Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > इङ्ग्य रत्नम् Iṅgya Ratnam

इङ्ग्यरत्नम्

वाणीं नत्वेंग्यसंख्यानां वक्ष्याम्यक्षरसंख्यया
इषे त्वाद्यनुवाकानामेकैकं पदशः क्रमात् १
अत्र द्वे द्वे अक्षरे तु पदसंज्ञिकमुच्यते
पूर्वमेकं द्वितीयं तु दशादिपरमक्षरम् २
कादयो नव वर्णाः स्युष्टादयोऽपि तथैव च
पादयः पञ्च याद्यष्टौ वर्णास्तत्र यथाक्रमम् ३
बिन्दुस्थाने नकारः स्यादभावे न हि नास्त्युभौ
मंगळार्थोऽथ शब्दः स्यात्पूरणार्थाः स्वरा अपि ४
पीठिका । इषे त्वा
अथ तानि स यो नाको लोके रेखाधनं सटः
पयो वा रतरूं नारी कापीसरनगा इति ५
तोकमोकजपं नाकसानृनिंकधनं नयम्
नेयं जयं नदौ नारी मया भावि द्वितीयके ६
भेकनागचयं देयं सूनुवायुधनीसकः
नटाधियो तनुं तेन धनुचामिस्तृतीयके
मयि तनुर्नयनीकमनो वनं पनितनुश्मनिभानवने वनम्
मनुगनं वनखानिविनागनौ गनिवनीनय तेन वने वने ८
खनखनीमुनितानिखनीखुनेगनखनं बिनिभानि सनीसनिः
फनफनः खनमानगने मुने सुपधियाधरनाग चतुर्थके ९
शिलारामकरानागं खरा धाराय वा युगाम्
देवा धारा नभश्चेति पञ्चमे तु प्रपाठके १०
मया गवां मयूयावं तपो भागं नगं तरुः
सभानिशं दमश्शीलामिति षष्ठे प्रपाठके ११
युगे रागसभातावच्छोलशौचधियाभगः
वयं नरस्सखो वीरो रागः प्रश्ने च सप्तमे १२
जय तनुः पयपारधिया मृया तरूशलहं बलचापगयोसुरः
गुरूफयर्जपलीपधनीरपो रयिजनो लिपि बाल इति क्रमः १३
सामं वचसुगाचामी लेशगामि तयं शिलाः
शिखा जायरहिश्चेति प्रश्ने वायव्य नामके १४
पशुचामि शिखा मावो राजशामीशमीलतौ
चमु भावं बिसं नाम दशमे हि प्रपाठके १५
भागं भामा जलं शीखा वापी तरुवरोरपिः
हलं देयं नगे वारि तरादंभा तदुत्तरे १६
सरशाब वरा शौरि तेन वापखकालयम्
वेभा शरं हरिस्सूरः स नो हर इति ध्रुवम् १७
नसा नित्यं नभा सेवा वाचाकतिहलाभवा
भोगं सिवालसच्चारू विश्वरूपप्रपाठके १८
नितं खातं यशो वागो नाशं नागं शमो यशः
विशं धिलं शरं शैव प्रश्ने समिधनामके १९
धिया हलं नखं लाभं नरो वायु चलः परः
सेवा तिखागतं वेति प्रश्ने पञ्चदशे मतम् २०
खलो रागतिलः पूगं नादपालं वटे सभा
हता बलमयञ्चेति प्रश्ने षोडशके मतम् २१
तनधूपधनंधूप रागचारगया निशः
धनाशराधनञ्चेति प्रश्ने सप्तदशे मतम् २२
तैलं रूपधमं कायं जनैश्शरगिरं मतिः
शिवो धवो चलश्चेति विवा एतस्य नामके २३
सोममारं लयं शाबः शापो धूपखरस्सकः
गिरौ गिरौ जलं पूर्णा पश्चादस्मिन्प्रपाठके २४
रेखा चाभं मुखं सौरं भारं जपखगो युगम्
जयं खरं खरो विंशत्प्रश्ने युञ्जाननामके २५
बाला शिला धरो रेखा यशो धीलो हरो नटः
शिखा शैला सखा चैकविंशप्रश्ने प्रपाठके २६
खना मंभधरं तूलं तपसे कंपनं गिरम्
बेरो गागविवारंभा एषाद्वा विंशके मतम् २७
लीखी भयं वने पयो मनस्सनो नटः खने
गनं स निर्द्धनं स नीलुने खन हनौ लुनिघनिखनिज्यासम् २८
खरो रागं तप यशो मयातीरं तया तदः
शीलं शाकं परं रामस्त्रयो विंशे प्रपाठके २९
फलं रूपं हरः पारं कापं नाकं पयो वयम्
वेपं वारिहरश्चेति रुदनामप्रपाठके ३०
भागं शुभं न पन्नामभामामतपराशिला
वेगो सवं विधा संख्या पञ्चविंशे प्रपाठके ३१
धेनु सानु सने मानि खनया संभयं धनम्
भानु रायो नरश्शौरि खलदारहरा इति ३२
कुंभगामि शिलारागं दामः कालगिरिस्सुतम्
शीलञ्चैव भगश्चेति सप्तविंशे प्रपाठके ३३
शिला तपत्तमो मोमं हेमभावमलं तमः
चलं शुभचयं दानं प्रश्ने विष्णु मुखाह्वके ३४
हलं तं भनुतो नाथो दुमा संगरिती गिरिः
वरं सुखं हयं सायं एकोनत्रिंशके मतम् ३५
गिरानिन्धानगे वीरः निममाह दमो हलः
नाग लाभच्चते संगः प्रश्ने देवासुराह्वके ३६
यवो भरो हरी योग इवो सारः परजिया
धरं राद्धं बनिगनौ खनशनं गननासित ३७
वने खनं खनिप्सरखनन्तानि तनुं तनुः
खरनभो फरचोरपलीखुरं पशभवं परिचारसया जनः ३८
घपिभपीलिनसानुतनौ मुनिः खनजनो नयवीनघनादिति
गरयश सखानरो नरं नगं नरालिखी भयं वने पधोङ्ग्यास्थितः प्रपाठके स्थितः ३९
हसो जरो यतो नैव गणं लियुतमाफलं
खसवा खलसगे चेति चतुस्त्रिंशे प्रपाठके ४०
नतं हेमवयञ्चात तुलवातववी भगः
बलगीतगुणञ्चेति पञ्चत्रिंशे प्रपाठके ४१
राशो हवाहितो हैव परिछायगुणं शिला
नखा लखमणिश्चेति प्रश्ने चात्वालनामके ४२
बाणछलि छलः शूरो दिशचेलपरन्तपः
भव सैव जयञ्चेति सप्तत्रिंशे प्रपाठके ४३
धेया चारुचलं दारिमुखचूबिबिलं मता
सेबं मारा नलञ्चेति भा अष्टा त्रिंशप्रपाठके ४४
षालं बुरं वशो धूम सिखिवाकवगी मनस्सनो धनं खने
गनं सनिर्द्धनं वनी लुचे खलं हनौ सुरी ४५
घनी घ्रनीङ्ग्य संख्ययासुरा
वैपन्ता पंपरं प्रश्ने सुवर्गायेति नामके ४६
निशिषयश्मरशाब दिशोकनं तविसुखं सनलोधजनजिनम्
कृपनास्ति च न नास्ति गनौ कणगनं प्रजनन प्रपाठके ४७
गणनवं शविरेफनदं स भो भव शुभर्जरधीरधियादिषः
हनरिपुं घनभानकनिनास्तित्वानधो ऋत्त ४८
वनशयिसखिनाकफलन्तपो तिलकरं नवका शमरंगसे
धनघनर्जनधायजयन्तनं खनसयं पुजवनामके ततः ४९
भगतु षा ओजतं भनिशन्तका जलसुगन्तसुभाररवन्मनः
खनतनुं गनदानचयञ्चनः चटषसन्धननींजमितीरितम् ५०
सुसुकयं शंकशरः खलोलतामणियमं चलं तवो हरिः
पयस्सनिहयः कुलञ्जनं सनोमुरिन्तनौ शयो दिनं ५१
नखोषनृसरिक्कय इतीद्यसंख्यायान्तिमप्यंशस्थितः
एवमीङ्ग्यानि सर्वाणि संख्यातान्युक्तसंख्यया ५२
ततोऽन्यानि त्वनिङ्ग्यानि बोद्धव्यानि सुधीमताम् ५३
                                  इति इङ्ग्यरत्नं समाप्तम्