निदान स्थान
चरकसंहिता निदानस्थानम्
प्रथमोऽध्यायः
अथातो ज्वरनिदानं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
इह खलु हेतुर्निमित्तमायतनं कर्ता कारणं प्रत्ययः समुत्थानं निदानमित्यनर्थान्तरम् तत्त्रिविधम्--असात्म्येन्द्रियार्थसंयोगः प्रज्ञापराधः परिणामश्चेति ३
अतस्त्रिविधा व्याधयः प्रादुर्भवन्ति आग्नेयाः सौम्याः वायव्याश्च द्विविधाश्चापरेराजसाः तामसाश्च ४
तत्र व्याधिरामयो गद आतङ्को यक्ष्मा ज्वरो विकारो रोग इत्यनर्थान्तरम् ५
तस्योपलब्धिर्निदानपूर्वरूपलिङ्गोपशयसंप्राप्तितः ६
तत्र निदानं कारणमित्युक्तमग्रे ७
पूर्वरूपं प्रागुत्पत्तिं लक्षणं व्याधे ८
प्रादुर्भूतलक्षणं पुनर्लिङ्गम् तत्र लिङ्गमाकृतिर्लक्षणं चिह्नं संस्थानं व्यञ्जनं रूपमित्यनर्थान्तरम् ९
उपशयः पुनर्हेतुव्याधिविपरीतानां विपरीतार्थकारिणां चौषधाहारविहाराणामुपयोगः सुखानुबन्धः १०
संप्राप्तिर्जातिरागतिरित्यनर्थान्तरं व्याधेः ११
सा संख्याप्राधान्यविधिविकल्पबलकालविशेषैर्भिद्यते १
संख्या तावद्यथा--अष्टौ ज्वराः पञ्च गुल्माः सप्त कुष्ठाप्येवमादिः २
प्राधान्यं पुनर्दोषाणां तरतमाभ्यामुपलभ्यते तत्र द्वयोस्तरः त्रिषु तम इति ३
विधिर्नाम--द्विविधा व्याधयो निजागन्तुभेदेन त्रिविधास्त्रिदोषभेदेन चतुर्विधाः साध्यासाध्यमृदुदारुणभेदेन ४
समवेतानां पुनर्दोषाणामंशांशबलविकल्पो विकल्पोऽस्मिन्नर्थे ५
बलकालविशेषः पुनर्व्याधीनामृत्वहोरात्राहारकालविधिविनियतो भवति १२
तस्माद्व्याधीन् भिषगनुपहतसत्त्वबुद्धिर्हेत्वादिभिर्भावैर्यथावदनुबुद्ध्येत १३
इत्यर्थसंग्रहो निदानस्थानस्योद्दिष्टो भवति तं विस्तरेणोपदिशन्तो भूयस्तरमतोऽनुव्याख्यास्यामः १४
तत्र प्रथमत एव तावदाद्याँल्लोभाभिद्रोहकोपप्रभवानष्टौ व्याधीन्निदानपूर्वेण क्रमेण व्याख्यास्यामः तथा सूत्रसंग्रहमात्रं चिकित्सायाः चिकित्सितेषु चोत्तरकालं यथोपचितविकाराननुव्याख्यास्याम १५
इह खलु ज्वर एवादौ विकाराणामुपदिश्यते तत् प्रथमत्वाच्छारीराणाम् १६
अथ खल्वष्टाभ्यः कारणेभ्यो ज्वरः संजायते मनुष्याणां तद्यथा--वातात् पित्तात् कफात् वातपित्ताभ्यां वातकफाभ्यां पित्तकफाभ्यां वातपित्तकफेभ्यः आगन्तोरष्टमात् कारणात् १७
तस्य निदानपूर्वरूपलिङ्गोपशयविशेषाननुव्याख्यास्यामः १८
रूक्षलघुशीतवमनविरेचनास्थापनशिरोविरेचनातियोगव्यायामवेगसंधारणानशनाभि-घातव्यवायोद्वेगशोकशोणितातिषेकजागरणविषमशरीरन्यासेभ्योऽतिसेवितेभ्यो वायुः प्रकोपमापद्यते १९
स यदा प्रकुपितः प्रविश्यामाशयमूष्मणा सह मिश्रीभूयाद्यमाहारपरिणामधातु रसनामानमन्ववेत्य रसस्बेदवहानि स्रोतांसि पिधायाग्निमुपहत्य पक्तिस्थानादूष्माणं बहिर्निरस्य केवलं शरीरमनुप्रपद्यते तदा ज्वरमभिनिर्वर्तयति २०
तस्येमानि लिङ्गानि भवन्ति तद्यथा--विषमारम्भविसर्गित्वम् ऊष्मणो वैषम्यं तीव्रतनुभावानवस्थानानि ज्वरस्य जरणान्ते दिवसान्ते निशान्ते घर्मान्ते वा ज्वरस्याभ्यागमनमभिवृद्धिर्वा विशेषेण परषारुणवर्णत्वं नखनयनवदनमूत्रपुरीषत्वचामत्यर्थं कॢप्तीभावश्च अनेकविधोपमाश्चलाचलाश्च वेदनास्तेषां तेषामङ्गावयवानां तद्यथा--पादयोः सुप्तता पिण्डिकयोरुद्वेष्टनं जानुनोः केवलानां च सन्धीनां विश्लेषणम् ऊर्वोः सादः कटीपार्श्वपृष्ठस्कन्धबाह्वंसोरसां च भग्नरुग्णमृदितमथितचटितावपाटितावनुन्नत्वमिव हन्वोश्चाप्रसिद्धिः स्वनश्च कर्णयोः शङ्खयोर्निस्तोदः कषायास्यता आस्यवैरस्यं वा मुखतालुकण्ठशोषः पिपासाहृदयग्रहः शुष्कच्छर्दिः शुष्ककासः क्षवथूद्गारविनिग्रहः अन्नरसखेदः प्रसेकारो चकाविपाकाः विषादजृम्भाविनामवेपथुश्रमभ्रमप्रलापप्रजागररोमहर्षदन्तहर्षाः उष्णाभिप्रायता निदानोक्तानामनुपशयो विपरीतोपशयश्चेति वातज्वरस्य लिङ्गानि भवन्ति २१
उष्णाम्ललवणक्षारकटुकाजीर्णभोजनेभ्योऽतिसेवितेभ्यस्तथा तीक्ष्णातपाग्निसंतापश्रमक्रोधविषमाहारेभ्यश्च पित्तं प्रकोपमापद्यते २२
तद्यथा प्रकुपितमामाशयादूष्माणमुपसृज्याद्यमाहारपरिणामधातुं रसनामानमन्ववेत्य रसस्वेदवहानि स्रोतांसि पिधाय द्रवत्वादग्निमुपहत्य पक्तिस्थानादूष्माणं बहिर्निरस्य प्रपीडयत् केवलं शरीरमनुप्रपद्यते तदा ज्वरमभिनिर्वर्तयति २३
तस्येमानि लिङ्गानि भवन्ति तद्यथा--युगपदेव केवले शरीरे ज्वरस्याभ्यागमनमभिवृद्धिर्वा भुक्तस्य विदाहकाले मध्यन्दिनेऽर्धरात्रे शरदि वा विशेषेण कटुकास्यता घ्राणमुखकण्ठौष्ठतालुपाकः तृष्णा मदो भ्रमो मूर्च्छा पित्तच्छर्दनम् अतीसारः अङ्गद्वेषः सदनं खेदः प्रलापः रक्तकोठाभिनिर्वृत्तिः शरीरे हरितहारिद्रत्वं नखनयनबदनमूत्रपुरीषत्वचाम् अत्यर्थमूष्मणस्तीव्रभावः अतिमात्रं दाहः शीताभिप्रायता निदानोक्तानुपशयो विपरीतोपशयश्चेति पित्तज्वरलिङ्गानि भवन्ति २४
स्निग्धगुरुमधुरपिच्छिलशीताम्ललवणदिवास्वप्नहर्षाव्यायामेभ्योऽतिसेवितेभ्यः श्लेष्मा प्रकोपमापद्यते २५
स यदा प्रकुपितः प्रविश्यामाशयमूष्मणा सह मिश्रीभूयाद्यमाहारपरिणामधातुं रसनामानमत्ववेत्य रसस्वेदवहानि स्रोतांसि पिधायाग्निमुपहत्य पक्तिस्थानादूष्माणं बहिर्निरस्य प्रपीडयन् केवलं शरीरमनुप्रपद्यते तदा ज्वरमभिनिर्वर्तयति २६
तस्येमानि लिङ्गानि भवन्ति तद्यथा--युगपदेव केवले शरीरे ज्वरस्याभ्यागमनमभिवृधिर्वा भुक्तमात्रे पूर्वाह्वे पूर्वरात्रे वसन्तकाले वा विशेषेण गुरुगात्रत्वम् अनन्नाभिलाषः श्लेष्मप्रसेकः मुखमाधुर्यं हृल्लासः हृदयोपलेपः स्तिमितत्वं छर्दिः मृद्वग्निता निद्राधिक्यं स्तम्भः तन्द्रा कासः श्वासः प्रतिश्यायः शैत्यं श्वैत्यं च नखनयनवदनमूत्रपुरीषत्वचाम् अत्यर्थं च शीतपिडका भृशमङ्गेभ्य उत्तिष्ठन्ति उष्णाभिप्रायता निदानोक्तानुपशयो विपरीतोपशयश्च इति श्लेष्मज्वरलिङ्गानि भवन्ति २७
विषमाशनादनशनादन्नपरिवर्तादृतुव्यापत्तेरसात्म्यगन्धोपघ्राणाद्विषोपहतस्य चोदकस्योपयोगाद्गरेभ्यो गिरीणां चोपश्लेषात् स्नेहस्वेदवमनविरेचनास्थापनानुवासनशिरोविरेचनानामयथावत्प्रयोगात् मिथ्यासंसर्जनाद्वा स्त्रीणां च विषमप्रजननात् प्रजातानां च मिथ्योपचाराद् यथोक्तानां च हेतूनां मिश्रीभावाद्यथानिदानं द्वन्द्वानामन्यतमः सर्वे वा त्रयो दोषा युगवत् प्रकोपमापद्यन्ते ते प्रकुपितास्तयैवानुपूर्व्या ज्वरमभिनिर्वर्तयन्ति २८
तत्र तथोक्तानां ज्वरलिङ्गानां मिश्रीभावविशेषदर्शनाद्द्वन्द्विकमन्यतमं ज्वरं सान्निपातिकं वा विद्यात् २९
अभिघाताभिषङ्गाभिचाराभिशापेभ्य आगन्तुर्हि व्यथापूर्वोऽष्टमो ज्वरो भवतिस किंचित्कालमागन्तुः केवलो भूत्वा पश्चाद्दोषैरनुबध्यते तत्राभिघातो वायुना दुष्टशोणिताधिष्ठानेन अभिषङ्गजः पुनर्वातपित्ताभ्याम् अभिचाराभिशापजौ तु सन्निपातेनानुबध्येते ३०
स सप्तविधाज्ज्वराद्विशिष्टलिङ्गोपक्रमसमुत्थानत्वाद्विशिष्टो वेदितव्यः कर्मणा साधारणेन चोपचर्यते इत्यष्टविधा ज्वरप्रकृतिरुक्ता ३१
ज्वरस्त्वेक एव संतापलक्षणः तमेवाभिप्रायविशेषाद्द्विविधमाचक्षते निजागन्तुविशेषाच्च तत्र निजं द्विर्विधं त्रिविधं चतुर्विधं सप्तविधं चाहुर्भिषजो वातादिविकल्पात् ३२
तस्योमानि पूर्वरूपाणि भवन्ति तद्यथा--मुखवैरस्यं गुरुगात्रत्वम् अनन्नाभिलाषः चक्षुषोराकुलत्वम् अश्र्वागमनं निद्राधिक्यम् अरतिः जृम्भा विनामः वेपथुः श्रमभ्रमप्रलापजागरणरोमहर्षदन्तहर्षाः शब्दशीतवातातपसहत्वासहत्वम् अरोचकाविपाकौ दौर्बल्यम् अङ्गमर्दः सदनम् अल्पप्राणता दीर्घसूत्रता आलस्यम् उचितस्य कर्मणो हानिः प्रतीपता स्वकार्येषु गुरुणां वाक्येष्वभ्यसूया बालेभ्यः प्रद्वेषः स्वधर्मेष्वचिन्ता माल्यानुलेपनभोजनपरिक्लेशनं मधुरेभ्यश्चभक्षेभ्यः प्रद्वेषः अम्ललवणकटुकप्रियता च इति ज्वरस्य पूर्वरूपाणिभवन्ति प्राक्संतापात् अपि चैनं संतापार्तमनुबध्नन्तिं ३३
इत्येतान्येकैकशो ज्वरलिङ्गानि व्याख्यातानि भवन्ति विस्तरसमासाभ्याम् ३४
ज्वरस्तु खलु महेश्वरकोपप्रभवः सर्वप्राणभृतां प्राणहरो देहेन्द्रियमनस्तापकरः प्रज्ञाबलवर्णहर्षोत्साहह्रासकरः श्रमक्लममोहाहारोपरोधसंजननः ज्वरयतिशरीणाणीति ज्वरः नान्ये व्याधयस्तथा दारुणा बहूपद्रवा दुश्चिकित्स्याश्च यथाऽयम् स सर्वरोगाधिपतिः नानातिर्यग्योनिषु च बहुविधैः शब्दैरभिधीयते सर्वे प्राणभृतः सज्वरा एव जायन्ते सज्वरा एव म्रियन्ते च स महामोहः तेनाभिभूताः प्राग्दैहिकं देहिनः कर्म किंचिदपि न स्मरन्ति सर्वप्राणभृतां च ज्वर एवान्ते प्राणानादत्ते ३५
तत्र पूर्वरूपदर्शने ज्वरादौ वा हितं लघ्वशनमपतर्पणं वा ज्वरस्यामाशयममुत्थत्वात् ततः कषायपानाभ्यङ्गस्नेहस्वेदप्रदेहपरिषेकानुलेपनवमनविरेचनास्थापनानुवासनोपशमनन-स्तःकर्मधूपधूमपानाञ्जनक्षीरभोजनविधानं च यथास्वं युक्त्या प्रयोज्यम् ३६
जीर्णज्वरेषु तु सर्वेष्वेव सर्पिषः पानं प्रशस्यते यथास्वौषधयसिद्धस्य सर्पिर्हि स्नेहाद्वातं शमयति संस्कारात् कफं शैत्यात् पित्तमूष्माणं च तस्माज्जीर्णज्वरेषु सर्वेष्वेव सर्पिर्हितमुदकमिवाग्निप्लुष्टेषु द्रव्येष्विति ३७
भवन्ति चात्र--
यथा प्रज्वलितं वेस्म परिषिञ्चन्ति वारिणा
नराः शान्तिमभिप्रेत्य तथा जीर्णज्वरे घृतम् ३८
स्नेहाद्वातं शमयति शैत्यात् पित्तं नियच्छति
घृतं तुल्यगुणं दोषं संस्कारात्तु जयेत् कफम् ३९
नान्यः स्नेहस्तथा कश्चित् संस्कारमनुवर्तते
यथा सर्पिरतः सर्पिः सर्वस्नेहोत्तमं मतम् ४०
गद्योक्तो यः पुनः श्लोकैरर्थः समनुगीयते
तद्व्यक्तिव्यवसायार्थं द्विरुक्तं तन्न गर्ह्यते ४१
तत्र श्लोकाः --
त्रिविधं नामपर्यायैर्हेतुं पञ्चविधं गदम्
गदलक्षणपर्यायान् व्याधेः पञ्चविधं ग्रहम् ४२
ज्वरमष्टविधं तस्य प्रकृष्टासन्नकारणम्
पूर्वरूपं च रूपं च भेषजं संग्रहेण च ४३
व्याजहार ज्वरस्याग्रे निदाने विगतज्वरः
भगवानग्निवेशाय प्रणताय पुनर्वसुः ४४
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने ज्वरनिदानं नाम
प्रथमोऽध्यायः १
द्वितीयोऽध्यायः
अथातो रक्तपित्तनिदानं व्याख्यास्यामः १
इति ह स्माहभगवानात्रेयः २
पित्तं यथाभूतं लोहितपित्तमिति संज्ञां लभते तद् व्याख्यास्यामः ३
यदा जन्तुर्यवकोद्दालककोरदूषप्रायाण्यन्नानि भुङ्क्ते भृशोष्णतीक्ष्णमपि चान्यदन्नजातं निष्पावमाषकुलत्थसूपक्षारोपसंहितं दधिदधिमण्डोदश्वित्कट्वराम्लकाञ्जिकोपसेकं वा वाराहमाहिषाविकमात्स्यगव्यपिशितं पिण्याकपिण्डालुशुष्कशाकोपहितं मूलकसर्षपलशुनकरञ्जशिग्रु मधुशिग्रु खडयूष भूस्तृणसुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षवकफणिज्झकोपदंशं सुरासौवीरतुषोदकमैरेयमेदकमधूलकशुक्तकुवलबदराम्लप्रायानुपानं वा पिष्टान्नोत्तरभूयिष्ठम् उष्णाभितप्तो वाऽतिमात्रमतिवेलं वाऽऽमं पयः पिबति पयसा समश्नाति रौहिणीकं काणकपोतं वा सर्षपतैलक्षारसिद्धं कुलत्थपिण्याकजाम्बवलकुचपक्वैः शौक्तिकैर्वा सह क्षीरं पिबत्युष्णाभितप्तः तस्यैवमाचरतः पित्तं प्रकोपमापद्यते लोहितं च स्वप्रमाणमतिवर्तते तस्मिन् प्रमाणातिवृत्ते पित्तं प्रकुपितं शरीरमनुसर्पद्यदेव यकृत्प्लीहप्रभवाणां लोहितवहानां च स्रोतसां लोहिताभिष्यन्दगुरूणि मुखान्यासाद्य प्रतिरुन्ध यात् तदेव लोहितं दूषयति ४
संसर्गाल्लोहितप्रदूषणाल्लोहितगन्धवर्णानुविधानाच्च पित्तं लोहितपित्तमित्याचक्षते ५
तस्येमानि पूर्वरूपाणि भवन्ति तद्यथा -- अनन्नाभिलाषः भुक्तस्य विदाहः शुक्ताम्लगन्धरस उद्गारः छर्देरभीक्ष्णमागमनं छर्दितस्य बीभत्सता स्वरभेदो गात्राणां सदनं परिदाहः मुखाद्धमागम इव लोहलोहितमत्स्यामगन्धित्वमिव चास्यस्य रक्तहरितहारिद्रत्वमङ्गावयवशकृन्मूत्रस्वेदलालासिङ्घाणकास्यकर्णमलपिडकोलि-कापिडकानाम् अङ्गवेदना लोहितनीलपीतश्यावानामर्चिष्मतां च रूपाणां स्वप्ने दर्शनमभीक्ष्णमिति लोहितपित्तपूर्वरूपाणि भवन्ति ६
उपद्रवास्तु खलु दौर्बल्यारोचकाविपाकश्वासकासज्वरातीसारशोङ्गशोषपाण्डुरोगाः स्वरभेदश्च ७
मार्गौ पुनरस्य द्वौ ऊर्ध्वं चाधश्च तद्बहुश्लेष्मणि शरीरे श्लेष्मसंसर्गादूर्ध्वं प्रतिपद्यमानं कर्णनासिकानेत्रास्येभ्यः प्रच्यवते बहुवाते तु शरीरे वातसंसर्गादधः प्रतिपद्यमानं मूत्रपुरीषमार्गाभ्यां प्रच्यवते बहुश्लेष्मवाते तु शरीरे श्लेष्मवातसंसर्गाद्द्वावपि मार्गौ प्रतिपद्यते तौ मार्गौ प्रतिपद्यमानं सर्वेभ्य एव यथोक्तेभ्यः खेभ्यः प्रच्यवते शरीरस्य ८
तत्र यदूर्ध्वभागं तत् साध्यं विरेचनोपक्रमणीयत्वाद्वह्वौषधत्वाच्च यदधोभागं तद्याप्यं वमनोपक्रमणीयत्वादल्पौषधत्वाच्च यदुभयभागं तदसाध्यं वमनविरेचनायोगित्वादनौषधत्वाच्चेति ९
रक्तपित्तप्रकोपस्तु खलु पुरा दक्षयज्ञोद्ध्वंसे रुद्रकोपामर्षाग्निना प्राणिनां परिगतशरीरप्राणानामभवज्ज्वरमनु १०
तस्याशुकारिणो दावाग्नेरिवापतितस्यात्ययिकस्याशु प्रशान्त्यै प्रयतितव्यं मात्रां देशं कालं चाभिसमिक्ष्य संतर्पणेनापतर्पणेन वा मृदुमधुरशिशिरतिक्तकषायैरभ्यवद्दार्यैः प्रदेहपरिषेकावगाहसंस्पर्शनैर्वमनाद्यैर्वा तरावहितेनेति ११
भवन्ति चात्र--
साध्यं लोहितपित्तं तद्यदूर्ध्वं प्रतिपद्यते
विरेचनस्य योगित्वाद्बहुत्वाद्भेषजस्य च १२
विरेचनं तु पित्तस्य जयार्थं परमौषधम्
यश्च तत्रान्वयः श्लेष्मा तस्य चानधमं स्मृतम् १३
भवेद्योगावहं तत्र मधुरं चैव भेषजम्
तस्मात् साध्यं मतं रक्तं यदूर्ध्वं प्रतिपद्यते १४
तक्तं तु यदधोभागं तद्याप्यमिति निश्चितम्
वमनस्याल्पयोगित्वादल्पत्वाद्भेषजस्य च १५
वमनं हि न पित्तस्य हरणे श्रेष्ठमुच्यते
यश्च तत्रान्वयो वायुस्तच्छान्तौ चावरं स्मृतम् १६
तच्चायोगावहं तत्र कषायं तिक्तकानि च
तस्माद्याप्यं समाख्यातं यदुक्तमनुलोमगम् १७
रक्तपित्तं तु यन्मार्गौ द्वावपि प्रतिपद्यते
असाध्यमिति जज्झेयं पूर्वोक्तादेव कारणात् १८
नहि संशोधनं किंचिदस्त्यस्य प्रतिमार्गगम्
प्रतिमार्गं च हरणं रक्तपित्ते विधीयते १९
एवमेवोपशमनं सर्वशो नास्य विद्यते
संसृष्टेषु च दोषेषु सर्वजिच्छमनं मतम् २०
इत्युक्तं त्रिविधोदर्कं रक्तं मार्गविशेषतः
एभ्यस्तु खलु हेतुभ्यः किंचित्साध्यं न सिध्यति २१
प्रेष्योपकरणाभावाद्दौरात्म्याद्वैद्यदोषतः
अकर्मतश्च साध्यत्वं कश्चिद्रोगोऽतिवर्तते २२
तत्रासाध्यत्वमेकं स्यात् साध्ययाप्यपरिक्रमात्
रक्तपित्तस्य विज्ञानमिदं तस्योपदिश्यते २३
यत् कृष्णमथवा नीलं यद्वा शक्रधनुष्प्रभम्
रक्तपित्तमसाध्यं तद्वाससो रञ्जनं च यत् २४
भृशं पूत्यतिमात्रं च सर्वोपद्रववच्च यत्
बलमांसक्षये यच्च तच्च रक्तमसिद्धिमत् २५
येन चोपहतो रक्तं रक्तपित्तेन मानवः
पश्येद्दृश्यं वियच्चापि तच्चासाध्यं न संशयः २६
तत्रासाध्यं परित्याज्यं याप्यं यत्नेन यापयेत्
साध्यं चावहितः सिद्धैर्मेषजैः साधयेद्भिषक् २७
तत्र श्लोकौ--
कारणं नामनिर्वृत्तिं पूर्वरूपाण्युपद्रवान्
मार्गौ दोषानुबन्धं च साध्यत्वं न च हेतुमत् २८
निदाने रक्तपित्तस्य व्याजहार पुनर्वसुः
वीतमोहरजोदोषलोभमानमदस्पृहः २९
इत्याग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने रक्तपित्तनिदानं नाम
द्वितीयोऽध्यायः २
तृतीयोऽध्यायः
अथातो गुल्मनिदानं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
इह खलु पञ्च गुल्मा भवन्ति तद्यथा--वातगुल्मः पित्तगुल्मः श्लेष्मगुल्मो निचयगुल्मः शोणितगुल्म इति ३
एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच कथमिह भगवन् पञ्चानां गुल्मानां विशेषमभिजानीमहे नह्यविशेषविद्रोगाणामौषधविदपि भिषक् प्रशमनसमर्थो भवतीति ४
तमुवाच भगवानात्रेयः--समुत्थानपूर्वरूपलिङ्गवेदनोपशयविशेषेभ्यो विशेषविज्ञानं गुल्मानां भवत्यन्येषां च रोगाणामग्निवेश तत्तु खलु गुल्मेषूच्यमानं निबोध ५
यदा पुरुषो वातलो विशेषेण ज्वरवमनविरेचनातीसाराणामन्यतमेन कर्शनेन कर्शितो वातलमाहारमाहरति शीतं वा विशेषेणातिमात्रम् अस्नेहपूर्वे वा वमनविरेचने पिबति अनुदीर्णां वा छर्दिमुदीरयति उदीर्णान् वातमूत्रपुरीषवेगान्निरुणद्धि अत्यशितो वा पिबति नवोदकमतिमात्रम् अतिसंक्षोभिणा वा यानेन याति अतिव्यवायव्यायाममद्यशोकरुचिर्वा अभिघातमृच्छति वा विषमासनशयनस्थानचङ्क्रमणसेवी वा भवति अन्यद्वा किंचिदेवंविधंविषममतिमात्रं व्यायामजातमारभते तस्यापचाराद्वातः प्रकोपमापद्यते ६
स प्रकुपितो वायुर्महास्रोतोऽनुप्रविश्य रौक्ष्यात् कठिनीभूतमाप्लुत्य पिण्डितोऽवस्थानं करोति हृदि बस्तौ पार्श्वयोर्नाभ्यां वा स शूलमुपजनयति ग्रन्थीं श्चानेकविधान् पिण्डितश्चावतिष्ठते स पिण्डितत्वाद् गुल्म इत्यभिधीयते स महुराधमति मुहुरल्पत्वमापद्यते अनियतविपुलाणुवेदनश्च भवति चलत्वाद्वायोः मुहुः पिपीलिकासंप्रचार इवाङ्गेषु तोदभेदस्फुरणायामसङ्कोचसुप्तिहर्षप्रलयोदयबहुलः तदातुरः सूच्येव शङ्कुनेव चाभिसंविद्धमात्मानं मन्यते अपि च दिवसान्ते ज्वर्यते शुष्यति चास्यास्यम् उच्छ्वासश्चोपरुध्यते हृष्यन्ति चास्य रोमाणि वेदनायाः प्रादुर्भावे प्लीहाटोपान्त्रकूजनाविपाकोदावर्तङ्गमर्दमन्याशिरः शङ्खशूलब्रध्नरोगाश्चैनमुपद्रवन्ति कृष्णारुणपरुषत्वङ्नखनयनवदनमूत्रपुरीषश्च भवति निदानोक्तानि चास्य नोपशेरते विपरीतानि चोपशेरत इति वातगुल्मः ७
तैरेव तु कर्शनैः कर्शितस्याम्ललवणकटुकक्षारोष्णतीक्ष्णशुक्तव्यापन्नमद्यहरितकफलाम्लानां विदाहिनां च शाकधान्यमांसादीनामुपयोगादजीर्णाध्यशनाद्रौक्ष्यानुगते चामाशये वमनमतिवेलं संधारणं वातातपौ चातिसेवमानस्य पित्तं सह मारुतेन प्रकोपमापद्यते ८
तत् प्रकुपितं मारुत आमाशयैकदेशे संवर्त्य तानेव वेदनाप्रकारानुपजनयति य उक्ता वातगुल्मे पित्तं त्वेनं विदहति कुक्षौ हृद्युरसि कण्ठे च स विदह्यमानः सधूममिवोद्गारमुद्गिरत्यम्लान्वितं गुल्मावकाशश्चास्य दह्यते दूयते धूप्यते ऊष्मायते स्विद्यति क्लिद्यति शिथिल इव स्पर्शासहोऽल्परोमाञ्चश्च भवति ज्वरभ्रमदवथुपिपासागलतालुमुखशोषप्रमोहविड्भेदाश्चैनमुपद्रवन्ति हरितहारिद्रत्वङ्नखनयनवदनमूत्रपुरीषश्च भवति निदानोक्तानि चास्य नोपशेरते विपरीतान्युपशेरत इति पित्तगुल्मः ९
तैरेव तु कर्शनैः कर्शितस्यात्यशनादतिस्निग्धगुरुमधुरशीताशनात् पिष्टेक्षुक्षीरतिलमाषगुडविकृतिसेवनान्मन्दकमद्यातिपानाद्धरितकातिप्रणनयादानूपौद-कग्राम्यमांसातिभक्षणात् संधारणादबुभुक्षस्य चातिप्रगाढमुदपानात् संक्षोभणाद्वाशरीरस्य श्लेष्मा सह मारुतेन प्रकोपमापद्यते १०
तं प्रकुपितं मारुत आमाशयैकदेशे संवर्त्य तानेव वेदनाप्रकारानुपजनयति य उक्ता वातगुल्मे श्लेष्मा त्वस्य शीतज्वरारोचकाविपाकाङ्गमर्दहर्षहृद्रोगच्छर्दिनिद्रालस्यस्तैमित्यगौरवशिरोभितापानु-पजनयति अपि च गुल्मस्य स्थैर्यगौरवकाठिन्यावगाढसुप्तताः तथा कासश्वासप्रतिश्यायान् राजयक्ष्माणं चातिप्रवृद्धः श्वैत्यं त्वङ्नखनयनवदनमूत्रपुरीषेषूपजनयति निदानोक्तानिचास्य नोपशेरते विपरीतानि चोपशेरत इति श्लेष्मगुल्मः ११
त्रिदोषहेतुलिङ्गसन्निपाते तु सान्निपातिकं गुल्ममुपदिशन्ति कुशलाः सविप्रतिषिद्धोपक्रमत्वादसाध्यो निचयगुल्मः १२
शोणितगुल्मस्तु खलु स्त्रिया एव भवति न पुरुषस्य गर्भकोष्ठार्तवागमनवैशेष्यात् पारतन्त्र्यादवैशारद्यात् सततमुपचारानुरोधात्वा वेदानुदीर्णानुपरुन्धत्या आमगर्भे वाऽप्यचिरपतितेऽथवाऽप्यचिरप्रजाताया ऋतौ वा वातप्रकोपणान्यासेवमानायाः क्षिप्रं वातः प्रकोपमापद्यते १३
स प्रकुपितो योनिमुखमनुप्रविश्यार्तवमुपरुणद्धि मासि मासि तदार्तवमुपरुध्यमानं कुक्षिमभिवर्धयति तस्याः शूलकासातीसारच्छर्द्यरोचकाविपाकाङ्गमर्दनिद्रालस्यस्तैमित्यकफप्रसेकाः समुपजायन्ते स्तनयोश्च स्तन्यम् ओष्ठयोः स्तनमण्डलयोश्च कार्ष्ण्यम् अत्यर्थं ग्लानिश्चक्षुषोः मूर्च्छा हृल्लासः दोहदः श्वयथुश्च पादयोः ईषच्चोद्गमो रोमराज्याः योन्याश्चाटालत्वम् अपि च योन्या दौर्गन्ध्यमास्रावश्चोपजामते केवलश्चास्या गुल्मः पिण्डित एव स्पन्दते तामगर्भां गर्भिणीमित्याहुर्मूढाः १४
एषां तु खलु पञ्चानां गुल्मानां प्रागभिनिर्वृत्तेरिमानि पूर्वरूपाणि भवन्ति तद्यथा--अनन्नाभिलषणम् अरोचकाविपाकौ अग्निवैषम्यं विदाहो भुक्तस्य पाककाले चायुक्त्या छर्द्युद्गारौ वातमूत्रपुरीषवेगानां चाप्रादुर्भावः प्रादुर्भूतानां चाप्रवृत्तिरीषदागमनं वा वातशूलाटोपान्त्रकूजनापरिहर्षणातिवृत्तपुरीषताः अबुभुक्षा दौर्बल्यं सौहित्यस्य चासहत्वमिति १५
सर्वेष्वपि खल्वेतेषु गुल्मेषु न कश्चिद्वातादृते संभवति गुल्मः तेषां सान्निपातिकमसाध्यं ज्ञात्वा नैवोपक्रमेत एकदोषजे तु यथास्वमारम्भं प्रणयेत् संसृष्टांस्तु साधारणेन कर्मणोपचरेत् यच्चान्यदप्यविरुद्धं मन्येत तदप्यवचारयेद्विभज्य गुरुलाघवमुपद्रवाणां गुरूनुपद्रवांस्त्वरमाणश्चिकित्सेज्जाघन्यमितरान् त्वरमाणस्तु विशेषमनुपलभमानो गुल्मेष्वात्ययिके कर्मणि वातचिकित्सितं प्रणयेत् स्नेहस्वेदौ वातहरौ स्नेहोपसंहितं च मृदु विरेचनं बस्तींश्च अम्ललवणमधुरांश्च रसान् युक्त्याऽवचारयेत् मारुते ह्युपशान्ते स्वल्पेनापि प्रयत्नेन शक्योऽन्योऽपि दोषो नियन्तुं गुल्मेष्विति १६
भवति चात्र--
गुल्मिनामनिलशान्तिरुपायैः सर्वशो विधिवदाचरितव्या मारुते ह्यवजितेऽन्यमुदीर्णं दोषमल्पमपि कर्म निहन्यात् १७
तत्र श्लोकः--
संख्या निमित्तं रूपाणि पूर्वरूपमथापि च
दिष्टं निदाने गुल्मानामेकदेशश्च कर्मणाम् १८
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने गुल्मनिदानं नाम
तृतीयोऽध्यायः ३
चतुर्थोऽध्यायः
अथातः प्रमेहनिदानं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
त्रिदोषकोपनिमित्ता विंशतिः प्रमेहा भवन्ति विकाराश्चापरेऽपरिसंख्येयाः तत्र यथा त्रिदोषप्रकोपः प्रमेहानभिनिर्वर्तयति तथाऽनुव्याख्यास्यामः ३
इह खलु निदानदोषदूष्यविशेषेभ्यो विकारविघातभावाभावप्रतिविशेषा भवन्ति यदा ह्येते त्रयो निदानादिविशेषाः परस्परं नानुबध्नन्त्यथवा कालप्रकर्षादबलीयांसोऽथवाऽनुबध्नन्ति न तदा विकाराभिनिर्वृत्तिः चिराद्वाऽप्यभिनिर्वर्तन्ते तनवो वा भवन्त्ययथोक्तसर्वलिङ्गा वा विपर्यये विपरीताः इति सर्वविकारविधातभावाभावप्रतिविशेषाभिनिर्वृत्तिहेतुर्भवत्युक्तः ४
तत्रेमे त्रयो निदानादिविशेषाः श्लेष्मनिमित्तानां प्रमेहाणामाश्वभिनिर्वृत्तिकरा भवन्ति तद्यथा--हायनकयवकचीनकोद्दालकनैषधेत्कटमुकुन्दकमहाव्रीहिप्रमोदकसुगन्धकानां नवानामतिवेलमतिप्रमाणेन वोपयोगः तथा सर्पिष्मतां नवहरेणुमाषसूप्यानां ग्राम्यानूपौदकानां च मांसानां शाकतिलपललपिष्टान्नपायसकृशराविलेपीक्षुविकाराणां क्षीरनवमद्यमन्दकदविद्रवमधुरतरुणप्रायाणां चोपयोगः मृजाव्यायामवर्जनं स्वप्नशयनासनप्रसङ्गः यश्च कश्चिद्विधिरन्योऽपि श्लेष्ममेदोमूत्रसंजननः स सर्वो निदानविशेषः ५
बहुद्रवः श्लेष्मा दोषविशेषः ६
बह्वबद्धं मेदो मांसं शरीरजक्लेदः शुक्रं शोणितं वसा मज्जा लसीका रसश्चौजः संख्यात इति दूष्यविशेषाः ७
त्रयाणामेषां निदानादिवेशेषाणां सन्निपाते क्षिप्रं श्लेष्मा प्रकोपमापद्यते प्रागतिभूयस्त्वात् स प्रकुपितः क्षिप्रमेव शरीरे विसृप्तिं लभते शरीरशैथिल्यात् सविसर्पञ् शरीरे मेदसैवादितो मिश्रीभावं गच्छति मेदसश्चैव बह्वबद्धत्वान्मेदसश्च गुणैः समानगुणभूयिष्ठत्वात् स मेदसा मिश्रीभवन् दूषयत्येनत् विकृतत्वात् स विकृतो दुष्टेन मेदसोपहितः शरीरक्लेदमांसाभ्यां संसर्गं गच्छति क्लेदमांसयोरतिप्रमाणाभिवृद्धत्वात् स मांसे मांसप्रदोषात् पूतिमांसपिडकाः शराविकाकच्छपिकाद्याः संजनयति अप्रकृतिभूतत्वात् शरीरक्लेदं पुनर्दूषयन् मूत्रत्वेन परिणमयति मूत्रवहानां च स्रोतसां वङ्क्षणबस्तिप्रभवाणां मेदः श्लेदोपहितानि गुरूणि मुखान्यासाद्य प्रतिरुध्यते ततः प्रमेहांस्तेषां स्थैर्यमसाध्यतां वा जनयति प्रकृतिविकृतिभूतत्वात् ८
शरीरक्लेदस्तु श्लेष्ममेदोमिश्रः प्रविशन् मूत्राशयं मूत्रत्वमापद्यमानः श्लैष्मिकैरेभिर्दशभिर्गुणैरुपसृज्यते वैषम्ययुक्तैः तद्यथा--श्वेतशीतमूर्तपिच्छिलाच्छस्निग्धगुरुमधुरसान्द्रप्रसादमन्दैः तत्र येन गुणेनैकेनानेकेन वा भूयस्तरमुपसृज्यते तत्समाख्यं गौणं नामविशेषं प्राप्नोति ९
ते तु खल्विमे दश प्रमेहा नामविशेषेण भवन्ति तद्यथाउदकमेहश्च इक्षुवालिकारसमेहश्च सान्द्रमेहश्च सान्द्रप्रसादमेहश्च शुक्लमेहश्च शुक्रमेहश्च शीतमेहश्च सिकतामेहश्च शनैर्मेहश्च आलालमेहश्चेति १०
ते दश प्रमेहाः साध्याः समानगुणमेदः स्थानकत्वात् कफस्य प्राधान्यात् समक्रियत्वाच्च ११
तत्र श्लोकाः श्लेष्मप्रमेहविशेषविज्ञानार्था भवन्ति १२
अच्छं बहु सितं शीतं निर्गन्धमुदकोपमम्
श्लेष्मकोपान्नरो मूत्रमुदमेही प्रमेहति १३
अत्यर्थमधुरं शीतमीषत्पिच्छिलमाविलम्
काण्डेक्षुरससङ्काशं श्लेष्मकोपात् प्रमेहति १४
यस्य पर्युषितं सूत्रं सान्द्रीभवति भाजने
पुरुषं कफकोपेन तमाहुः सान्द्रमेहिनम् १५
यस्य संहन्यते मूत्रं किंचित् किंचित् प्रसीदति
सान्द्रप्रसादमेहीति तमाहुः श्लेष्मकोपतः १६
शुक्लं पिष्टनिभं मूत्रमभीक्ष्णं यः प्रमेहति
पुरुषं कफकोपेन तमाहुः शुक्लमेहिनम् १७
शुक्राभं शुक्रमिश्रं वा मुहुर्मेहति यो नरः
शुक्रमेहिनमाहुस्तं पुरुषं श्लेष्मकोपतः १८
अत्यर्थमधुरं शीतं मूत्रं मेहति यो भृशम्
शीतमेहिनमाहुस्तं पुरुषं श्लेष्मकोपतः १९
मूर्तान्मूत्रगतान् दोषानणून्मेहति यो नरः
सिकतामेहिनं विद्यात्तं नरं श्लेष्मकोपतः २०
मन्दं मन्दमवेगं तु कृच्छ्रं यो मूत्रयेच्छनैः
शनैर्मेहिनमाहुस्तं पुरुषं श्लेष्मकोपतः २१
तन्तुबद्धमिवालालं पिच्छिलं यः प्रमेहति
आलालमेहिनं विद्यात्तं नरं श्लेष्मकोपतः २२
इत्येते दश प्रमेहाः श्लेष्मप्रकोपनिमित्ता व्याख्याता भवन्ति २३
उष्णाम्ललवणक्षारकटुकाजीर्णभोजनोपसेविनस्तथाऽति-तीक्ष्णातपाग्निसंतापश्रमक्रोधविषमाहारोपसेविनश्च तथाविधशरीरस्यैव क्षिप्रं पित्तं प्रकोपमापद्यते तत्तु प्रकुपितं तथैवानुपूर्व्या प्रमेहानिमान् षट् क्षिप्रतरमभिनिर्वर्तयति २४
तेषामपि तु खलु पित्तगुणविशेषेणैव नामविशेषा भवन्ति तद्यथा--
क्षारमेहश्च कालमेहश्च नीलमेहश्च लोहितमेहश्च मञ्जिष्ठमेहश्च हारिद्रमेहश्चेति २५
ते षड्भिरेव क्षाराम्ललवणकटुकविस्रोष्णैः पित्तगुणैः पूर्ववद्युक्ता भवन्ति २६
सर्व एव ते याप्याः संसृष्टदोषमेदः स्थानत्वाद्विरुद्धोपक्रमत्वाच्चेति २७
तत्र श्लोकाः पित्तप्रमेहविशेषविज्ञानार्था भवन्ति २८
गन्धवर्णरसस्पर्शैर्यथा क्षारस्तथाविधम्
पित्तकोपान्नरो मूत्रं क्षारमेही प्रमेहति २९
मसीवर्णमजस्रं यो मूत्रमुष्णं प्रमेहति
पित्तस्य परिकोपेण तं विद्यात् कालमेहिनम् ३०
चाषपक्षनिभं मूत्रमम्लं मेहति यो नरः
पित्तस्य परिकोपेण तं विद्यान्नीलमेहिनम् ३१
विस्रं लवणमुष्णं च रक्तं मेहति यो नरः
पित्तस्य परिकोपेण तं विद्याद्रक्तमेहिनम् ३२
मञ्जिष्ठोदकसंकाशं भृशं विस्रं प्रमेहति
पित्तस्य परिकोपात्तं विद्यान्माञ्जिष्ठमेहिनम् ३३
हरिद्रोदकसङ्काशं कटुकं यः प्रमेहति
पित्तस्य परिकोपात्तं विद्याद्धारिद्रमेहिनम् ३४
इत्येते षट् प्रमेहाः पित्तप्रकोपनिमित्ता व्याख्याता भवन्ति ३५
कषायकटुतिक्तरूक्षलघुशीतव्यवायव्यायामवमनविरेचनास्थाप-नशिरोविरेचनातियोगसंधारणानशनाभिघातातपोद्वेगशोकशोणितातिषेक-जागरणविषमशरीरन्यासानुपसेवमानस्य तथाविधशरीरस्यैव क्षिप्तं वातः प्रकोपमापद्यते ३६
स प्रकुपितस्तथाविधे शरीरे विसर्पन् यदा वसामादाय मूत्रवहानि स्रोतांसि प्रतिपद्यते तदा वसामेहमभिनिर्वर्तयति यदा पुनर्मज्जानं मूत्रबस्तावाकर्षति तदा मज्जमेहमभिनिर्वर्तयति यदा तु लसीकां मूत्राशयेऽभिवहन्मूत्रमनुबन्धं च्योतयति लसीकातिबहुत्वाद्विक्षेपणाच्च वायोः खल्वस्यातिमूत्रप्रवृत्तिसङ्गं करोति तदा स मत्त इव गजः क्षरत्यजस्रं मूत्रमवेगं तं हस्तिमेहिनमाचक्षते ओजः पुनर्मधुरस्वभावं तद् यदा रौक्ष्याद्वायुः कषायत्वेनाभिसंसृज्य मूत्राशयेऽभिवहति तदा मधुमेहं करोति ३७
इमांश्चतुरः प्रमेहान् वातजानसाध्यानाचक्षते भिषजः महात्ययिकत्वाद्विरुद्धोपक्रमत्वाच्चेति ३८
तेषामपि पूर्ववद्गुणविशेषेण नामविशेषा भवन्ति तद्यथा--वसामेहश्च मज्जामेहश्च हस्तिमेहश्च मधुमेहश्चेति ३९
तत्र श्लोका वातप्रमेहविशेषविज्ञानार्था भवन्ति -- ४०
वसामिश्रं वसाभं वा मुहुर्मेहति यो नरः
वसामेहिनमाहुस्तमसाध्यं वातकोपतः ४१
मज्जानं सह मूत्रेण मुहुर्मेहति यो नरः
मज्जमेहिनमाहुस्तमसाध्यं वातकोपतः ४२
हस्ती मत्त इवाजस्रं मूत्रं क्षरति यो भृशम्
हस्तिमेहिनमाहुस्तमसाध्यं वातकोपतः ४३
कषायमधुरं पाण्डु रूक्षं मेहति यो नरः
वातकोपादसाध्यं तं प्रतीयान्मधुमेहिनम् ४४
इत्येते चत्वारः प्रमेहा वातप्रकोपनिमित्ता व्याख्याता भवन्ति ४५
एवं त्रिदोषप्रकोपनिमित्ता विंशतिः प्रमेहा व्याख्याता भवन्ति ४६
त्रयस्तु खलु दोषाः प्रकुपिताः प्रमेहानभिनिर्वर्तयिष्यन्त इमानि पूर्वरूपाणि
दर्शयन्ति तद्यथा--जटिलीभावं केशेषु माधुर्यमास्यस्य करपादयोः सुप्ततादाहौ मुखतालुकण्ठशोषं पिपासाम् आलस्यं मलं काये कायच्छिद्रेषूपदेहं परिदाहं सुप्ततां चाङ्गेषु षट्पदपिपीलिकाभिश्च शरीरमूत्राभिसरणं मूत्रे च मूत्रदोषान् विस्रं शरीरगन्धं निद्रां तन्द्रां च सर्वकालमिति ४७
उपद्रवास्तु खलु प्रमेहिणां तृष्णातीसारज्वरदाहदौर्बल्यारोचकाविपाकाः पूतिमांसपिडकालजीविद्रध्यादयश्च तत्प्रसङ्गाद्भवन्ति ४८
तत्र साध्यान् प्रमेहान् संशोधनोपशमनैर्यथार्हमुपपादयंश्चिकित्सेदिति ४९
भवन्ति चात्रः--
गृध्नमभ्यवहार्येषु स्नानचङ्क्रमणद्विषम्
प्रमेहः क्षिप्रमभ्येति नीडद्रुममिवाण्डजः ५०
मन्दोत्साहमतिस्थूलमतिस्निग्धं महाशनम्
मृत्युः प्रमेहरूपेण क्षिप्रमादाय गच्छति ५१
यस्त्वाहारं शरीरस्य धातुसाम्यकरं नरः
सेवते विविधाश्चान्याश्चेष्टाः स सुखमश्नुते ५२
तत्र श्लोकाः--
हेतुर्व्याधिविशेषाणां प्रमेहाणां च कारणम्
दोषधातुसमायोगो रूपं विविधमेव च ५३
दश श्लेष्मकृता यस्मात् प्रमेहाः षट् च पित्तजाः
यथा च वायुश्चतुरः प्रमेहान् कुरुते बली ५४
साध्यासाध्यविशेषाश्च पूर्वरूपाण्युपद्रवाः
प्रमेहाणां निदानेऽस्मिन् क्रियासूत्रं च भाषितम् ५५
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने प्रमेहनिदानं नाम
चतुर्थोऽध्यायः ४
पञ्चमोऽध्यायः
अथातः कुष्ठिनिदानं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
सप्त द्रव्याणि कुष्ठानां प्रकृतिर्विकृतिमापन्नानि भवन्ति तद्यथा--त्रयो दोषा वातपित्तश्लेष्माणः प्रकोपणविकृताः दूष्याश्च शरीरधातवस्त्वङ्मांसशोणितलसीकाश्चतुर्धा दोषोपघातविकृता इति एतत् सप्तानां सप्तधातुकमेवङ्गतमाजननं कुष्ठानाम् अतःप्रभवाण्यभिनिर्वर्तमानानि केवलं शरीरमुपतपन्ति ३
न च किञ्चिदस्ति कुष्ठमेकदोषप्रकोपनिमित्तम् अस्ति तु खलु समानप्रकृतीनामपि कुष्ठानां दोषांशांशविकल्पानुबन्धस्थानविभागेन वेदनावर्णसंस्थानप्रभावनामचिकित्सितविशेषः स सप्तविधोऽष्टादशविधोऽपरिसंख्येयविधो वा भवति दोषा हि विकल्पनैर्विकल्प्यमाना विकल्पयन्ति विकारान् अन्यत्रासाध्यभावात् तेषां विकल्पविकारसंख्यानेऽतिप्रसङ्गमभिसमीक्ष्य सप्तविधमेव कुष्ठविशेषमुपदेक्ष्यामः ४
इह वातादिषु त्रिषु प्रकुपितेषु त्वगादींश्चतुरः प्रदूषयत्सु वातेऽधिकतरे कपालकुष्ठमभिनिर्वर्तते पित्ते त्वौदुम्बरं श्लेष्मणि मण्डलकुष्ठं वातपित्तयोरृष्यजिह्वं पित्तश्लेष्मणोः पुण्डरीकं श्लेष्ममारुतयोः सिध्मकुष्ठं सर्वदोषाभिवृद्धौ काकणकमभिनिर्वर्तते एवमेष सप्तविधः कुष्ठविशेषो भवति स चैष भूयस्तरतमतः प्रकृतौ विकल्प्यमानायां भूयसीं विकारविकल्पसं ख्यामापद्यते ५
तत्रेदं सर्वकुष्ठनिदानं समासेनोपदेक्ष्यामः--शीतोष्णव्यत्यासमनानुपूर्व्योपसेवमानस्य तथा संतर्पणापतर्पणाभ्यवहार्यव्यत्यासं मधुफाणितमत्स्यलकुचमूलककाकमाचीः सततमतिमात्रमजीर्णे च समश्नतः चिलिचिमं च पयसा हायनकयवकचीनकोद्दालककोरदूषप्रायाणि चान्नानि क्षीरदधितक्रकोलकुलत्थमाषातसीकुसुम्भस्नेहवन्ति एतैरेवातिमात्रं सुहितस्य च व्यवायव्यायामसंतापानत्युपसेवमानस्य भयश्रमसंतापोपहतस्य च सहसा शीतोदकमवतरतः विदग्धं चाहारजातमनुल्लिख्य विदाहीन्यभ्यवहरतः छर्दि च प्रतिघ्नतः स्नेहांश्चातिचरतः त्रयो दोषाः युगपत् प्रकोपमापद्यन्ते त्वगादयश्चत्वारः शैथिल्यमापद्यन्ते तेषु शिथिलेषु दोषाः प्रकुपिताः स्थानमधिगम्य संतिष्ठमानास्तानेव त्वगादीन् दूषयन्तः कुष्ठान्यभिनिर्वर्तयन्ति ६
तेषामिमानि पूर्वरूपाणि भवन्ति तद्यथा अस्वेदनमतिस्वेदनं पारुष्यमतिश्लक्ष्णता वैवर्ण्यम् कण्डूर्निस्तोदः सुप्तता परिदाहः परिहर्षो लोमहर्षः खरत्वमूष्मायणं गौरवं श्वयधुर्वीसर्पागमनमभीक्ष्णं च काये कायच्छिद्रेषूपदेहः पक्वदग्धदष्टभग्नक्षतोपस्वलितेष्वतिमात्रं वेदना स्वल्पानामपि च वर्णानां
दुष्टिरसंरोहणं चेति ७
ततोऽनन्तरं कुष्ठान्यभिनिर्वर्तन्ते तेषामिदं वेदनावर्णसंस्थानप्रभावनामविशेषविज्ञानं भवति तद्यथारूक्षारुणपरुषाणि विषमविसृतानि खरपर्यन्तानि तनून्युद्वृत्तबहिस्तनूनि सुप्तवत्सुप्तानि हृषितलोमाचितानि निस्तोदबहुलान्यल्पकण्डूदाहपूयलसीकान्याशुगतिसमुत्थानान्याशुभेदीनि जन्तुमन्ति कृष्णारुणकपालवर्णानि च कपालकुष्ठानीति विद्यात् १
ताम्राणि ताम्रखररोमराजीभिरवनद्धानि बहलानि बहुबहलपूयरक्तलसीकानि कण्डूक्लेदकोथदाहपाकवन्त्याशुगतिसमुत्थानभेदीनि ससंतापक्रिमीणि पक्वोदुम्बरफलवर्णान्यौदुम्बरकुष्ठानीति विद्यात् २
स्निग्धानि गुरूण्युत्सेधवन्ति श्लक्ष्णस्थिरपीतपर्यन्तानि शुक्लरक्तावभासानि शुक्लरोमराजीसन्तानानि बहुबलहशुक्लपिच्छिलस्रावीणि बहुक्लेदकण्डूक्रिमीणि सक्तगतिसमुत्थानभेदीनि परिमण्डलानि मण्डलकुष्ठानि विद्यात् ३
परुषाण्यरुणवर्णानि बहिरन्तःश्यावानि नीलपीतताम्रावभासान्याशुगतिसमुत्थानान्यल्पकण्डूक्लेदक्रिमीणि दाहभेदनिस्तोदपाकबहुलानि शूकोपहतोपमवेदनान्युत्सन्नमध्यानि तनुपर्यन्तानि कर्कशपिडकाचितानि दीर्घपरिमण्डलान्यृष्यजिह्वाकृतीन्नि ऋष्यजिह्वानीति विद्यात् ४
शुक्लरक्तावभासानि रक्तपर्यन्तानि रक्तराजीसिरासन्ततान्युत्सेधवन्ति बहुबहलरक्तपूयलसीकानि कण्डूक्रिमिदाहपाकवन्त्याशुगतिसमुत्थानभेदीनि पुण्डरीकपलाशसंकाशानि पुण्डरीकाणीति विद्यात् ५
परुषारुणानि विशीर्णबहिस्तनून्यन्तःस्निग्धानि शुक्लरक्तावभासानि बहुन्यस्पवेदनान्यल्पकण्डूदाहपूयलसीकानि लघुसमुत्थानान्यल्पभेदक्रिमीण्यलाबुपुष्पसङ्काशानि सिध्मकुष्ठानीति विद्यात् ६
काकणन्तिकावर्णान्यादौ पञ्चात्तु सर्वकुष्ठलिङ्गसमन्वितानि पापीयसा सर्वकुष्ठलिङ्गसंभवेनानेकवर्णानि काकणानीति विद्यात् तान्यसाध्यानि साध्यानि पुनरितराणि ८
तत्र यदसाध्यं तदसाध्यतां नातिवर्तने साध्यं पुनः किंचित् साध्यतामतिवर्तते कदाचिदपचारात् साध्यानि हि षट् काकणकवर्ज्यान्यचिकित्स्यमानान्यपचारतो वा दोषैरभिष्यन्दमानान्यसाध्यतामुपयान्ति ९
साध्यानामपि ह्युपेक्ष्यमाणानां त्वङ्मांसशोणितलसीकाकोथक्लेदसंस्वेदजाः क्रिमयोऽभिमूर्च्छन्ति ते भक्षयन्तस्त्वगादीन् दोषाः पुनर्दूषयन्त इमानुपद्रवान् पृथक् पृथगुत्पादयन्ति--तत्र वातः श्यावारुणवर्णम् परुषतामपि च रौक्ष्यशूलशोषतोदवेपथुहर्षसङ्कोचायासस्तम्भसुप्तिभेदभङ्गान् पित्तं दाहस्वेदक्लेदकोथस्रावपाकरागान् श्लेष्मा त्वस्य श्वैत्यशैत्यकण्डूस्थैर्यगौरवोत्सेधोपस्नेहोपलेपान् क्रिमयस्तु त्वगादींश्चतुरः सिराः स्नायूश्चास्थीन्यपि च तरुणान्याददते १०
अस्यां चैवावस्थायामुपद्रवाः कुष्टिहं स्पृशन्ति तद्यथा--प्रस्रवणमङ्गभेदः पतनान्यङ्गावयवानां तृष्णाज्वरातीसारदाहदौर्बल्यारोचकाविपाकाश्च तथाविधमसाध्यं विद्यादिति ११
भवन्ति चात्र--
साध्योऽयमिति यः पूर्वं नरो रोगमुपेक्षते
स किंचित्कालमासाद्य मृत एवावबुध्यते १२
यस्तु प्रागेव रोगेभ्यो रोगेषु तरुणेषु वा
भेषजं कुरुते सम्यक् स चिरं सुखमश्नुते १३
यथा ह्यल्पेन यत्नेन छिद्यते तरुणस्तरुः
स एवातिप्रवृद्धस्तु छिद्यतेऽतिप्रयत्नतः १४
एवमेव विकारोऽपि तरुणः साध्यते सुखम्
विवृद्धः साध्यते कृच्छ्रादसाध्यो वाऽपि जायते १५
तत्र श्लोकः--
संख्या द्रव्याणि दोषाश्च हेतवः पूर्वलक्षणम्
रूपाण्युपद्रवाश्चोक्ताः कुष्ठानां कौष्ठिके पृथक् १६
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने कुष्ठनिदानं नाम
पञ्चमोऽध्यायः ५
षष्ठोऽध्यायः
अथातः शोषनिदानं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
इह खलु चत्वारि शोषस्यायतनानि भवन्ति तद्यथा--साहसं संधारणं क्षयो विषमाशनमिति ३
तत्र साहसं शोषस्यायतनमिति यदुक्तं तदनुव्याख्यास्यामः यदा पुरुषो दुर्बलो हि सन् बलवता सह विगृह्णाति अतिमहता वा धनुषा व्यायच्छति जल्पति वाऽप्यतिमात्रम् अतिमात्रं वा भारमुद्वहति अप्सु वा प्लवते चातिदूरम् उत्सादनपदाघातने वाऽतिप्रगाढमासेवते अतिप्रकृष्टं वाऽध्वानं द्रुतमभिपतति अभिहन्यते वा अन्यद्वा किंचिदेवंविधं विषममतिमात्रं वा व्यायामजातमारभते तस्यातिमात्रेण कर्मणोरः क्षण्यते तस्योरःक्षतमुपप्लवते वायुः स तत्रावस्थितःश्लेष्माणमुरःस्थमुपसंगृह्य पित्तं च दूषयन् विहरत्यूर्ध्वमधस्तिर्यक् च तस्य योंऽशः शरीरसन्धीनाविशति तेनास्य जृम्भाऽङ्गमर्दो ज्वरश्चोपजायते यस्त्वामाशयमभ्युपैति तेन रोगा भवन्ति उरस्या अरोचकश्च यः कण्ठमभिप्रपद्यते कण्ठस्तेनोद्ध्वंस्यते स्वरश्चावसीदति यः प्राणवहानि स्रोतांस्यन्वेति तेन श्वासः प्रतिश्यायश्च जायते यः शिरस्यवतिष्ठते शिरस्तेनोपहन्यते ततः क्षणनाच्चैवोरसो विषमगतित्वाच्च वायोः कण्ठस्य चोद्ध्वंसनात् कासः सततमस्य संजायते स कासप्रसङ्गादुरसि क्षते शोणितं ष्ठीवति शोणितागमनाच्चास्य दौर्बल्यमुपजायते एवमेते साहसप्रभवाः साहसिकमुपद्रवाः स्पृशन्ति ततः स उपशोषणैरेतैरुपद्रवैरुपद्रुतः शनैः शनैरुपशुष्यति तस्मात् पुरुषो मतिमान् बलमात्मनः समीक्ष्य तदनुरूपाणि कर्माण्यारभेत कर्तुं बलसमाधानं हि शरीरं शरीरमूलश्च पुरुष इति ४
भवति चात्र--
साहसं वर्जयेत् कर्म रक्षञ्जीवितमात्मनः
जीवन् हि पुरुषस्त्विष्टं कर्मणः फलमश्नुते ५
संधारणं शोषस्यावतनमिति यदुक्तं तदनुव्याख्यास्यामःयदा पुरुषो राजसमीपे भर्तुः समीपे वा गुरोर्वा पादमूले द्यूतसभमन्यं वा सतां समाजं स्त्रीमध्यं वा समनुप्रविश्य यानैर्वाऽप्युच्चावचैरभियान् भयात् प्रसङ्गाद्ध्रीमत्त्वाद्धृणित्वाद्वा निरुणध्यागतान् वातमूत्रपुरीषवेगान् तदा तस्य संधारणाद्वायुः प्रकोपमापद्यते स प्रकुपितः पित्तश्लेष्माणौ समुदीर्योर्ध्वमधस्तिर्यक् च विहरति ततश्चांशविशेषेण पूर्ववच्छरीरावयवविशेषं प्रविश्य शूलमुपजनयति भिनत्ति पुरीषमुच्छोषयति वा पार्श्वे चातिरुजति अंसाववमृद्नाति कण्ठमुरश्चावधमति शिरश्चोपहन्ति कासं श्वासं ज्वरं स्वरभेदं प्रतिश्यायं चोपजनयति ततः स उपशोषणैरेतैरुपद्रवैरुपद्रुतः शनैः शनैरुपशुष्यति तस्मात् पुरुषो मतिमानात्मनः शारीरेष्वेव योगक्षेमकरेषु प्रयतेत विशेषेण शरीरं ह्यस्य मूलं शरीरमूलश्च पुरुषो भवति ६
भवति चात्र--
सर्वमन्यत् परित्यज्य शरीरमनुपालयेत्
तदभावे हि भावानां सर्वाभावः शरीरिणाम् ७
क्षयः शोषस्यायतनमिति यदुक्तं तदनुव्याख्यास्यामः--यदापुरुषोऽतिमात्रं शोकचिन्तापरिगतहृदयो भवति ईर्ष्योत्कण्ठाभयक्रोधादिभिर्वा समाविश्यते कृशो वा सन् रूक्षान्नपानसेवी भवति दुर्बलप्रकृतिरनाहारोऽल्पाहारो वा भवति तदा तस्य हृदयस्थायी रसः क्षयमुपैति स तस्योपक्षयाच्छोषं प्राप्नोति अप्रतीकाराच्चानुबध्यते यक्ष्मणा यथोपदेक्ष्यमाणरूपेण १
यदा वापुरुषोऽतिहर्षादतिप्रसक्तभावः स्त्रिष्वतिप्रसङ्गमारभते तस्यातिमात्रप्रसङ्गाद्रेतः क्षयमेति क्षयमपि चोपगच्छति रेतसि यदि मनः स्त्रीभ्यो नैवास्य निवर्तते तस्य चातिप्रणीतसङ्कल्पस्य मैथुनमापद्यमानस्य न शुक्रं क्प्रवर्ततेऽतिमात्रोपक्षीणरेतस्त्वात् तथाऽस्य वायुर्व्यायच्छमानशरीरस्यैव धमनीरनुप्रविश्य शोणितवाहिनीस्ताभ्यः शोणितं प्रच्यावयति तच्छुक्रक्षयादस्य पुनः शुक्रमार्गेण शोणितं प्रवर्तते वातानुसृतलिङ्गम् अथास्य शुक्रक्षयाच्छोणितप्रवर्तनाच्च सन्धयः शिथिलीभवन्ति रौक्ष्यमुपजायते भूयः शरीरं दौर्बल्यमाविशति वायुः प्रकोपमापद्यते स प्रकुपितो वशिकं शरीमनुसर्पन्नुदीर्य श्लेष्मपित्ते परिशोषयति मांसशोणिते प्रच्यावयति श्लेष्मपित्ते संरुजति पार्श्वे अवमृदनात्यंसौ कण्ठमुद्ध्वंसति शिरः श्लेष्माणमुपत्क्लेश्य प्रतिपूरयति श्लेष्मणा सन्धींश्च प्रपीडयन् करोत्यङ्गमर्दमरोचकाविपाकौ च पित्तश्लेष्मोत्क्लेशात् प्रतिलोमगत्वाच्च वायुर्ज्वरं कासं श्वासम् स्वरभेदं प्रतिश्यायं चोपजनयति स कासप्रसङ्गादुरसिक्षते शोणितं ष्ठीवति शोणितगमनाच्चास्य दौर्बल्यमुपजायते ततः स उपशोषणैरेतैरुपद्रवैरुपद्रुतः शनैः शनैरुपशुष्यति तस्मात् पुरुषो मतिमानात्मनः शरीरमनुरक्षञ्छुक्रमनुरक्षेत् परा ह्येषा फलनिर्वृत्तिराहारस्येति ८
भवति चात्र--
आहारस्य परं धाम शुक्रं तद्रक्ष्यमात्मनः
क्षयो ह्यस्य बहून् रोगान्मरणं वा नियच्छति ९
विषमाशनं शोषस्यायतनमिति यदुक्तं तदनुव्याख्यास्यामः--यदा पुरुषः पानाशनभक्ष्यलेह्योपयोगान् प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपशयविषमानासेवते तदा तस्य तेभ्यो वातपित्तश्लेष्माणो वैषम्यपापद्यन्ते ते विषमाः शरीरमनुसृत्य यदा स्रोतसामयनमुखानि प्रतिवार्यावतिष्ठन्ते तदा जन्तुर्यद्यदाहारजातमाहरति तत्तदस्य मूत्रपुरीषमेवोपजायते भूयिष्ठं नान्यस्तथा शरीधातुः स पुरीषोपष्टम्भाद्वर्तयति तस्माच्छुष्यतो विशेषेण पुरीषमनुरक्ष्यं तथाऽन्येषामतिकृशदुर्बलानां तस्यानाप्यायमानस्य विषमाशनोपचिता दोषाः पृथक् पृथगुपद्रवैर्युञ्जन्तो भूयः शरीरमुपशोषयन्ति तत्र वातः शूलमङ्गमर्दं कण्ठोद्ध्वंसनं पार्श्वसंरुजनमंसावमर्दं स्वरभेदं प्रतिश्यायं चोपजनयति पित्तं ज्वरमतीसारमन्तर्दाहं च श्लेष्मा तु प्रतिश्यायं शिरसो गुरुत्वमरोचकं कासं च स कासप्रसङ्गादुरसि क्षते शोणितं निष्ठीवति शोणितगमनाच्चास्य दौर्बल्यमुपजायते एवमेते विषमाशनोपचितास्त्रयो दोषा राजयक्ष्माणमभिनिर्वर्तयन्ति स तैरुपशोषणैरुपद्रवैरुपद्रुतः शनैः शनैः शुष्यति तस्मात् पुरुषो मतिमान् प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपशयादविषममाहारमाहरेत् १०
भवति चात्र--
हिताशी स्यान्मिताशी स्यात्कालभोजी जितेन्द्रियः
पश्यन् रोगान् बहून् कष्टान् बुद्धिमान् विषमाशनात् ११
एतैश्चतुर्भिः शोषस्यायतनैरुपसेवितैर्वातपित्तश्लेष्माणः प्रकोपमापद्यन्ते ते प्रकुपिता नानाविधैरुपद्रवैः शरीरमुप्शोषयन्ति तं सर्वरोगाणां कष्टतमत्वाद्राजयक्ष्माणमाचक्षते भिषजः यस्माद्वा पूर्वमासीद्भगवतः सोमस्योडुराजस्य तस्माद्राजयक्ष्मेति १२
तस्येमानि पूर्वरूपाणि भवन्ति तद्यथाप्रतिश्यायः क्षवथुरभीक्ष्णं श्लेष्मप्र
सेकः मुखमाधुर्यम् अनन्नाभिलाषः अन्नकाले चायासः दोषदर्शनमदोषेष्वल्पदोषेषु पा भावेषु पात्रोदकान्नसूपापूपदंशपरिवेशकेषु भुक्तवतश्चास्य हृल्लासः तथोल्लेखनमप्याहारस्यान्तरान्तरा मुखस्य पादयोश्च शोफः पाण्योश्चावेक्षणमत्यर्थम् अक्ष्णोः श्वेतावभासता चातिमात्रं बाह्वोश्च प्रमाणजिज्ञासा स्त्रीकामता निर्घृणित्वं बीभत्सदर्शनता चास्य काये स्वप्ने चाभीक्ष्णं दर्शनमनुदकानामुदकस्थानानां शून्यानां च ग्रामनगरनिगमजनपदानां शुष्कदग्धभग्नानां च वनानां कृकलासमयूरवानरशुकसर्पकाकोलूकादिभिः संस्पर्शनमधिरोहणं यानं वा श्वोष्ट्रखरवराहैः केशास्थिभस्मतुषाङ्गारराशीनां चाधिरोहणमिति शोषपूर्वरूपाणि भवन्ति १३
अत ऊर्ध्वमेकादशरूपाणि तस्य भवन्ति तद्यथा--शिरसः परिपूर्णत्वं कासः श्वासः स्वरभेदः श्लेष्मणश्छर्दनं शोणितष्ठीवनं पार्श्वसंरोजनम् अंसावमर्दः ज्वरः अतीसारः अरोचकश्चेति १४
तत्रापरिक्षीणबलमांसशोणितो बलवानजातारिष्टः सर्वैरपि शोषलिङ्गैरुपद्रुतः साध्यो ज्ञेयः बलवानुपचितो हि सहत्वाद्व्याध्यौषधबलस्य कामं सुबहुलिङ्गोऽप्यल्पलिङ्ग एव मन्तव्यः १५
दुर्बलं त्वतिक्षीणबलमांसशोणितमल्पलिङ्गमजातारिष्टमपि बहुलिङ्गं जातारिष्टमपि बहुलिङ्गं जातारिष्टं च विद्यात् असहत्वाद्व्याध्यौषधबलस्य तं परिवर्जयेत् क्षणेनैव हि प्रादुर्भवन्त्यरिष्टानि अनिमित्तश्चारिष्टप्रादुर्भाव इति १६
तत्र श्लोकः--
समुत्थानं च लिङ्गं च यः शोषस्यावबुध्यते
पूर्वरूपं च तत्त्वेन स राज्ञः कर्तुमर्हति १७
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने शोषनिदानं नाम
षाष्ठोऽध्यायः
सप्तमोऽध्यायः
अथात उन्मादनिदानं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
इह खलु पञ्चोन्मादा भवन्ति तद्यथा वातपित्तकफसन्निपातागन्तुनिमित्ताः ३
तत्र दोषनिमित्ताश्चत्वारः पुरुषाणामेवंविधानां क्षिग्रमभिनिर्वर्तन्ते तद्यथाभीरूणामुपक्लिष्टसत्त्वानामुत्सन्नदोषाणां समलविकृतोपहितान्यनुचितान्याहारजातानि वैषम्ययुक्तेनोपयोगविधिनोपयुञ्जानानां तन्त्रप्रयोगमपि विषममाचरतामन्याश्च शरीरचेष्टा विषमाः समाचरतामत्युपक्षीणदेहानां व्याधिवेगसमुद्भ्रमितानामुपहतमनसां वा कामक्रोधलोभहर्षभयमोहायासशोकचिन्तोद्वेगादिभिर्भूयोऽभिघाताभ्याहतानां वा मनस्युपहते बुद्धौ च प्रचलितायामभ्युदीर्णा दोषाः प्रकुपिता हृदयमुपसृत्य मनोवहानि स्रोतांस्यावृत्य जनयन्त्युन्मादम् ४
उन्मादम् पुनर्मनोबुद्धिसंज्ञाज्ञानस्मृतिभक्तिशीलचेष्टाचारविभ्रमंविद्यात् ५
तस्येमानि पूर्वरूपाणि तद्यथा--शिरसः शून्यता चक्षुषोराकुलता स्वनः कर्णयोः उच्छ्वासस्याधिक्यम् आस्यसंस्रवणम् अनन्नाभिलाषारोचकाविपाकाः हृद्ग्रहः ध्यानायाससंमोहोद्वेगाश्चास्थाने सततं लोमहर्षः ज्वरश्चाभीक्ष्णम् उन्मत्तचित्तत्वम् उदर्दित्वम् अर्दिताकृतिकरणं च व्याधेः स्वप्ने चाभीक्ष्णं दर्शनं भ्रान्तचलितानवस्थितानां रूपाणामप्रशस्तानां च तिलपीडकचक्राधिरोहण वातकुण्डलिकाभिश्चोन्मथनं निमज्जनं च कलुषाणामम्भसामावर्ते चक्षुषोश्चापसर्पणमिति दोषनिमित्तानामुन्मादानां पूर्वरूपानि भवन्ति ६
ततोऽनन्तरमेवमुन्मादाभिनिर्वृत्तिरेव तत्रेदमुन्मादविशेषविज्ञानं भवति तद्यथा--परिसरणमजस्रम् अक्षिभ्रुवौष्ठांसहन्वग्रहस्तपादाङ्गविक्षेपणमकस्मात् सततमनियतानां च गिरामुत्सर्गः फेनागमनमास्यात् अभीक्ष्णं स्मितहसितनृत्यगीतवादित्रसंप्रयोगाश्चास्थाने वीणावेंशशङ्खशम्यातालशब्दानुकरणमसाम्ना यानमयानैः अलङ्करणमनलङ्कारिकैर्द्रव्यैः लोभश्चाभ्यवहार्येष्वलब्धेषु लब्धेषु चावमानस्तीव्रमात्सर्यं च कार्श्यं पारुष्यम् उत्पिण्डितारुणाक्षता वातोपशयविपर्यासादनुपशयता च इति वातोन्मादलिङ्गानि भवन्ति १
अमर्षः क्रोधः संरम्भश्चास्थाने शस्त्रलोष्ट्रकशाकाष्ठमुष्टिभिरभिहननं स्वेषां परेषां वा अभिद्रवणं प्रच्छायशीतोदकान्नाभिलाषः संतापश्चातिवेलं ताम्रहरितहारिद्रसंरब्धाक्षता पित्तोपशयविपर्यासादनुपशयता च इति पित्तोन्मादलिङ्गानि भवन्ति २
स्थानमेकदेशे तूष्णींभावः अल्पशश्चङ्क्रमणं लालाशिङ्घाणकस्रवणम् अनन्नाभिलाषः रहस्कामता बीभत्सवं शौचद्वेषः स्वप्ननित्यता श्वयथुरानने शुक्लस्तिमितमलोपदिग्धाक्षत्वं श्लेष्मोपशयविपर्यासादनुपशयता च इति श्लेष्मोन्मादलिङ्गानि भवन्ति २
त्रिदोषलिङ्गसन्निपाते तु सान्निपातिकं विद्यात् तमसाध्यमाचक्षते कुशलाः ७
साध्यानां तु रयाणां साधनानि--
स्नेहस्वेदवमनविरेचनास्थापनानुवासनोपशमननस्तः कर्मधूमधूपनाञ्जनावपीडप्रधमनाभ्यङ्गप्रदेहपरिषेकानुलेपनवधबन्धनावरोधनवित्रासन-विस्मापनविस्मारणापतर्पणसिराव्यधनानि भोजनविधानं च यथास्वं युक्त्या यच्चान्यदपि किंचिन्निदानविपरीतमौषधं कार्ये तदपि म्यादिति ८
भवति चात्र--
उन्मादान् दोषजान् साध्यान् साधयेद्भिषगुत्तमः
अनेन विधियुक्तेन कर्मणा यत् प्रकीर्तितम् ९
यस्तु दोषनिमित्तेभ्य उन्मादेभ्यः समुत्थानपूर्वरूपलिङ्गवेदनोपशयविशेषसमन्वितो भवत्युन्मादस्तमागन्तुकमाचक्षते केचित् पुनः पूर्वकृतं कर्माप्रशस्तमिच्छन्ति तस्य निमित्तम् तस्य च हेतुः प्रज्ञापराध एवेति भगवान् पुनर्वसुरात्रेयः प्रज्ञापराधाद्ध्येयं देवर्षिपितृगन्धर्वयक्षराक्षसपिशाचगुरुवृद्धसिद्धाचार्यपूज्यानवमत्याहितान्याचरति अन्यद्वा किंचिदेवंविधं कर्माप्रशस्तमारभते तमात्मना हतमुपघ्नन्तो देवादयः कुर्वन्त्युन्मत्तम् १०
तत्र देवादिप्रकोपनिमित्तेनागन्तुकोन्मादेन पुरस्कृतस्येमानि पूर्वरूपाणि भवन्ति तद्यथा--देवगोब्राह्मणतपस्विनां हिंसारुचित्वं कोपनत्वं नृशंसाभिप्रायता अरतिः ओजोवर्णच्छायाबलवपुषामुपतप्तिः स्वप्ने च देवादिभिरभिभर्त्सनं प्रवर्तनं चेति ततोऽनन्तरमुन्मादाभिनिर्वृतिः ११
तत्रायमुन्मादकराणां भूतानामुन्मादयिष्यतामारम्भविशेषो भवति तद्यथा अवलोकयन्तो देवा जनयन्त्युन्मादं गुरुवृद्धसिद्धमहर्षयोऽभिशपन्तः पितरो दर्शयन्तः स्पृशन्तो गन्धर्वाः समाविशन्तो यक्षाः राक्षसास्त्वात्मगन्धमाघ्रापयन्तः पिशाचाः पुनरारुह्य वाहयन्तः १२
तस्येमानि रूपाणि भवन्ति तद्यथा--
अत्यात्मबलवीर्यपौरुषपराक्रमग्रहणधारणस्मरणज्ञानवचनविज्ञानानि अनियतश्चोन्मादकालः १३
उन्मादयिष्यतामपि खलु देवर्षिपितृगन्धर्वयक्षराक्षसपिशाचानां गुरुवृद्धसिद्धानां वा एष्वन्तरेष्वभिगमनीयाः पुरुषा भवन्ति तद्यथा -- पापस्य कर्मणः समारम्भे पूर्वकृतस्य वा कर्मणः परिणामकाले एकस्य वा शून्यगृहवासे चतुष्पथाधिष्ठाने वा सन्ध्यावेलायामप्रयतभावे वा पर्वसन्धिषु वा मिथुनीभावे रजस्वलाभिगमने वा विगुणे वाऽध्ययनबलिमङ्गलहोमप्रयोगे नियमव्रतब्रह्मचर्यभङ्गे वा महाहवे वा देशकुलपुरविनाशे वा महाग्रहोपगमने वा स्त्रिया वा प्रजननकाले विविधभूताशुभाशुचिस्पर्शने वा वमनविरेचनरुधिरस्रावे अशुचेरप्रयतस्य वा चैत्यदेवायतनाभिगमने वा मांसमधुतिलगुडमद्योच्छिष्टे वा दिग्वाससि वा निशि नगरनिगमचतुष्पथोपवनश्मशानाघातनाभिगमने वा द्विजगुरुसुरयतिपूज्याभिधर्षणे वा धर्माख्यानव्यतिक्रमे वा अन्यस्य वा कर्मणोऽप्रशस्तस्यारम्भे इत्यभिघातकाला व्याख्याता भवन्ति १४
त्रिविधं तु खलून्मादकराणां भूतानामुन्मादेन प्रयोजनं भवति तद्यथा--हिंसा रतिः अभ्यर्चनं चेति तेषां तं प्रयोजनविशेषमुन्मत्ताचारविशेषलक्षणैर्विद्यात् तत्र हिंसार्थिनोन्माद्यमानोऽग्निं प्रविशति अप्सु निमज्जति स्थलाच्छ्वभ्रे वा पतति शस्त्रकशाकाष्ठलोष्टमुष्टिभिर्हन्त्यात्मानम् अन्यच्च प्राणवधार्थमारभते किञ्चित् तमसाध्यं विद्यात् साध्यौ पुनर्द्वावितरौ १५
तयोः साधनानि--
मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमव्रतप्रायश्चित्तोप-वासस्वस्त्ययनप्रणिपातगमनादीनि १६
एवमेते पञोन्मादा व्याख्याता भवन्ति १७
ते तु खलु निजागन्तुविशेषेण साध्यासाध्यविशेषेण च प्रविभज्यमानाः पञ्च सन्तो द्वावेव भवतः तौ च परस्परमनुबध्नीतः कदाचिद्यथोक्तहेतुसंसर्गात् तयोः संसृष्टमेव पूर्वरूपं भवति संसृष्टमेव च लिङ्गम् तत्रासाध्यसंयोगं साध्यासाध्यसंयोगं चासाध्यं विद्यात् साध्यं तु साध्यसंयोगम् तस्य साधनं साधनसंयोगमेव विद्यादिति १८
भवन्ति चात्र--
नैव देवा न गन्धर्वा न पिशाचा न राक्षसाः
न चान्ये स्वयमक्लिष्टमुपक्लिश्नन्ति मानवम् १९
ये त्वेनमनुवर्तन्ते क्लिश्यमानं स्वकर्मणा
न स तद्धेतुकः श्लेशो न ह्यस्ति कृतकृत्यता २०
प्रज्ञापराधात् संभूते व्याधौ कर्मज आत्मनः
नाभिशंसेद्बुधो देवान्न पितृन्नापि राक्षसान् २१
आत्मानमेव मन्येत कर्तारं सुखदुःखयोः
तस्माच्छ्रेयस्करं मार्गं प्रतिपद्येत नो त्रसेत् २२
देवादीनामपचितिर्हितानां चोपसेवनम्
ते च तेभ्यो विरोधश्च सर्वमायत्तमात्मनि २३
तत्र श्लोकः --
संख्या निमित्तं प्राग्रपं लक्षणं साध्यता न च
उन्मादानां निदानेऽस्मिन् क्रियासूत्रं च भाषितम् २४
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने उन्मादनिदानं नाम
सप्तमोऽध्यायः ७
अष्टमोऽध्यायः
अथातोऽपस्मारनिदानं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
इह खलु चत्वारोऽपस्मारा भवन्ति वातपित्तकफसन्निपातनिमिताः ३
त एवंविधानां प्राणभृतां क्षिप्रमभिनिर्वर्तन्ते तद्यथा रजस्तमोभ्यामुपहतचेतसामुद्भ्रान्तविषमबहुदोषाणां समलविकृतोपहितान्यशुचीन्यभ्यवहारजातानि वैषम्ययुक्तेनोपयोगविधिनोपयुञ्जानानां तन्त्रप्रयोगमपि च विषममाचरतामन्याश्च शरीरचेष्टा विषमाः समाचरतामत्युपक्षयाद्वा दोषाः प्रकुपितारजस्तमोभ्यामुपहतचेतसामन्तरात्मनः श्रेष्ठतममायतनं हृदयमुपसृत्योपरि तिष्ठन्ते
तथेन्द्रियायतनानि च तत्र चावस्थिताः सन्तो यदा हृदयमिन्द्रियायतनानि चेरिताः कामक्रोधभयलोभमोहहर्षशोकचिन्तोद्वेगादिभिः सहसाऽभिपूरयन्ति तदा जन्तुरपस्मरति ४
अपस्मारं पुनः स्मृतिबुद्धिसत्त्वसंप्लवाद्बीभत्सचेष्टमावस्थिकं तमःप्रवेशमाचक्षते ५
तस्येमानि पूर्वरूपाणि भवन्ति तद्यथा--भ्रूव्युदासः सततमक्ष्णोर्वैकृतमशब्दश्रवणं लालासिङ्घाणप्रस्रवणमनन्नाभिलषणमरोचकविपाकौ हृदयग्रहः कुक्षेराटोपो दौर्बल्यमस्थिभेदोऽङ्गमर्दो मोहस्तमसो दर्शनं मूर्च्छा भ्रमश्चाभीक्ष्णं स्वप्ने च मदनर्तनव्यधनव्यथनवेपनपतनादीनीति ६
ततोऽनन्तरमपस्माराभिनिर्वृत्तिरेव ७
तत्रेदमपस्मारविशेषविज्ञानं भवति तद्यथा--अभीक्ष्णमपस्मरन्तं क्षणेन संज्ञां प्रतिलभमानम् उत्पिण्डिताक्षम् असाम्ना विलपन्तम् उद्वमन्तं फेनम् अतीवाध्मातग्रीवम् आविद्धशिरस्कं विषमविनताङ्गुलिम् अनवस्थितपाणिपादम् अरुणपरुषश्यावनखनयनवदनत्वचम् अनवस्थितचपलपरुषरूक्षरूपदर्शिनं वातलानुपशयं विपरीतोपशयं च वातेनापस्मरन्तं विद्यात् १
अभीक्ष्णमपस्मरन्तं क्षणेन संज्ञां प्रतिलभमानम् अवकूजन्तम् आस्फालयन्तं भूमिं हरितहारिद्रताम्रनखनयनवदनत्वचं रुधिरोक्षितोग्रमैरवादीप्तरुषितरूपदर्शिनं पित्तलानुपशयं विपरीतोपशयं च पित्तेनापस्मरन्तं विद्यात् २
चिरादपस्मरन्तं चिराच्च संज्ञां प्रतिलभमानं पतन्तम् अनतिविकृतचेष्टं लालामुद्वमन्तं शुक्लनखनयनवदनत्वचं शुक्लगुरुस्निधरूपदर्शिनं श्लेष्मलानुपशयं विपरीतोपशयं च श्लेष्मणाऽपस्मरन्तं विद्यात् ३
समवेतसर्वलिङ्गमपस्मारं सान्निपातिकं विद्यात् तमसाध्यमाचक्षते ४
इति चत्वारोऽपस्मारा व्याख्याताः ८
तेषामागन्तुरनुबन्धो भवत्येव कदाचित् तमुत्तरकालमुपदेक्ष्यामः
तस्य विशेषविज्ञानं यथोक्तलिङ्गैर्लिङ्गाधिक्यमदोषलिङ्गानुरूपं च किञ्चित् ९
हितान्यपस्मारिभ्यस्तीक्ष्णानि संशोधनान्युपशमनानि च यथास्वं मन्त्रादीनि चागन्तुसंयोगे १०
तस्मिन् हि दक्षाध्वरध्वंसे देहिनां नानादिक्षु विद्रवतामभिद्रवणतरणधावनप्लवनलङ्घनाधैर्देहविक्षोभणैः पुरा गुल्मोत्पत्तिरभूत् हविष्प्राशात् प्रेमेहकुष्ठानां भयत्रासशोकैरुन्मादानां विविधभूताशुचिसंस्पर्शादपस्माराणां ज्वरस्तु खलु महेश्वरललाटप्रभवः तत्संतापाद्रक्तपित्तम् अतिव्यवायात् पुनर्नक्षत्रराजस्य राजयक्ष्मेति ११
भवन्ति चात्र--
अपस्मारो हि वातेन पित्तेन च कफेन च
चतुर्थः सन्निपातेन प्रत्याख्येयस्तथाविधः १२
साध्यांस्तु भिषजः प्राज्ञाः साधयन्ति समाहिताः
तीक्ष्णैः संशोधनैश्चैव यथास्वं शमनैरपि १३
यदा दोषनिमित्तस्य भवत्यागन्तुरन्वयः
तदा साधारणं कर्म प्रवदन्ति भिषग्विदः १४
सर्वरोगविशेषज्ञः सर्वौषधविशारदः
भिषक् सर्वामयान् हन्ति न च मोहं निगच्छति १५
इत्येतदखिलेनोक्तं निदानस्थानमुत्तमम्
निदानार्थकरो रोगो रोगस्याप्युपलभ्यते १६
तद्यथाज्वरसंतपाद्रक्तपित्तमुदीर्यते
रक्तपित्ताज्ज्वरस्ताभ्यां शोषश्चाप्युपजायते १७
प्लीहाभिवृद्ध्या जठरं जठराच्छोथ एव च
अर्शोभ्यो जठरं दुःखं गुल्मश्चाप्युपजायते १८
प्रतिश्यायाद्भवेत् कासः कासात् संजायते क्षयः
क्षयो रोगस्य हेतुत्वे शोषस्याप्युपल्भ्यते १९
ते पूर्वं केवला रोगाह् पश्चाद्धेत्वर्थकारिणः
उभयार्थकरा दृष्टास्तथैवैकार्थकारिणः २०
कश्चिद्धि रोगो रोगस्य हेतुर्भूत्वा प्रशाम्यति
न प्रशाम्यति चाप्यन्यो हेत्वर्थं कुरुतेऽपि च २१
एवं कृच्छ्रतमा नृणां दृश्यन्ते व्याधिसङ्कराः
प्रयोगापरिशुद्धत्वात्तथा चान्योन्यसंभवात् २२
प्रयोगः शमयेद्व्याधिं योऽन्यमन्यमुदीरयेत्
नासौ विशुद्धः शुद्धस्तु शमयेद्यो न कोपयेत् २३
एको हेतुरनेकस्य तथैकस्यैक एव हि
व्याधेरेकस्य चानेको बहूनां बहवोऽपि च २४
ज्वरभ्रमप्रलापाद्या दृश्यन्ते रूक्षहेतुजाः
रूक्षेणैकेन चाप्येको ज्वर एवोपजायते २५
हेतुभिर्बहुभिश्चैको ज्वरो रूक्षादिभिर्भवेत्
रूक्षादिभिर्ज्वराद्याश्च व्याधयः संभवन्ति हि २६
लिङ्गं चैकमनेकस्य तथैवैकस्य लक्ष्यते
बहूनेकस्य च व्याधेर्बहूनां स्युर्बहूनि च २७
विषमारम्भमूलानां लिङ्गमेकं ज्वरो मतः
ज्वरस्यैकस्य चाप्येकः संतापो लिङ्गमुच्यते २८
विषमारम्भमूलैश्च ज्वर एको निरुच्यते
लिङ्गैरेतैर्ज्वरश्वासहिक्काद्याः सन्ति चामयाः २९
एका शान्तिरनेकस्य तथैवैकस्य लक्ष्यते
व्याधेरेकस्य चानेका बहूनां बह्व्य एव च ३०
शान्तिरामाशयोत्थानां व्याधीनां लङ्घनक्रिया
ज्वरस्यैकस्य चाप्येका शान्तिर्लङ्घनमुच्यते ३१
तथा लघ्वशनाद्याश्च ज्वरस्यैकस्य शान्तयः
एताश्चैव ज्वरश्वासहिक्कादीनां प्रशान्तयः ३२
सुखसाध्यः सुखोपायः कालेनाल्पेन साध्यते
साध्यते कृच्छ्रसाध्यस्तु यत्नेन महता चिरात् ३३
याति नाशेषतां व्याधिरसाध्यो याप्यसंज्ञितः
परोऽसाध्यः क्रियाः सर्वाः प्रत्याख्येयोऽतिवर्तते ३४
नासाध्यः साध्यतां याति साध्यो याति त्वसाध्यताम्
पादापचाराद्दैवाद्वा यान्ति भावान्तरं गदाः ३५
बृधिस्थानक्षयावस्थां रोगाणामुपलक्षयेत्
सुसूक्ष्मामपि च प्राज्ञो देहाग्निबलचेतसाम् ३६
व्याध्यवस्थाविशेषान् हि ज्ञात्वा ज्ञात्वा विचक्षणः
तस्यां तस्यामवस्थायां चतुःश्रेयः प्रपद्यते ३७
प्रायस्तिर्यग्गता दोषाः क्लेशयन्त्यातुरांश्चिरम्
तेषु न त्वरया कुर्याद्देहाग्निबलवित् क्रियाम् ३८
प्रयोगैः क्षपयेद्वा तान् सुखं वा कोष्ठमानयेत्
ज्ञात्वा कोष्ठप्रपन्नांस्तान् यथासन्नं हरेद्बुधः ३९
ज्ञानार्थं यानि चोक्तानि व्याधिलिङ्गानि संग्रहे
व्याधयस्ते तदात्वे तु लिङ्गानीष्टानि नामयाः ४०
विकारः प्रकृतिश्चैव द्वयं सर्वं समासतः
तद्धेतुवशगं हेतोरभावान्नानुवर्तते ४१
तत्र श्लोकाः--
हेतवः पूर्वरूपाणि रूपाण्युपशयस्तथा
संप्राप्तिः पूर्वमुत्पत्तिः सूत्रमात्रं चिकित्सितात् ४२
ज्वरादीनां विकाराणामष्टानां साध्यता न च
पृथगेकैकशश्चोक्ता हेतुलिङ्गोपशान्तयः ४३
हेतुपर्यायनामानि व्याधीनां लक्षणस्य च
निदानस्थानमेतावत् संग्रहेणोपदिश्यते ४४
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने अपस्मारनिदानं
नामाष्टमोऽध्यायः
निदानस्थानं समाप्तम्
 इति निदान स्थान समाप्ता