Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > अमोघानन्दिनीशिक्षा Amoghānandinī Śhikṣhā


अमोघानन्दिनी शिक्षा

प्रणम्य शिरसा स्थानुं त्रिलोकेशं त्रिलोचनम्
त्रिपुरघ्नं त्रयी मूर्त्तिं शिक्षेयं क्रियते मया १
यथा बुध्या यजुर्वेदे सोमेश्वरप्रसादतः
माध्यंदिनस्य शाखायामुदाहरणसंयुता २
पाणिनीयादिशिख्येभ्यो यत्साक्षान्नोपलभ्यते
शिष्याणामुपदेशाय तदशेषं मयोच्यते ३
अनुस्वारो विसर्गस्य नासिक्या च यमास्तथा
जिह्वामूलमुपध्मा च न चैते स्युः पराश्रयाः ४
अयोगवाहविज्ञेया निजस्वरविवक्तितः
पूर्वास्यांगं भवत्येते स्वर एतेषु पूर्ववत् ५
सं समित्सवितुः सर्वे त्रीलोका नातनग्नि च
संक्रादे दिश्यते धभ्ना दध्न चैव प्रकीर्त्तिताः ६
स्वरभक्ति ऋवर्णेऽपि संयोगं न विमुंचति
भवत्यन्तं च पूर्वस्य विहोत्रवत्शा इत्यपि ७
अचः सर्वस्य रंजनां केचिदिच्छंति सूरयः
अपरेत्येकदेशस्य तस्माद्विभाषया ८
उपधा रंजनं कुर्यान्मतो विकरणे सति
नोपस्पृशति भावे वा नोपधा रंजनं भवेत् ९
मकारे पुंश्चलीं विद्यात् नकारे परिधीङ् रयः
लोपे तथा दधन्त्रायः प्रकृतौ तु मृदनुपः १०
अनुस्वारे विकारेऽपि नोपधायाश्च रंजनम्
कुर्याद्यथावयं सोम झक्षिं यांसश्वेति निदर्शनम् ११
अस्था चांतस्थसद्भावे संयौमि संवयामि च
परः पंचमे रूपे च व्रतं चणुत किंचन १२
उत्तमैः पीड्यमानैर्यदुपधा रंजनं भवेत्
तद्वलास्फुटिकास्येतो वाधिनानतुवास्नुतः १३
दध्यङ् ऋषिश्च संज्ञानं पूषण्वांश्च तथा भवेत्
तंत्रापिणेन मोघद्वद्यद्वम्रो अतिसर्प्पति १४
उत्तमा यत्र पूर्वस्था ऊष्माणः परतो यदि
घिश्लिष्ठाः स दतेतै स्युर्नित्यं सकारवर्जिवाः १५
आर्वाङ्शश्वन्तमं तावत् आदित्याङ्श्मश्रुभिस्तथा
यान्यण्णा सा दध्यङ् प्राङ् सोमस्तथैव च १६
मदा पाणिनिना दृष्टा यववानास्पृष्टकामनाक्
अन्ये स्पृष्टत्वमिच्छंति तेषां स्थानविशेषतः १७
अचो स्पृष्टाय णस्त्वीयत्पादादौ चापि दृश्यते
पृवं जात्ये विरोधेनु विवस्था क्रियते मया १८
पादादौ च पदादौ च संयोगावग्रहेषु च
जः शब्द इति विज्ञेयो योऽन्त्यः स य इति स्मृतः १९
युक्तेन मनसा चैव तत्त्वायामि तथापरः
अनूकाशेन बाह्यं च तुरीयमनुया पदे २०
पदादावप्यवच्छेदे संयोगान्ते च तिष्ठताम्
वर्जयित्वा रहौ यानामीषत्स्पृष्टत्वमिष्यते २१
विद्द्यदीन्यमित्रांश्च रोचनास्य यथा भवेत्
तथा पर्याय सूर्यश्च मुह्यन्त्वन्ये समूह्यवत् २२
उपसर्गपरो यस्तु पदादिरपि दृश्यते
ईषत्स्पृष्टो यथा विद्यात्पदच्छेदात्परो भवेत् २३
विभाषया यकारश्च नित्यमाम्रेडितेऽपि च
यत्र यत्रेति मा यज्ञं तथा येति पदादपि २४
अथात उत्तरो यः स्यात्तथा नेति पदात्परः
भवन्त्येतेऽपि पूर्वत्र तथा च स पदादपि २५
अथा वयमादित्यादावथोये अस्य दृश्यते ।
न यत्परो यथा च स्यात्स पदे तदुदाहृताः २६
यदेव लक्षणं यस्य वकारस्यापि तद्भवेत्
यत्र यत्र विशेषः स्यात्तदिदानीं तु कथ्यते २७
त्वदर्थवाचिनौ वो वां वा वै यदि निपातजौ
आदेशाश्च विकल्पार्था ईषत्स्पृष्टाश्च ते स्मृताः २८
देवी वः सविता या वां व्वातो वेति तथा न तत्
तत्र वाय्वृतस्पते तानावेति प्रकीर्त्तिताः २९
सतां मोहविनायय वयोर्लक्षणं मया
न्तंत शिक्षानुयारेण विद्वांसः क्षं नुमर्हथः ३०
स्वरमाध्यवर्त्तमानाः टवर्गो स्यात्तमास्त्रयः
इषत्स्पृष्टा स विज्ञेया सम्यक् स्पृष्टा अतोऽन्यथा ३१
षडृतवः पुरोडाशैः घोटारोवेह्रिभीषुह
यद्गात्रवैनमीढ्वांश्चैत्रथावार्यंक्त इत्यपि ३२
विरामव्यंजना सर्वे संयोगाच्च वसानुगाः
स्वरात् विगुणकाला स्युः विवृत्तौ तु विभाषया ३३
यज्ञन्पंच भवेद्वत्ससहस्राक्षः सहस्रपात्
हव्यं रक्षवरिप्लेति स उ गर्भे न वा उव ३४
यत्त्रिगुणा वा स्यु गुरुणस्तत्र विलंबतां
र्नुश्रावयेति वैतदेद्विहा अर्यमात्यपि ३५
स्वरस्य किं लशुद्धस्य स्थानकरणतानिजा भवेद्यथा
स्त्रय इत्यादि मिश्रस्य व्यंजनस्य नुपद्यथा ३६
स वेत्सवर्णसंपृक्तो ह्रस्वे वा यदिवेतरः
तथापि दीर्घ एकस्मात्ताशाभ्याप्रार्प्पयत्त्विति ३७
व्यंजनं यत्पदांतीयं तद्विन्यादर्द्धमातृकाम्
मं योगो चापि तद्वत्स्यातमासौ गूर्क्व ऊर्गसि ३८
हलस्तु स्वरयुक्तस्य निजमात्रा न विद्यते
बहूनां संन्निपातेऽपि गौरवं स्याद्वयोर्यथा ३९
विवेशात् । इति तद्वत्स्यात् । तं देवानां नरेन्विति ।
अतः पार्श्वविमंवैतं नो मित्रश्च कीर्त्तिताः ४०
रिकरुवर्णसंपृक्तस्तत्रैवश्रुतितामयात्
गुरुदीर्घोपधा उस्य निरृतिर्निरृतिर्यथा ४१
यमे परे च वर्गस्य प्रथमोऽथ तृतीयकः
वाजो स्वानां यथा याञ्चा तनद्मियज्ञ इत्यपि ४२
स्यादुत्तरो धिनीयो यां सोऽपि तद्रूपतागतः
छंद स्याद्यथामानः छंदो वाश्वतछके यति ४३
छृणंति सर्वमापूर्वं कूर्छ्रे श्रितः स्वछंदसि च
प्रछछंदस्तथा छत्न्या घत्राछातीतिसा धवः ४४
यत्कृतं सूत्रकारेण तद्वत्स्यात्सम्प्रसारणम्
तज्ज्ञेयं सर्वशाखासु न तु वाजसनेयिनाम् ४५
लक्षणस्य विरोधेऽपि पाठैक्यं यदि दृश्यते
तत्तथा प्रतिपत्तव्यं य्यज्ञा यज्ञा वऽइत्यथ ४६
यथा ब्रवीति राष्ट्रीयो ये चान्ये ई उदादयः
लक्षणं वानुमेयं स्यात्तेषां लक्षणदर्शनात् ४७
अथ वेधै द्विधा पाठो लक्षणस्यापि च द्विधा
एवाविलं तथा पंक्तिस्तवाधीतोर्विशिष्यते ४८
वर्ण्णेऽनुमातृके पूर्वे अनुस्वारो द्विमात्रकः
द्विमातृके मातृके स्यात्संयोगादिश्च यो भवेत् ४९
अनुस्वारो द्विमात्रं स्यात् ऋवर्णव्यंजनोदयः
ह्रस्वावाय दिवा दीर्घादेवानां हृदयेभ्य निदर्शनम् ५०
संसृष्टजिन्वसंसृष्ठां संयोगो ह्रस्व इष्यते
तं श्रपयति वा स्युः संयोगेन द्विरुच्यते ५१
द्वैधे चैव समुत्पन्ने लक्षणान्निर्णयो भवेत्
लक्षणं न विनाशि स्यात् सं प्रदायोऽविनाशवान् ५२
श्रुत्वा वेदं विधानात्तु सम्यग्ब्रूयात्स वै बुधः
प्राहूय तं विवक्त्रं तु तथा धर्म्मो न हीयते ५३
एकः सर्वं न जानाति सर्वमेको न विंदति
इति मत्वा न मुह्यंति पंडिताः शुद्धभाविनः ५४
प्रमाणानुगतं वाक्यं मोहद्यो हंतुमिच्छति
प्रतिवातं स मूढात्मा पांशूनुत्क्षिपति स्वयम् ५५
मयात्र बाल्यबुद्धित्वाद्यत्किंचिद्ध्यन्यथाकृतम्
विद्वद्भिस्तत्तथा कार्यं कर्ता को न विमुह्यति ५६
लक्ष्यानुसारिणी ह्येषा कृता वाजसनेयिनाम्
अमोघनंदनं ज्ञेयं पूजनीया मनीषिभिः ५७

             इत्यमोघनन्दिनीशिक्षा समाप्ताः