Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > माण्डव्यशिक्षा Māṇḍavya Śhikṣhā

माण्डव्य शिक्षा

माण्डव्यमहर्षिप्रणीता शिक्षा
अथातः संप्रवक्ष्यामि शिष्याणां हितकाम्यया
माण्डव्येन यथा प्रोक्ता ओष्ठ्यसंख्या समाहृता १
इषे त्वा बह्वीः प्रथमाक्षरं बाहुब्भ्यां तिस्रः पृथुबुध्नो बृहद्ग्रावासि
ब्रह्मवनि त्वा इन्द्रस्य बाहुरसि बधानदेव तिस्र ऊर्ज्जे त्वादब्धेन पञ्चदश १
कृष्णोऽसि बर्हिषे त्वा बर्हिरसि स्रुग्भ्यो बृहन्तमध्वरे सवितुर्ब्बाहूस्त्थो
बाहुब्भ्यां बृहस्पतये ब्रह्मणे बृहस्पतिर्यज्ञमिमं बर्हिषि मादयध्वं
अग्नेऽदब्धायो सम्बर्हिस्त्रयोदश २
समिधाग्निं घृतैर्बोधयत बृहच्छो चादब्धासः स नो बोधि ब्रह्म द्वयं गृहा
मा बिभीत ऊर्ज्जं बिभ्रत द्वयं सैमनसो बहुर्मनस्तनूषु बिभ्रतः सह
स्वस्राम्बिकया देवन्त्र्यम्बकमुर्व्वारुकमिव बन्धनात्सप्तदश ३
एदमापो देवीर्बृहतीर्बृहस्पतये ब्रह्माग्निः प्रबुधेऽदब्धस्तनूपा बध्नीतां बृहस्पतिष्ट्वास्मे ते बन्धुः चतस्रो ब्रूतात् अङ्घारे बम्भारे
ब्रह्म द्वयं पञ्चदश ४
अग्नेस्तनूर्ब्बहिर्द्धा यज्ञाद् ब्रह्म त्रयं विप्रस्य बृहतो बाहुभ्यां बृहन्नसि बृहद्द्रवा बृहतीमिन्द्राय यं मे सबन्धुर्य्यमसबन्धुर्बम्भारिरसि बुध्न्यो घृतयोने पिब द्वौ षोडश ५
देवस्य त्वा बाहुब्भ्यान्तिस्रो ब्रह्म द्वयं बृहस्पते धारया रक्षोऽवबाधे
पिबत द्वयं सोमस्य पिबताम्ब निष्परेन्द्र ब्रवीमि द्वादश ६
व्वाचस्पतये ज्येष्ठतातिं बर्हिषदं बृहस्प्पतिस्तिस्रो ब्रह्म द्वयं बृहद्वते यत्त इन्द्र
बृहद्वयस्तृणन्ति बर्हिरपिबः सोमं पिब पिबा सोममुत द्विबर्हाश्चतुर्दश ७
उपयाम गृहीतोसि बृहदुक्षाय बृहस्पतिसुतस्येति सोमं पिब ब्रह्म द्वयं सुभृतं बिभृत सुकृतं ब्रूताद्बृहच्छुक्रोऽष्टौ ८
देव सवितर्ब्बलवान्बलेन बृहस्पतिः षोडश ग्रीवायां बद्धः पिबत मादयध्वं
प्रसवाबभूव ब्रह्म द्वयं बाहुब्भ्यां द्वयं पञ्चविंशतिः ९
अपो देवाबृहस्पतिर्द्वयं बन्धुस्तपोजाः क्षत्रस्योल्बं दृबासि ब्रह्मषडहिम्बुध्न्यं
परि ता बभूवाब्जागोजा ऋतम्बृहद्बाहू अभ्युपावहरामि बहुकार श्रेयस्कर
बर्हिष अपिबः शचीभिर्विंशतिः १०
युञ्जानः प्रथमं बृहद्दश ब्रह्म त्र्यं बाहुब्भ्यां तिस्रो बिभ्रदभ्रिं बहुले उभे अदब्धव्रतप्रमतिर्बाधस्व द्विषः साग्निं बिभर्त्तु बिलङ्गृभ्णातु सुबाहुरुताम्ब धृष्णु
बल द्वयमेषां बाहू एकोनत्रिंशत् ११
दृशानो रुक्क्मो बृहदब्जा गोजा घृतैर्ब्बोधयत बिभृताप्स्वेन द्वोधा मे स
बोधि ब्रह्म द्वयं बृहस्पतिँ पञ्च बन्धमेतं बन्धानामवसर्जनायावबन्धेह बीजं सजूरब्दो बभ्रूणामहमंब धामान्युपब्रुवे द्वयं विबाधद्ध्व पड्वीशात्सर्वस्माद्
देवकिल्बिषाद्वह्वीः प्रथमाक्षरं नाशयित्री बलासस्य द्वात्रिंशत् १२
मयि गृह्णामि ब्रह्मयज्ञानं सबुध्न्या अदब्धो धत्त बृहस्पते द्विबुध्नं त्रिष्टुब्ग्रैष्मी
पञ्चदशाद् बृहत् १३
ध्रुवक्षितिर्ब्रह्म चत्वारि बृहती पञ्च बस्तो व्वयः प्रथमं विबाधसे बृहस्पति त्रयं
ब्रध्नस्य पञ्चदश १४
अग्ने जातान्ब्रूहि द्वयं बृहत्पञ्च बृहस्पति द्वयमबोध्यग्निः सुब्रह्मा यज्ञो बभूथ
स्तीर्णबर्हिषमुद्बुध्यस्व चतुर्दश १५
नमस्ते बाहुभ्यामुत ते विभर्ष्यस्तवे उत बभ्रुर्बाणवान्बभूव ते बाहुभ्यां तव हिरण्यबाहवे बभ्लुशाय बृहत्ते बुध्न्याय बिल्मिने पिनाकम्बिभ्रदा गहि बाह्वोस्तव
प्रथममैलबृदाः पिबतो जनान्पञ्चदश १६
अश्मन्नूर्ज्जमर्बुदञ्च बर्हिषदे स्वयम्पिबन्तु ब्रह्म यत्र बाणाः प्रजया च बहुङ्कृधि
ब्रुवन्बाधमाना हस्तेषु बिभ्रतः प्रब्रवां त्रिधा बद्धः सप्तविंशतिः १७
व्वाजश्च्च मे बलं च मे बृहस्पति त्रयं बर्हिर्द्वयं बृहत्त्रयम् ब्रह्मैकादश बाहुभ्यामिह बोधि ब्रध्नस्योद्बुध्यस्व चतुर्विंशतिः १८
स्वाद्द्वीन्त्वा ब्रह्म चत्वारि बर्हिर्दश बलं चत्वारि रूपम्बदरं पिब षडारे बाधस्व बह्व्यस्तन्न्वँ प्रथमं बहुलां मे अधि ब्रुवन्द्वयमुल्बञ्जहाति बहुधा न बाधमानाः सब्वन्तद्बदरैः सुकृतं बिभर्ति षट्त्रिंशत् १९
क्षत्रस्य योनिर्बाहुभ्यां बलं षड् बाहू मे बृहस्पति पुरोहिता बभ्रवै मदे बृहच्चत्वारि बाहू चत्वारि बर्हिर्द्वयं स बिभेद बाधतान्द्वेषः पिब द्वयमष्टाविंशतिः२०
इमं मे व्वरुणेह बोधि ब्रह्म द्वयं प्रबाहवा पिब द्वयं बर्हिः सप्त बृहत्त्रयं बृह-
स्पतिर्बलं चत्वारि बदरैर्द्वौ बध्नन्नश्विभ्यां बहुभ्यः सूक्ता ब्रूहि षड्विंशतिः २१
तेजोऽसि बाहुभ्यां सुता बभूव ब्रह्म त्रयं तं बधान बृहस्पतये प्रबुद्धाय बलाय पिबति बोधयोपब्ब्रुवे बृहत्त्यै स्वाहा त्रयोदश २२
हिरण्यगर्भः सम्बभूव सप्त युञ्जन्ति ब्रध्नं बृहत्सप्त ब्रह्म षट् पिब चत्त्वार्य्यम्बेऽम्बिकेऽम्बालिके
बहुर्द्वयं ये बर्हिषः प्रब्रवीमि परिता बभूव त्रयस्त्रिंशत् २३
अश्श्वस्तूपरो बाह्वोः प्रथमो बभ्रुः सप्त बाहु चत्वारि बार्हस्प्पत्त्या द्वयं बृहद्द्वयं
बलं चत्वारि बाहु द्वयं बर्हिषदां त्रैयम्बकाः सोमाय लबान्बृहस्प्पति द्वयमष्टाविंशतिः २४
शादन्दद्भिर्म्मृदम्बर्स्वैरनूकाशेन बाह्यन्निर्बाधेन बृहस्पतिश्चत्वार्य्यद्ध्वानं बाहुभ्यां
जाम्बीलेन बल द्वयं जुम्बकायजगतो बभूव यस्य बाहू अदब्ध द्वयं बन्धुपञ्च
पड्बीश द्वयं ब्रह्मणा सूदयामि देवबन्धोर्वङ्क्रीरश्वस्य पञ्चविंशतिः २५
अग्निश्च ब्रह्मराजन्याभ्यां बृहस्पति त्रयं पिब त्रयं बृहदर्च्च ब्रवाणि ते बर्हिर्द्द्वयमेकादश २६
समास्त्वा बोधय द्वयं ब्रह्म द्वयं बृहस्पते द्वयं बर्हिरेदं यद्बृहतीरष्टौ २७
होता यक्षद्बर्हिर्द्दश बृहतीमेकं बध्नं द्वयं बृहती त्रयं ब्रह्माणं बिभ्रद्द्वयं बृहद्द्वयं
बध्नं द्वाविंशतिः २८
समिद्धोऽञ्जन्बर्हिस्त्रयं बहोः कर्त्तारम्बाहू बन्धनानि द्वयं बृहद्द्वयं पुत्रं बिभृता
बह्वीनां पिता प्रथमं बहुरस्य पुत्र इषुबला ब्राह्मणासः सोमोऽधिब्रवीतु पर्य्येति बाहुम्बाधमानो द्वयं बलमोजोबभ्रुः सौम्यो बार्हस्प्पत्यो बार्हताय बृहस्पतये सप्तविंशतिः २९
देव सवितर्ब्रह्मणे ब्राह्मण त्रयं क्लीब त्रयं बिदलकारीं बल द्वयमुत्सादेब्भ्यः
कुब्जमधर्माय बधिरं ब्रध्नस्य बधाय बहुवादिनं शब्दायाडम्बराघातं शाबल्यां क्लीब अष्टादश ३०
सहस्रशीर्षा तँ य्यज्ञं बर्हिषि ब्रह्म चत्वारि द्वौ बाहू राजन्योऽबध्नन्पुरुषं जायमानो बहुधा तदब्रुवन्दश ३१

तदेव ब्रह्म द्वयमाबभूव यद्बृहतीः स नो बन्धुःपञ्च ३२
अस्याजरासो बृहत्त्रयं बर्हिर्द्वयं पिब त्रयं बर्हिषि द्वयं बृहद्द्वयं बृहतीं पिबतु
बट्त्रयमिव बीरिटे बृहस्पतिं ब्रह्मणो द्वयं बृहती बर्हिषि शाम्बरे बहुलादब्धे-
भिर्द्वयं ब्रह्माणि पिबत बहुलं बाधते बृहद्भानो बृहते ब्रह्म चतुस्त्रिंशत् ३३
यज्जाग्रतो बाधते ब्रूहि पिबतं बृहती ब्रह्मणश्चतुर्बाधामहे बिभर्त्य बध्नन् बध्नामि बुध्न्यो बोधि बृहत्पञ्चदश ३४
अपेतो ब्रवीमि प्रथमाक्षरं किल्विषं बाधस्व त्रीणि ३५
ऋचेंव्वाच बृहस्पतिर्द्वयं ब्रह्म ब्रवाम प्रथमाक्षरं चत्वारि ३६
देवस्यत्वा बाहुभ्यां बृहतो ब्रह्मणो बृहस्प्पते बोधि पञ्च ३७
देवस्य त्वा बाहुभ्यां बृहपतये पिबत ब्रह्मणे ब्रह्मोर्ध्व बर्हिर्भ्यो बभूव ब्रह्मणो
बृहद् ब्रह्मणा दश ३८
स्वाहा प्राणेभ्यो बृहस्पतिर्ब्बलेन ब्रह्मणे ब्रह्महत्त्यायै चत्वारि ३९
ईशा व्वास्यं क्लिब एकः ४०
              इति श्रीमाण्डवी शिक्षा समाप्ता