Maharishi University of Management

"Close the eyes and transcend, open the eyes and read the Vedic Literature in Sanskrit." — Maharishi Mahesh Yogi

शिक्षा (Śhikṣhā) > पिण्डलक्षणम् Piṇḍa Lakṣaṇam

पिण्डलक्षणम्

यमयुक्तवर्णपिण्डो निबिडो अयः १
पिण्डवद्भवति यथा रुक्क्म शग्ग्मान्तः २
अघ्घ्नियाः तनमिच्च्मियच्छ्मश्रुणः परिज्ज्मा आट्ट्णारः
आत्मनः दध्ना पाप्प्मा दभ्भ्नो ३
इत्यादिस्पर्शान्तस्था योगोविश्लथबन्धस्तु दारुपिण्डसमः ४
पा कथाचिद्वसवःस्संवत्सरमुख्थं वज्रः इत्यादिः ५
प अयमोष्मोत्तमयोगश्लथबन्धस्तूलपिण्डसमः ६
श्लथबन्धो यत्र नणौ वकारपूर्वौ भवेत्तत्र ७
अयमः यमवर्णशून्यः यमूष्मोत्तमानां क्रमान्मिथोऽन्वयः ८
सकूलपिण्ड अयमः बविशेषणमयः पिण्डाद्भेदज्ञापनाय यथा ९
ब्रह्मवादिनः अह्नां अपराह्णे श्लथबन्धो यथा १०
विभूदावुन्ने ११
दधिक्राविवीण्णः १२
ग्रावीण्णः १३
पूर्वोक्ते दारुपिण्डे स्पर्शस्य पूर्वत्वं विवक्षितम् १४
अत्र तु वकारस्य अन्तस्थायाः पूर्वत्वमिति श्लथबन्धे विशेषः १५
अतोऽस्य न दारुपिण्डेऽन्तर्भावः १६
बध्नन्ति यथाभारं त्रीणस्य संवेष्ट्यवाहकाः पुरुषाः सयकारवर्णपिण्डं
समुच्चरे द्वैदिकन्तद्वत् १७
अयन्त्रीणबन्धः १८
यथा १९
प्रजननं ज्योतिः अभ्यश्नुते अप्वायध्वं यम्यासं विवदाना २०
अत्र दारुपिण्ड एव यकाररूपान्तस्थायाः स्पर्शयोगे
तृणरजुबंधवत् २१
उच्चरेदिति विशेषविद्ध्यर्थमयमारंभः २२
उत्तमपरो हकारो नासिक्यश्चौरसश्च भवेत् २३
ओ औरस एवान्तस्थाया परो नणमपरो महानादः २४
अत्र पूर्वार्धेन तुर्यवाक्येन च मूलपिण्डे विशेषमाहस यथा २५
शरद्यपराह्णे २६
अह्न्नान्दीकेतुः ब्रह्मवादिनः तृतीयपादेन दारुपिण्डविशेष उक्तः २७
तुर्यर्चेन च दारुपिण्डमन्तस्थैर्युक्तमिति गौतमोक्तेः २८
इहापि दारुपिण्ड एव २९
यथा मह्यन्नमन्तां कृशिषन्दुह्रेह्लादयते ३०
अह्वाधाः ३१
प अन्तस्थोक्तमयोगेना उत्सृज्योघ्राणजो हकारस्य वायुः परयोदि स्यात्
तत्र तु पृथगुच्चारयेदेनं हकारस्यान्तस्थोक्तमेभ्यः पूर्वत्वे हकारस्य वायुः
कण्डदेशे न त्याज्यः ३२
किं तु उरसैव हकार उच्चारणीय्य इत्यर्थः
तथा च शिक्षा वचनम् ३३
हकारं पंचमैर्युक्तमन्तस्थाभिश्च संयुतम्
उरस्यन्तं विजानीयात्कण्ठ्यमाहुरसंयुतम् । इति ३४
हकारस्य परत्वेऽनुपूर्वैरन्तस्थोक्तमैहिकारमश्लिष्टमुच्चरेत् ३५
यथा चतुर्होतृणां मल्यहा प्रत्यन्दीहोतारं एतान् होमान् ३६
मातृकायामप्यसंपूर्णम् ३७