शतामघसधस्थात् सधमादे हव्यदातये हव्यवाट् । चन्द्रशतसधहव्यम् ९
सूर्यस्साकायाम् । सूर्यशब्दस्साकमुक्षायामवगृह्यते ।
अद्रवज्जास्सूर्यस्येति । साकायामिति कस्मात् ।
दृशे विश्वादीनि । सूर्यस्साकायाम् १० समासोऽतो ऽन्यत्र । समासोऽतोऽन्यत्रावगृह्यते । तत्पुरुषादीनि ।
हव्यदातये प्रभृतीनि । समासोऽतोऽन्यत्र । ११
नवं पुराणेन बहुपदश्चेत् । नवं पदं पुराणेन पदेनावगृह्यते । बहुपदश्चेत्समासो भवति । समुद्रव्यचसं प्रजापतेः अप्रतिधृष्टशवसम् ।
नवं पुराणेन बहुपदश्चेत् । १२ सर्वत्र पुत्रमित्र सखि शब्दा अद्रिशतक्रतोरवग्राह्याः ।
आदित्यविप्रजातवेदाश्च । सत्पतिगोपति वृत्रहा समुद्राश्च । अद्य अन्य इन्द्राग्नी स्वस्ति न आदिषु । स्वर्युवो देवयवश्चारतिं देवतातये । चिकितिश्चुक्रुधं चैवेत्येताश्च प्रकृतयो नावगृह्यन्ते नावगृह्यन्ते ।
                                  इति कौथुमसामगानामवग्रहसूत्रव्याख्यानं समाप्तम्