Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) >श्यामायनीया शिक्षा Śyāmāyanīyā Śikṣā

श्यामायनीया शिक्षा

नमोऽन्नपूर्णायै
यस्याः प्रसादात्म तु ना शब्दशास्त्रमिदं ततः
सरस्वत्त्युः सरे भानि कल्पयत्तु सा नः पातु नः सरस्वति १
प्रणिपत्य हृषीकेशं शिवं कमललोचनं
धर्मानामनुपूर्व्येण साधयिष्ये सुनिश्चितम् २
पूर्वमेवे तु ते सिद्धाः सांप्रतत्तु विभक्तिभिः
चूणुनेव यथाशर्मा शिष्यान्यहितकाम्यया ३

अथ वर्णाः अ आ इ ई उ ऊ ऋ ॠ लृ लॄ ए ऐ ओ औ अं अः कखगघङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व श ष स ह ळं क्ष ज्ञः विसर्जनीयः जिह्वामूलीयोपध्मानीयानुनासिकानुस्वाराः इत्यादियमाश्चेति वर्ण इति वर्णाः वृणोति वर्णाः ४

अकारात्प्रभृतिचतुर्दशवर्णाः स्वार्यन्त इति स्वराः ५
षड्जमध्यमपञ्चमाद्ये च ते निषदान्ताः स्वाराः ६
अनुसरतीति वा स्वराः ७
अथवा नामशेषाणि व्यञ्जनानि ८
तत्स्थे वा व्यञ्जयन्तीति व्यञ्जनानि ९
आदौ दशमाः समानं मानं येषां ते समानमानाः अथवा समानाः १०
एभ्यः पराश्चत्वारोऽस्यादिवर्णात्यन्तं
यस्मिन् संप्रयुञ्ज्यन्ते द्बति समानाः ११
अतः परदशपात्राणि त्यक्त्वा सप्तमखण्डादूर्ध्वलिख्यते १२
उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः
ह्रस्वदीर्घप्लुत इति कालतो नियमा अचि १३
हकारं पञ्चमैर्युक्तमन्तस्थैश्चाभिसंयुक्तं
औरस्यं तं विजानीयात्कण्ठ्यमाहुरसंयुक्तं १४
जातीश्वरचतुर्थस्तुरित्येतत्परः
उस्थानमेषां वक्ष्यामि पतनं च सुनिश्चितम् १५
अदातपूर्वकं सस्य मातृकस्य विधीयते
निमेषमात्रं कुर्वीत पर्णमश्वत्थमेव वा १६
उदात्तपूर्वस्य रूपस्य चित्रकस्य विशेषतः
उत्थान्नमरणं कुर्यात् उदात्तमर्णवं तथा १७
द्विवेणुकं परश्चातु चणूचमृथोचमादिशेत् १८
नैचस्थानस्यद्विमात्रस्य विशेषतः तिस्रोऽणुकंपुरस्तात्तु त्रिभिस्खस्थानमादिशेत् यावत्सूवर्द्धमात्राविनिर्दिशेत् १९
कपःस्वरेणैवजातिः कदाचिदपिजातिः सर्वस्मिन्पातयेद्धस्तस्युथानेगहितत्परः २०
स्वरिताद्विपरिप्रापनित्यं हस्तसुधार्यते
नागटुत्तनुदात्तस्तु तावज्जानिविधीयते २१
नैवपूर्वस्य सर्वस्य स्वरितस्य विधिं शृणु
पराङ्गापरयोर्मध्ये उदीरणमिहेष्यते २२
ह्रस्वलघुरसंयुक्ते नित्यं त्रैस्वर्यमादिशेत्
अन्तराव्यंजनं नास्ति एतत्त्रैस्वर्यलक्षणम् २३
उत्स्थानं पतनं चैव स्वरितं कपितं तथा
उदात्तस्य विशेषेण वेदमैत्रायणीके वेदोमैत्राणि २४
                              इति श्यामायनीया शिक्षा समाप्ता