आर्चिकलक्षणम्
उदात्तश्चानुदात्तश्च स्वरितः प्रचयस्तथा
बह्वृचां स्वरभेदा स्युस्तद्युक्त्यार्चिकमुच्यते १
योगयुक्त्यात्र पश्यन्तु ऋग्भ्यः संभूतमार्चिकम्
अङ्गुष्ठः प्रथमो ज्ञेयो द्वितीया तर्जनी तथा २
मध्यमा तु तृतीया स्यादेतास्वेवर्चिकं भवेत्
प्रथमायामुदात्तस्यात्स्वरितप्रचयावुभौ ३
द्वितीयायां तृतीयायामनुदात्त इति स्थितिः
प्रथमस्वरितो ज्ञेयः प्रचयस्तु तदुत्तरः ४
अत्रोदाहरं ग्राह्यमुपास्मै गायता नरः
इत्येतत्स्वरसामान्यलक्षणन्तु निरूपितम् ५
उदात्ते चानुदात्ते च विशेषः कश्चिदुच्यते
अनुदात्तः परो यस्य तत्परो वावसानिकः ६
तदुदात्तं द्वितीयायां सामगास्संप्रवक्ष्यते
अत्रोदाहरणं देयं देवं देवाय देवयु ७
मद्ध्येऽनुदात्तयोस्स्यातामुदात्तौ प्रथमं तयोः
उत्कलाः कोशमित्याहुरुदात्तं संप्रदायिनः ८
संज्ञामात्रं हि तस्यैतदन्येभ्यः पारिभाषिकम्
संकोच्यमद्ध्यमां किञ्चिदुदात्ते तर्जनीं स्पृशेत् ९
उदाहरणमालोड्य स नः पवस्व शंगवे
अनुदात्तात्परो नेक उदात्तं स्वरितोत्तरः १०
सञ्जगुः स्वारसंज्ञं तं सैववामेन निर्दिशेत्
पारिभाषिकसंज्ञोऽयमुत्तिष्ठञ्चेव वक्ष्यते ११
एना विश्वानि संग्राह्यमुदाहरणमुत्तमम्
मद्ध्ये स्वरितयोर्यस्स्यादनुदात्तस्स उच्यते १२
जात्य स्वार इत प्राज्ञैस्ते त्वनुक्रम उच्यते
तर्जनी स्थानमारभ्य किञ्चिदग्रे नयेत्सुधीः १३
मध्यमायां नयेत्किञ्चित्तावत्तस्य स्थितिर्भवेत्
स्वारस्वरित एव स्याद्योऽपिकश्चित्स उच्यते १४
अनेकोदात्ततो जात्यात्परस्सस्वार उच्यते
वामहस्तांगुलीभिश्च निर्दिशेच्चैकशस्सदा १५
आवाजं वाज्यमेतत्तु जात्यादेः स्वारदाहृदि
इतोऽन्यो यो विशेषस्स्यात्संनियम्य यथामति १६
 
इत्यार्चिकलक्षणं समाप्तम्