Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > वर्णक्रमलक्षणम् Varṇakrama Lakṣaṇam

वर्णक्रमलक्षणम्

हरिः ओम् । शुभमस्तु । महागणपतये नमः
मनः कायाग्निमाहन्ति स च वायुं समीरयेत्
मारुतस्तूरसि चरन्मन्द्रञ्जनयति ध्वनिः १
कण्ठे तु संचरन्वायुर्म्मद्ध्यमञ्जनयेद्ध्वनिम्
कण्ठे सचरन्वायुस्तारं हि जनयेद्ध्वनिम् २
उद्धार्यते त्रिभिस्तैस्तु यावदद्ध्ययनं क्रमात्
यामयोग्यं वेद भागम्मत्वा भागत्रयं बुधः ३
उक्त्वा च पूर्वभागं तु मन्द्रेण ध्वनिना द्विजः
विश्रमं पूर्वभागन्ते कृत्वा विद्वानतन्द्रितः ४

अन्तिमः श्लोकः
नादध्वनिजनितोष्ठस्थानविवृतमद्ध्याधरोष्ठकरणविवृतप्र-यत्नवायुदेवताशूद्रजातिपूर्वांगभूतसहित उपद्धमानीयः ॥
नादद्ध्वनिजनितवक्त्रविवरोपरिभागस्थानवेष्टितजिह्वा-
ग्रकरणेषत्स्पृष्टप्रयत्नचन्द्रदेवतावैश्यजातिपरांगभूतसहित ळकारः ॥
श्वासद्ध्वजनितकण्ठस्थानकण्ठाधोभागकरणपूर्वांगभूत विसर्जनीयः
                                  इति वर्णक्रमलक्षणं समाप्तम्