Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > व्यक्तिलक्षणम् Vyakti Lakṣaṇam

व्यक्तिलक्षणम्

स्थविरकौण्डिन्याचार्याणाम्मते यस्याश्च लक्षणे
यस्या व्यक्तेः लक्षणे लक्षणकशने पस्तुते सति
तैर्व्यक्तिलक्षणं यथा उक्तन्तथा संहिताभागे विस्तरम्
यथा भवति तथा व्यक्तिरुच्यते
चकारान्मात्राविशेषोपि व्यक्तिनामुच्यत इत्यर्थः
ह्रस्वः पूर्वो यस्याः सा ह्रस्वपूर्वा वत्सानुसृतिसंज्ञा भवति
ह्रस्ववपश्च परवत्सानुसारिणी संज्ञ
उभयह्रस्व ।
पूर्वत्र परत्र च ह्रस्वा पाकवर्ता संज्ञ
उभयदीर्घी पूर्वत्र परत्र च दीर्घी पिपीलिकासंज्ञा भवति
क्रमेणोदाहरणानि
स ईश्वरः । ता अस्मात्सृष्टाः । आप इदन्तु ।
पा आरण्यम् । एकमात्रकालविशेषो यस्याः स एकमात्रा वत्सानुसृतिः ।
तथा वत्सानुसारिणी । वत्सानुसारिण्यपि तथा । एकमात्रा ।
पादोना । पादेन न्यूनैकमात्रेत्यर्थः । सा पाकवतीत्युक्ता ।
पादमात्रा । मात्रायाश्च त्रिषु पादेषु एकपादमात्र पिपीलिक ।
पूर्वोक्तान्येवोहारणानि
                                  इति व्यक्तिलक्षणं समाप्तम्